यदा त्वां वानरः कश्चिद्विक्रमाद्वशमानयेत् ॥ तदा त्वया हि विज्ञेयं रक्षसां भयमागतम् ॥ ४८ ॥
स हि मे समयस्सौम्य प्राप्तोऽद्य तव दर्शनात् ॥ स्वयंभूविहितस्सत्यो न तस्यास्ति व्यतिक्रमः ॥ ४९ ॥
सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः ॥ राक्षसां चैव सर्वेषां विनाशः समुपागतः ॥ ५० ॥
तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् ॥ विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि ॥ ५१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे तृतीयः सर्गः ॥ ३ ॥
चतुर्थः सर्गः ॥ ४ ॥
वामपादनिक्षेपपूर्वकमद्वारेणलङ्कांप्रविष्टवताहनुमता नगरान्तर्नानागीतवादित्रश्रवणेनसह विचित्रतरगृहाणां नानावि धायुधाकारधारिरावणमूलबलादीनांचावलोकनं ॥ १ ॥
स निर्जित्य पुरीं [४]श्रेष्ठां लङ्कां तां कामरूपिणीम् ॥ विक्रमेण महातेजा हनुमान्क[५]पिसत्तमः ॥
अद्वारेण [६]महाबाहुः [७]प्राकारमभिपुप्लुवे ॥ १ ॥
[[८]निशि लङ्कां महासत्वो विवेश कपिकुञ्जरः] ॥ प्रविश्य नगरीं लङ्कां कपिराजहितंकरः ॥
[९]चक्रेऽथ पादं सव्यं च [१०]शत्रूणां स तु मूर्धनि ॥ २ ॥
प्रविष्टः सत्वसंपन्नो निशायां मारुतात्मजः ॥ स महापथमास्थाय [११]मुक्तापुष्पविराजितम् ॥ ३ ॥
दहंशब्दस्य पुनरुक्तिः ॥ ४६-४७ ॥ वरदानस्वरूपमाह ...---यदिति । अत्र रावणस्य दिग्विजये नन्दुिकेश्वरादि...लङ्कायाः सद्यो विनाशशापे दत्ते सा ब्रह्माणं ...त्वा प्रार्थयामास । विनाशो मे माभूदिति । स च ...यै वरमदात् । तव सद्यो विनाशो न भविष्यति । ...दा तु वानरस्त्वामभिभविष्यति तदा तु विनाशो ... भविष्यतीति कथोन्नीयते ॥ ४८-५१ ॥ शापो नन्दि...रादिकृत: । यदृच्छयेत्यस्य गत इति संबन्धः । ...दृच्छयाऽत्र प्राप्तस्त्वमित्यर्थः ॥ ५२ ॥ इति श्रीगो- |
विन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने तृतीयः सर्गः ॥ ३ ॥ अद्वारेणेत्यनेन लङ्कापरिभवो राक्षसैर्न ज्ञातुं शक्य इति द्योत्यते ॥ १ ॥ चक्र इति । शत्रुदेशप्रवेशे प्रथमं सव्यपादः कार्यः स तु शत्रोर्मूर्ध्नि कृतो भवेदिति राजशास्त्रं । अनेन प्रथमं सव्यं पादं लङ्कायां कृतवानित्यर्थः सिद्धः । तदाह बृहस्पतिः "प्रयाणकाले च गृहप्रवेशे विवाहकालेपि च दक्षिणाङ्घ्रिम् । कृत्वाग्रतः |
.... रावणाधिक्षेपक्षुभितनन्दिकेश्वरशापात्सद्यःप्राप्तोपिविनाशः स्वयंभूवरप्रसादाद्वानरास्कन्दनपर्यन्तं प्रतिबंद्धइति कथात्रा...संधेया ॥ ४९ ॥ ति० शापोपहतां सत्यसंकल्पभगवद्वचनेन नन्दिकेश्वरशापेनचप्रापितनाशकालं हरीश्वरस्त्वंप्रविश्ययदृच्छया ...त्ररावणान्तःपुरपर्यन्तं यथासुखंगतःसन् सतीं अप्रच्युतपातिव्रत्यांजानकींविमार्ग अन्वेषय । अनेनचवचनेन सीताऽकल्मषा...पुरेवर्ततइत्युपदिष्टम् ॥ ५२ ॥ इतितृतीयः सर्गः ॥ ३ ॥
रामानु० "ग्रामंवानगरंवापिपत्तनंवापरस्यहि । विशेषात्समयेसौम्यनद्वारेणविशेन्नृपः" इत्युक्तप्रकारेणअद्वारेणप्रविष्टवान् ॥ १ ॥ स० कपिराजहितंकरः कपीश्वरसुग्रीवायहितकारीत्यर्थः । हेितशब्दोपपदात्करोतेः खश्विधायकाभावेपिप्रामाणिकप्रयोगानुसारे...णतस्योह्यत्वात् । अतएवकाशिकायां भगंदरइतिरूपसिद्धये 'भगेचदारेः' इत्युक्तं ॥२॥ रामानु० महापथं आस्थाय गम्यत्वेना-
वा. रा. १५२
- ↑ क.--- ट. पुरींशुभां.
- ↑ च. छ. ज. राक्षसराज.
- ↑ क. ग. तां.
- ↑ घ. ङ. झ. ञ. ट. लङ्कांश्रेष्ठां.
- ↑ छ.---ट. न्कपिकुञ्जरः. क. न्मारुतात्मजः.
- ↑ झ. ञ. ट. महावीर्यः. ङ. महाकायः.
- ↑ ञ. प्राकारंचसपुप्लुवे. ग. ङ.---झ. ट. प्राकारमवपुप्लुवे.
- ↑ ङ.----ट. पाठेष्विदमर्धंदृश्यते.
- ↑ छ. ज. चक्रेच.
- ↑ क. शत्रूणामपि.
- ↑ क. घ. ङ. झ. ञ. ट. मुक्तपुष्प.