पृष्ठम्:न्यायमकरन्दः.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्यथाख्यातिवादनिरासः । मृ०–ष्यैव रजतावभासनम्, अमललोचनस्यैव तु तदभावावभानमित्युपपद्यत एव व्यवस्था, रजतोचितार्थ क्रियानुपलम्भश्च तत्सामथ्र्यस्यैवाभावमावेदयेन्न पुनरपरो क्षावभाससिद्धस्यापि रजतस्य । विरोधेपि भाव एव केिन्नाश्रयणीयः, अभावावभासावरोधात, प्रावल्यात्पराचः प्रत्ययस्येति चेन्मैवं, भावावभासस्यापि पराचो दशनाद्, श्री । अस्त्येवास्माद्प्यभावावभासः पराचीन इतिचेवद्,-न, असञ्जातवाधानामपि निधनोपलम्भाद् । टी०-अभाववद् भावस्यापि सत्त्वे तदुचित्तार्थक्रियापि स्यादित्यत आह “रजतोचित” इति, । अङ्कुरजनने मूषिकाघ्रातवीजवक्द सामथ्र्यमेव स्यान्न पुनरसत्त्वमित्यर्थ, विरोधमञ्युपगम्यापि दूषयति'ांत्रेररो विरोधेपि' इति । अनाश्रयणे हेतुमाह पूर्ववादी “अभावावभासविरोधाद्’ इति । विरोध' पूर्वापरयोस्तुल्य एव तत्कथं निर्णय इत्यत आह *प्राव ल्याद्’ इति। उत्तरभावित्वं भावप्रत्ययस्यापि प्रावल्ये हेतुरस्तीतिः परिहरात “मैवम्' इति

  • यस्य कस्यचित्पूर्वभाविप्रत्ययस्यापेक्षयाऽस्यापि परावत्वादिति भावः ।

+ यत्र हि विभ्रमात्यानन्तर प्रतिपतुञ्जिज्ञासाभावी शान्तरप्रयाण वा देहध्याप त्तिर्वा भवति तत्र तस्य न वाधाद्य. इति तत्रासजातवाधस्थले विभ्रभप्रत्ययस्यैव पराक् त्वामेति भाव