पृष्ठम्:न्यायमकरन्दः.djvu/९६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


न्यायमकरन्दे मू०-यदपि ‘शुक्तिशकलमेव कामलादिदूषितलोच नालेििचतमर्थन्तरजतात्मनावभासत’ इति, तत्र यद्यर्था न्तरता नाम सदन्तरता साऽऽयुक्ता, नाह सा तत्रवायुष्म तोप्यभिप्रेता, नचान्यत्र सा युक्ता । सा , खल्वनभवाद्वाऽन्यत्र व्यवस्थापिताऽनपपतितो वा अनुभवोपि रजतावभासो वा भवेद् यदि वा वाधाव भासो,ऽन्यो वा, न तावदाद्यः स हीदंकारास्पदं रजतमा वेद्यति नत्वसन्निहितां तत्सत्ताम्, उत्तरेपि रजताभाव मात्रमिहावभासयन्ननुभूयते न पुनरस्यान्यत्रापि सत्तां, न चानुभवान्तरमन्यत्र सत्तामस्यावेद्यदावेद्यते. । यः पुनरत्यन्तरागान्धीकृतान्तःकरणैरन्तिकावलोकित कान्ताकरकलधौतावभासी कालान्तरजतप्रत्यभिज्ञानु भवः सोपि पारलून्पुनजातकुन्तलकलापादाववादयन्त सादृश्यादन्यथासिद्धः, स्वशावबुद्धनभेोभक्षणवद् विभ्रा न्तिविषयस्यान्यत्रानुपपत्तेः । टी०-स्रदन्तरता किं तत्रैवोतान्यत्रेति विकल्प्याद्य दूषयति'नहिसा '; इति । बाधाभावप्रसङ्गादित्यर्थः । द्वितीयं पक्षं दूषयाति“नचान्यत्र' इति, । अनुभवाद्वति पदं त्रेधा विकल्प्याद्य दूषयति “नतावद्' इति । अन्यो वेति न्यूनतापरिहारार्थम् । अनुभवान्तरमाशङ्कह्य निराकरोति, “यःपुनर, इति, ।