पृष्ठम्:न्यायमकरन्दः.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्यथाख्यातिवादनिरासः । ८९ अत्यन्तासत्ताविशेषेपि त्वैतदात्म्यस्यैवावभा सानुपपत्तिर्न पुना रजतादेर्धर्मिण इत्यत्र कोशपानमेव # यदि चात्यन्तासतः प्रतिभासानुपपत्तिस्तथापि कथं यथाप्रतिभासमेव तत्सत्तानभ्युपगम ननूक्त वाधाविरोध, इति, स खल्विदंकारास्पदे रजताभावमावेद्यतीति, । टी०-भासमानताभावादित्याशङ्कयाह -*अत्यन्तासन्ता' इति । तर्हि रजतस्यैवात्यन्तासतोऽधिष्ठानानुषक्ततयाऽपरोक्षतास्तु सदश संसर्गस्य भावादू, एवं कल्पनासामान्येपि धर्मस्यैवावभासो न धर्मिण इत्यत्रादृष्टं प्रमाणं कोशपानमेव शरणं नतु दृष्ट. कश्चिन्याय इत्यर्थः । असत्ख्यातिभयात्स्वरूपसत्त्वं चेदङ्गीक्रियते तर्हि यत्र शुक्तिश कलादौ प्रतीयते तत्रैव कस्मान्न स्वीक्रियत इति प्रौढिवादेनाह

  • यदिच' इति ॥

विरोधमेव दर्शयति “स खलु ” इति,

  • वकोशपानम्=महाचवांय्यंशङ्काभियुक्ताना नराणां विशुद्धये विाहितषु तुलादिषु

पञ्चसु दिव्येष्वन्यतममन्तिम दिव्यम्, एतञ्च याज्ञवल्क्यीये व्यवहाराध्याये दिव्यप्रकरणे “देवानुयान् समभ्यच्र्य तत्स्रानेोत्कमाहरेत्, सश्राव्य पाययेत् तस्माज्जल तु प्रसृतित्र यम्, अवाक् चतुर्दशाद्न्हो यस्य ना राजनैविक, व्यसन जायतेत घोर स शुद्ध स्यान्न सशय ” ११२॥११३। इत्यत्र व्यक्तमिति तत एवावसेयम् ।