सामग्री पर जाएँ

पृष्ठम्:न्यायमकरन्दः.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अख्यातिवादनिरासः । ७७ मू०-एतेन पीतशङ्खादिविभूमा अपि समारोपरूपा व्याख्याताः । तत्र च नेत्रविरोधिकज्जलकालिमवैलक्षण्येनातिस्व च्छतया तदनिरोधिपित्तपीतिमग्रहणमुपपादयन् तयैव च द्वारा समापतन्तं तन्मात्रानतिरेकि तद्दसैसर्गग्रहमजानानो मधु पश्यसि दुर्बुद्धेः प्रपातं किन्न पश्यासेि' इत्या भाणवकविषयतामयं नातिवर्तत स्वाच्छयनिमितायां च नेत्रानिरोधितायां नेत्रोपरि विसारिणो नीरविन्दोरपि निरीक्षणमापद्येत, प्रसरन्नयन रश्मिसम्बन्धश्च प्रसारिणोः पित्तनीरयोरविशिष्टः, तस्मा दतिदूरवदतिसामीप्यस्याप्यदर्शनहेतुत्वादग्रहणमेवोभयो रिति युक्तमुत्पश्यामः । टी०-नेत्रविरोधित्वादितरस्य तु स्वच्छतया तदनिरोधित्वादिति चेत् तत्राह * तत्रच इति-पित्तपोतिस्रः शङ्खस्य च ग्रहणोपपा दने संसर्गिस्वरूपानतिरिक्तस्य तदसंसर्गस्याग्रहणादाभाणकविषय इत्यर्थः । स्वच्छत्वं नेत्रानिरोधित्वे न प्रयोजकं व्यभिचारादित्याहः

  • स्वाच्छयनिमित्तायां च इति-पित्तस्य नेत्रसम्बन्धोस्ति न

नीरस्येत्यत आह-“प्रसरद्” इति,-

  • प्रपात = यस्मात्पतनेऽवस्थानक्रियाविशेषो न भवत्यवेभूतनिरवलम्वनपर्वतादिपाश्र्धः

विशेष , “मधु पश्यति मूढात्मा प्रपात नैव पश्यति, करोति निन्ति कर्म नरकान्न विभेति च इति-देवीभागवत (स्क० ४-७-४९) श्लोक्रमूलकोऽयमाभाणवक” । अभाभा