पृष्ठम्:न्यायमकरन्दः.djvu/८२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


७८ यायमकरन्दे मू०-तदुक्त-तन्त्रान्तरेपि “अतिदूरात्सामीप्यादिन्द्रियघातान्मनोनवस्थानाद्, सौक्ष्म्याद् व्यवधानादभिभवात्समानाभिहाराच' इति । यदपि “भेदाग्रहप्रसञ्जिताभेदव्यवहारनिवारणादेव विवेकवेद्नस्य8 बाधकता' इत्युक्तं तदप्यनुचितं, तथा सति रजतसंवेदनसमनन्तरमतदर्थिनो+ व्यवहारानुदये नेदमिति विवेकवेदनस्यावाधकताप्रसङ्गादू, व्यवहार योग्यताविच्छेदो वाध इत्यपि रितैव वाचो युक्तिः, सम यान्तरेपि रजताविवेकतस्तत्रैव व्यवहारदर्शनाद् । येोग्यतायाश्च यावद्द्रव्यभावितयाऽनुच्छेदात तत ट०-अतिदूरादू,-मेर्वादेरग्रहणं, सामीप्याद्-नेत्रकज्जलस्य, इन्द्रियघातातू-तिमिरादिना निकटवर्तिनो घटादेः, मनोनवस्थानाडू यत्रेदमुच्यते “-समीपेनापि गच्छन्तं राजानं नावबुद्धवान्’ इति सौक्ष्म्यातू-परमाण्वादेः, व्यवधानातू कुड्यादिना, अभिभवाद् दिवा सावित्रेण तेजसा नक्षत्रादेः, समानाभिहाराश्च-तैलादिना व्यवहारवाधनै वाधकत्वे न प्रयोजकमव्यापकत्वादित्याह

  • तथा सति' इति, ननुयोग्यतान्तरादेव तत्र व्यवहार इत्यत

आह-* योग्यतायाश्च' इति । सति काय्र्यजनने यावद् द्रव्यं सैव योग्यतेति स्वीकरणीयं योग्यतायाः काय्यैकसमधिगम्यत्वाद्

  • विवेकवेदनस्य =नेनत् रजतमिति ज्ञानस्य ।

अतर्थिन = विरक्तस्य, भवति हि विरक्तस्यापि कस्य चित्पुरोवर्तिनीदरजत मितिभ्रान्तिनेदरजतमितिवाधश्च, पर न च तत्र व्यवहारोऽतर्थित्वादिति स्यात्तत्राव्या प्तिरित्यर्थ . । तदर्थिनो व्यवहारविष्छेदत्रस्य व वाधवकत्वऽभ्युपगम्यमानेन यत्र कश्चिम कृचिद्देशे यागाद्यनुष्ठान चीरादिज्ञानाद्विच्छिन्नेोद्योगो भवेत् तत्र चौराविज्ञानस्य यागा विवाधकत्वप्रसङ्ग इति । विक् ॥ * राजारादिरितिशेष ।