पृष्ठम्:न्यायमकरन्दः.djvu/८३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अख्यातिवादनिरासः । मू०-प्रात्तवन्धा बाध, इत्यप्ययुक्तं, विवेकवेदनवेलायां हेत्वभावादेव फलाभावसिद्धौ प्रतिबन्धकल्पनायोगाद् नाप्यविवेकापनोद् एव बाधो युक्तः, विवेकवेदनमात्र स्यापि तत्प्रसङ्गाद्,- एवं च *तदुपपत्तौ प्राचीनव्यवहारप्रसञ्जकस्य भूान्तित्वमपि लोकप्रसिद्धं सिद्धम्' इति प्रत्यूढम्, ठ०-एकयोग्यतावशेन च तदुपपत्तावनेकयोग्यताकल्पनायां माना भावाद् अनुच्छिन्ना सैव योग्यता यावत्काय्यैमनुवर्तत इत्यर्थः । कारणसाकल्ये सति काय्यनुद्ये प्रतिबन्धककल्पना, इह च विवेकग्रहणसमये विवेकाग्रहणलक्षणकारणाभावादेव काय्यनु त्पत्तौ न योग्यताप्रतिबन्धकल्पनावकाश इत्याह, *विवेकवेदन वेलायाम्” इति । “विवेकवेदनमात्रस्य' ' इति-नचायथा व्यवहारहेतोरग्रहणस्य निवृत्तिवधिः, व्यवहारानुदये नेदमित्यवि वेकानेवतकस्यावाधकत्वप्रसङ्गादू-नापि व्यवहारजननयोग्याग्रहण निवृत्तिर्वाधः, व्यवहारमजनित्वैवाग्रहणनिवृत्तेः तत्र तद्योग्य ताया प्रभावेन तन्निवर्तकस्यावाधकताप्रसङ्गादिति भावः । उक्तप्रयोजकाभावेन सत्यमिथ्याज्ञानविवेकोपि भवन्मते दुर्वचन एवेत्याह-' एवं चव ' ' इति ।

  • सर्वाण्यपि हि ज्ञानानि स्वप्रागभावरूपाऽग्रहणनिवर्तकानीति ज्ञानमाश्वस्य वाध

करवापत्ति, स्यात्, तथा च न केपि भ्रान्ता स्युरित्यर्थः ।