पृष्ठम्:न्यायमकरन्दः.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मू०-तुल्यश्चायमनाश्वासो युष्मन्मतेपि, कुम्भोयमितिबो धोदयेपि किमसौ स्मृत्यविवेकरूपः किं वैकानुभवरूप इति दुर्वारत्वात्संशयावतारस्य, तत्र दोषभावाभावाभ्या मन्यतरविनिश्चये नास्मन्मतेप्यसौ दण्डवारिता पदवीति परितुष्यत्वायुष्मान् । यदपि “इदं स्मरणं भवेदनाकलितरजतस्यानुत्प द्यमानत्वाद्' इत्यवादि तदप्यपरोक्षावभासितया स्फुट तरस्मरणभेदोपलम्भाद्ध्यक्षवाधितम्, आनैकान्तिकं च रजतबोधाधेयसंस्कारेण । सति संवेदनत्व इति विशेषणाद्दोष इति चेत तथापि रजतास्पद्समीहितसाधनतानमानेनानैकान्तिकता यदपि-आचाय्यैकदेशीयोन्नीतं तदंशवैधुय्र्यादित्य स्मरणसाधनं, तद्दूषणेपिन काचनास्माकं पक्षतिः, । टा०-ज्ञानानां स्वत:प्रामाण्यादनाश्वासो नास्तीत्युक्तम,-इदानी मख्यातिपत्वेऽनाश्वासमाह-“तुल्यश्च ” इति । ‘तथापि’ इति-समहिनसाधनतानुमानेन,-इत्युपलक्षणं रज तप्रत्यभिज्ञानेपि व्यभिचारादित्यापि द्रष्टव्यम, किंच नयनरश्मिभि: संपृक्तस्य पित्तधातोः पीतिमा यदि गृहीत तत्संपृक्तकञ्जलस्य कालिमापि किमिति न गृहोत, त्स्यास्वच्छतया