सामग्री पर जाएँ

पृष्ठम्:न्यायमकरन्दः.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अख्यातिवादनिरासः । स्तथापि कथं तन्मात्रादिदंकारास्पदाभिमुखी रजतार्थिनः मू०-प्रवृत्तिरुपपद्येत, ग्रहणनिबन्धनो हि चेतनव्यवहारो नाग्रहणमात्राद् युक्तो भवितुमतिप्रसङ्गाद् अथाग्रहणमात्रान्न चेतनव्यवहारोपि तु ग्रहणमेव सन्निहितसाधारणाकारगोचरमनाकलितविवेकं रजतस्मर घणात्संनिहितसमीचीनरजतावभाससान्निभतया ततोऽवि वित्तं तदुचितमेव व्यवहारं प्रवर्तयतीति । तदप्यलीकं, विकल्पासहत्वात्, तथाहि-सन्निहितसमीचीनरजता वभाससन्निभताऽस्य भासमाना प्रवृत्त्युपयोगिनी किं वा सत्तामात्रेण, भासमानतायामपि तत्सन्निभमेिदमितिभासेत उत रजतावभासात्स्वरूपतो विषयतश्चानाकलितभेदमिति । न तावत्सन्निहितरजतावभाससन्निभमित्यवभास स्तदुचितव्यवहारकारणं, नो खलु गोसन्निभो गवय टी०-कुतो नोपपद्यत इति तत्राह -* ग्रह्णनिबन्धन इति ॥ स्मरणसह्नितादू** इति विशेषमाशङ्कते * अथ' इति । भासमानतापक्षे प्रथमविकल्पं दुषयति इति, तत्स्वरूपग्रहणनिबन्धनो व्यवहारो न तत्सद्दशग्रहणवद् भवतीत्यर्थः ।

  • ग्रहणात्प्रवृत्तिर्भवतु-इति शष्पं ।

८८