मू०-प्रतिभासमानाकारस्य च बहिरपलापे वि ज्ञानाकार एवायमाश्रितः स्यात, तथाच महायानिकप क्षानुप्रवेशो दुर्निवारः, तस्मान्ना शुक्तिशकलमेव रजता त्मनावभासते किन्त्वसंप्रयुक्तरजतगोचरमेवैतदास्थेयम् । असति च लिङ्गाद्युपलम्भे जायमानस्यानुमानादि भावो न शङ्कितुमपि शक्यः तथा च सदृशसंदर्शनसमु द्बुद्धसंस्कारकारणतोपपत्तेः परिशेषतः स्मरणमेवैतदा श्रयणीयम् ॥ अख्यातंत्रादात्यापनम् । टी०-स्यापि नविपरीतकाय्यैजनकत्वं तैलकलुषितशालिबीजव दित्यर्थः । दूषणान्तरमाह*प्रतिभासमान' इतेि. अन्तर्बहिश्धाभावे शू न्यता चाऽनिर्वाच्यता वा स्यातू तञ्च सत्ख्यातिवादिना भवता ना ऽभ्युपगम्यते तेन बहिरपलापे विज्ञानाकारतयावस्थानातू सुगतमत प्रसङ्ग इति भावः । मा स्म भूत्प्रत्यक्त्ता तथापि मानान्तरगम्यता किन्न स्यादित्यत अाह * असति चव ?” इति, न केवलं परिशेषात्स्मरणरूपत्वमपि तु मानान्तरादपीत्याह f तस्मात् = प्रतीतिविरोधानाश्वासासत्ख्यातिप्रसङ्गरूपवाधकप्रसङ्गादू, इत्यर्थः ।
पृष्ठम्:न्यायमकरन्दः.djvu/६५
दिखावट