पृष्ठम्:न्यायमकरन्दः.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मू०-दुर्वारमयं परस्पराश्रयमापन्नः । किञ्चैकाकारनि यमाद्न्यव्यवच्छेदे चित्रादिषु नीलादीनामेकदर्शनभाजां भेदो न सिध्येद्, एकज्ञानसंसर्गादेकत्र ज्ञानस्यानियमात, तत्सिद्धमेतन्नैकाकारप्रतिनियमादन्यव्यवच्छेदइति ॥ योऽप्याह-भेदस्वभावाः सर्वे भावाः, तॉस्तथावि धान् विद्धदेव प्रत्यक्षं परस्परव्यावृत्तिविषयं, व्यावृत्ति स्वभावा ॐ यथायथं दर्शनेषु निर्भासन्ते, न खलु पी तसत्ताया अन्तरेणानुभवमस्ति व्यबस्थापकं, नचायं नी टी०-कारप्रतिनियमाभावेप्यन्यव्यवच्छेदस्य दर्शनान्न तस्य प्रयो जकत्वमिति दूषणान्तरमाह [कञ्च' इतेि । “वित्रादिषु' इत्यादिशब्देन समूहालम्बनविषया घटा . दयो गृह्यन्ते, नीलपीतादीनामेकज्ञानसंसर्गेण ज्ञानमेकत्र नियतं न भवतीत्यर्थः । स्वरूपभेद्वादमुत्थापयति-“योऽप्याह्' इति, तद्विधानू= भेदस्वभावान् । कुतः पुनरेषां व्यावृत्तिखभावतेत्यत आह-“व्या- वृत्तिस्वभावा' इति, भासमानतामात्रेण कथं तत्स्वभावतेत्या शङ्कय तत्स्वरूपसिद्विवदित्याह “नखलु” इति, तदनुभवस्त स्वरूपमेव व्यवस्थापयति न पुनव्यवृत्तिस्वभावमित्यत आह-*न- चायम्” इति, अपीतादिव्यावृत्तां=पीताद्यव्यावृत्तां, यदि नीलं पी 44

  • यतो व्यावृत्तिस्वभावा एव भावा तृर्शनेषु निभासन्तेऽतस्तान् विषयीकुर्वत्प्रत्यक्ष

मपि परस्परव्यावृत्तिविषयमेव जायत इत्यर्थ ॥