पृष्ठम्:न्यायमकरन्दः.djvu/४९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


ज्ञेयभेदनिरासः । मृ०-लसत्तां व्यवस्थापयन्नपीतादिव्यावृत्तिरूपामेव ता व्यवस्थापयतीत्यनुभवमार्गागतं, नच भेदिस्वभावातिरेका भेदो निरूपणपद्धतिमध्यास्ते, तथासति तद्भे दस्य भेदान्तरभेद्यत्वेनानवस्थापाताद्, अथ न भेदो भेदान्तरभेद्यस्तस्य स्वभावतो भेदाद्, हन्तास्तु वस्त्व तथा लाघवाद्, अप्रमाण्याचार्धजरतीयस्येति, तेना प्यापातरमणीयमेवाभाणि, न खलु भेदस्य भावस्वभा वता संभविनी, तस्य वेिदारणात्मनो वस्तुरूपत्वे न टी०-तात्मनानुभवेो व्यवस्थापयति तदा व्यावृत्तरूपता न सिध्येडू अयं तु नीलं व्यवस्थापयन् पीतादिव्यावृत्तमेवावस्थापयतीत्यनुभवा देव भेदस्य स्वभावतापि सिद्धयतीत्यर्थ. । ननु भेदस्य धर्मत्वाद्वस्तु स्वभावताऽनुपपन्नेत्यत -“नच” इतिसत्तावत्स्वपरनिर्वा आह , अथ' इति, परिहरति हकत्वादन्यापेक्षा नास्तीति शङ्कते- “ “तदित्यत आह-अ- हन्त' इति, ननु सत्तायामपि तुल्यमेव * प्रमाणत्वाद्” इति, स्वरूपसत्त्वमात्राङ्गीकारे द्रव्यादित्रये सत्स दित्यनुगतप्रत्ययस्यानुपपत्तेस्तत्सिद्धयर्थमेतदतिरेकेण सत्ताऽङ्गीक्रि यते सत्तान्तरं तु न स्वीक्रियतेऽनवस्थापातादू, भेदः पुनव्यवृत्तप्र त्ययसिद्धयर्थमेव स्वीकृत. स च परं व्यावृत्तप्रत्ययो भेदस्वरूपवस्तु स्वरुपादेव सिद्धयतीति भेदिव्यतिरिक्तभेदकल्पनायां प्रमाणं नास्तीति भावः ।

  • घटाद्या भावा भेहेन भिन्ना भेदस्तु स्वभावत एव भिन्न इत्यर्द्धजरतीय न युक्त

मित्यर्थ ॥