सामग्री पर जाएँ

पृष्ठम्:शङ्करविजयः.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
81
सप्तमस्सर्गः

{[rh|right=81|center=सप्तमस्सर्गः}}

आराधितं दैवतमिष्टमर्थं
ददाति 1तस्याधिगमो गुरोस्स्यात् ।
नो चेत्कथं वेदितुमीश्वरोऽय-
मतीन्द्रियं दैवतमिष्टदं2 नः ॥ २५ ॥

तुष्टे गुरौ तुष्यति देवतागणो
रुष्टे गुरौ रुष्यति देवतागणः ।
सदात्मभावेन 3समस्तदेवताः
पश्यन्नसौ सर्वमयो हि देशिकः ॥ २६ ॥

एवे 4पुराणगुरुणा परमार्थतत्त्वं
शिष्टो गुरोश्चरणयोर्निपपात तस्य ।
धन्योऽस्म्यहं तव 5गुरो करुणाकटाक्ष-
पातेन पातिततमो इति भाषमाणः ॥ २७ ॥

मम यत्करणीयमस्ति ते त्वमिमं मामनुशाध्यसंशयम् ।
तदिदं पुरुषस्य जीवितं यदयं जीवति भक्तिमान्गुरौ ॥ २८ ॥

इतीरिते शिष्यवरेण शिष्यं
प्रोचे गरीयानतिहृष्टचेताः ।
मत्कस्य भाष्यस्य विधेयमिष्टं
निबन्धनं वार्तिकनामधेयम् ॥ २९ ॥

दृष्टं मतर्के भवदयभाष्यं
गभीरवाक्यं न ममास्ति शक्तिः ।
तथापि भावत्कटाक्षपातै-6
र्यते यथाशक्ति निबन्धनाय ॥ ३० ॥


1अ. अधिकृतो गुरुः ; क. तत्राधिकदो गुरुः स्यात् ।

2अ. मिष्टदं नो ; का. मिष्टदाने ।

3अ. देवतां । 4अ. ब्रुवाण ।

5अ. गुरोः । 6का. पाते यते ।यैते यथाशक्ति निबन्धनाय || ३० ॥

  • अ. अधिकृतो गुरुः ; क. तत्राधिकदो गुरुः स्यात् ।
  • अ. मिष्टदै नो ; का. मिष्टदाने । अ. त्रुवाण ।

अ. गुरो 8 का. पाते यते ।