पृष्ठम्:शङ्करविजयः.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
82
शङ्करविजये

अथागमच्छिष्यगणस्तदीयस्ततस्ततश्शिष्यगणास्तदीयाः1
श्रुत्वा जितं त्यक्तसमस्तशेषं श्रीविश्वरूपस्य मुदं दधानाः ॥ ३१ ॥

दृष्ट्वा गुरुं ते क्रमत प्रणेमुस्तदीयपादाब्जरजो दधानाः ।
परस्परञ्चाददिरे ददुश्च नमस्कृति दर्शनहृष्टचित्ताः ॥ ३२ ॥

कतिपयानि दिनानि न पश्यतो गुरुपदाब्जमभूद्युगसंमिता |
2अपि त्रुठिर्य​तिवर्य​वरस्य सा सु जनताविरहो हि सुदुस्सह ॥ ३३ ॥

गुरुपदाब्जरसं पिबति स्म सा यतिजनालिरनुत्तमसार​वित् ।
नयनयुग्मपुटेन निरन्तरं 3विरहवह्नितृषैकनिराकुलाः ॥ ३४ ॥

श्रुतवती गुरुवक्तसरोरुहात् बहुकथाः परमात्मपदानुगाः ।
भवकथातिगता भवनाशिनीर्विगतपुण्यचयेन सुदुर्लभाः ॥ ३५ ॥

कतिपयेषु गतेषु दिनेष्वियं श्रुतवती किल भाष्यानिबन्धनम् ।
अभिनवेन करिष्यत इत्यदो थतिजनालिरसोढ न रम्यवाक् ॥ ३६ ॥

योऽयं प्रयत्नः क्रियते हिताय हिताय नालं विफलन्त्व​नर्थम् ।
प्रत्येकमेवं गुरवे निवेद्य 4वद्धः स्वयं कर्मणि तत्परश्च ॥ ३७ ॥

यस्सार्वलौकिकमपीश्वरमीश्वराणां
प्रत्यादिदेश बहुयुक्तिभिरुत्तरज्ञः ।
कर्मैव नाकनरकादिफलं ददाति
नैवं परोऽस्ति फलदो जातीशितेति ॥ ३८ ॥


1अ. गणस्तदीयः । 3अ. अपि कला यति ।

2अ. तृषेव ।

4अ. बद्धान्, बौद्धात् । (अ. बौद्धः स्वयं कर्मणि तप्तरश्च); क​. प्रत्येकमस्यगमपि ।* अ. गणस्तदीयः । * अ. अपि कला यति । अ. तृषेव • अ. बद्धान्, बौद्धात्। (वोद्धः खयं कर्मणि तप्तरश्च); क. प्रत्येकमस्यगमपि ।