पृष्ठम्:शङ्करविजयः.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
83
सप्तमस्सर्गः
83
सप्तमस्सर्गः

प्रत्येकमस्य प्रलयं वदन्ति
पुराणवाक्यानि स तस्य कर्ता ।
व्यासो मुनिर्जैमिनिरस्य शिष्य-
स्तत्पक्षपाती प्रलयावलम्बी ॥ ३९ ॥

गुरोश्च शिष्यस्य च पक्षभेदे
कथं तयोस्स्याद्गुरुशिष्यभावः ।
तथापि यद्यस्ति स पूर्वपक्ष-
स्सिद्धान्तभावस्तु गुरूक्त एव ॥ ४० ॥

आजन्मनस्स खलु कर्मणि योजितात्मा
कुर्वन्निवास्थित दिवानिशमेव कर्म ।
ब्रूते पगंश्च कुरुतावहिताः प्रयत्नात्
स्वर्गादिकं सुखमवाप्नुत1 किं वृथाऽऽध्वे ॥ ४१ ॥

एवंविधेन क्रियते निबन्धनं
यदि त्वदाज्ञामवलम्ब्य भाष्यके ।
भाष्यं परं कर्मपरं स योक्ष्यते
माच्यावि कालादपि वृद्धिमिच्छता ॥ ४२ ॥

सन्यासमप्येष न बुद्धिपूर्वे
व्यधत्त 2वादेन जितोऽवशो व्य​धात् ।
तस्मान्न विश्वासपदं विभाति नो
माचीकरोऽनेन निबन्धनं 3गुरो ॥ ४३ ॥

यश्शक्नुयात्कर्म विधातुमीप्सितं
सोऽयं न कर्माणि विहातुमर्हति ।
यद्यस्ति सन्यासविधौ दुराग्रहो
जात्यन्धमूकादिरमुष्य गोचरः ॥ ४४ ॥


1का. वाप्स्यथ । 2अ. विजितो ।

3अ. पुरा ।

Sankara-6Aका. वाप्स्यथ । अ- पुरा । अ. विजितो ।