श्रीविश्वरूपेण समीरितं वचः
श्रुत्वा मुनीन्द्रो मुदितोऽमृतं पपौ ।
पीत्वा यथेष्टं बुभुजेऽमृताशनं
सरस्वती सार्पयति स्म शोभना ॥ ८९ ॥
सुखोपविष्टस्य विघाय भिक्षां
पदे गृहीत्वानुमतस्स तेन ।
अभुङ्क्त शिष्टाशनमिष्टभोजी
पश्चादभुङ्क्तोभयभारती सा ॥ ९० ॥
ब्रह्मैकं परमार्थसच्चिदमलं विश्वप्रपञ्चात्मना
शुक्ती रूप्यपरात्मनेव बहुलाज्ञानावृतं भासत ।
तज्ज्ञानान्निखिलप्रपञ्चविलयात्स्वात्मन्यवस्था परं
निर्वाणार्जनमुक्तमभ्युपगतं मानं श्रुतेर्मस्तकम् ॥ ९१ ॥
बाढं जये यदि पराजयभागहं स्यां
संन्यासमङ्ग परिहृत्य कषायचैलम् ।
शुक्लं वसीय वसनं द्वयभारतीयं
वादे 1पराजयजयप्रतिपादिकास्तु ॥ ९२ ॥
इत्थं प्रतिज्ञां कृतवत्युदारां
श्रीशङ्करे भिक्षुवरे स्वकीयाम् ।
स विश्वरूपो गृहमेधिवर्य-
श्चक्रे प्रतिज्ञां स्वमतप्रतिष्ठाम् ॥ ९३ ॥
वेदान्तो न प्रमाणं त्वतिवपुषि पदे तत्र 2संपत्तियोगात्
पूर्वो भागः प्रमाणं पदचयगमिते कार्यवस्तुन्यशेषे ।
शब्दानां कार्यमात्रं प्रति समधिगता शक्तिरभ्युन्नतानां
कर्मभ्यो मुक्तिरिष्टा तदिह तनुभृतामायुषः स्यात्समाप्तिः ॥ ९४ ॥
1का. जयाजयफलप्रतिपादिकास्तु । 2अ. सम्यत्प्रयोगात् ।