इत्थं विचिन्त्य मुनिमेव पुनः प्रपेदे
निर्बन्धतोऽस्य मुनिराख्यदमुष्य हेतुम् ।
कार्यं ममास्ति यदि चात्र भवान्विदध्यात्
भुञ्जेऽन्नमक्षयमिदं प्रपिबामि पाथः ॥ ८२ ॥
कुर्वे तदत्र भवने यदि शक्यमेतत्
कर्तुं ब्रवीतु तदशङ्कितमेव भिक्षो ।
सार्धे त्वया वदितुमिच्छति मे मनोऽर्हन्
तच्चेत्प्रदास्यति भवान्प्रपिबामि पाथः ॥ ८३ ॥
1अत्यन्तमेतद्भवतेरितं मुने
पास्यामि पाथो यदि वाददित्सुता ।
कृतोद्यमोऽहं श्रुतवादवार्तया
चिरेप्सितोऽयं वदिता न कश्चन ॥ ८४ ॥
वादं करिष्यामि न सन्दिहेऽत्र
जयाजयौ नौ वदिता न कश्चित् ।
न कण्ठशोषैकफलो विवादो
मिथो जिगीषु कुरुतस्तु वादम् ॥ ८५ ॥
वादे हि वादिप्रतिवादिनौ द्वौ
विपक्षपक्षग्रहणं विधत्तः ।
का नौ प्रतिज्ञा वदतोश्च तस्यां
किं मानमिष्टं वद किंस्वभावम् ॥ ८६ ॥
कः प्राश्निकोऽहं गृहमेधिसत्तम-
स्त्वं भिक्षुराजो वदतामनुत्तमः ।
जयाजयौ नौ सपणौ विधीयतां
ततः परं साधु वदाव सस्मितौ ॥ ८७ ॥
1अ. अत्यल्पं ।