४६८ . सिद्धान्तशिरोमणौ गोलाध्याये एवं ज्ञाते शडकुतले पृथक् पृथक् या हैं।ई। या ई ई । एते स्वस्वयाम्यभुजाभ्यां रहिते जाते उतरे अग्रे या ई६ रू ६६ । या ३ रू ८४ । अनयोरग्रयोः समीकरणे छेदगमे च क्रियमाण इयं क्रियोपपद्यते । ३१३-३२३ ।
इदानीं दिग्देशकालानामज्ञाने केवलाकदर्शनादेव सर्वमाह
यष्ट्या शङ्कुत्रितयं ज्ञात्वा वा कथ्यते सर्वम् ॥ ३३ ।। |
वा० भा०-त्रिज्यावृत विलिख्य प्राग्वद्यष्ट्रया शङ्कुत्रितयमभीछे काले ज्ञात्वा प्रथमतृतीयशङ्क्वग्रयोरेकं तिर्यग्बद्ध्वा मध्यस्थशङ्कोरग्रेऽन्यसूत्रस्यैकमग्रं बद्ध्वा तत् सूत्रं तिर्यक्सूत्रलग्नं यथा भवति तथा प्रथमशङ्क्वभिमुखमधः कर्णगत्या त्रिज्थावृत्तपरिधि नीत्वा तत्र पूर्वभागे चिह्नं कार्यम् । ततोऽन्यत् सूत्रं तदेव वा तृतीयशङ्क्वभिमुखमनेनैव प्रकारेण नीत्वा वृत्तपश्चिभागे चिह्न कार्यम् । तयोश्चिह्नयोरुपरि गतं सूत्रमुदयास्तसूत्रं स्यात् । सूत्रकेन्द्रयोरन्तरमग्रा । उदयास्तसूत्रादग्रातुल्येऽन्तरे केन्द्रोपरि प्राच्यपरा रेखा कार्या । ततः शड्कूदयास्तसूत्रान्तरमित्यादिना पलभाज्ञानम् । शेषं स्पष्टम् ॥
अत्र गोलेऽहोरात्रवृत्ते यथोक्त क्षितिजसंपातयोरुदयास्तसूत्रं बद्ध्वा तस्मिन्नेवाहोरात्रवृत्ते चिह्नत्रयं कृत्वा तानि शङ्कुशिरसि प्रकल्प्याद्यन्तचिह्नयोस्तिर्यक्सूत्रं च निबध्य मध्यसूत्रात् तिर्यक् सूत्रसत्तमधः सूत्रं नीयमानमुदयास्तसूत्र एव लगतीत्युपपत्तिर्दर्शनीया । ततोऽग्रादिक्पलभाज्ञानं युक्तियुक्तम् । पलभाज्ञाने तद्देशज्ञानम् ॥ ३२३-३६ ॥ W. वा० वा०-यट्या शङ्कत्रितयमित्याद्यपि वासना भाष्ये स्पष्टम् ॥३२-३६॥
१. अत्र श्रीपति:-
अपमधनुषो मौव्य क्षुण्णा गृहत्रयशिञ्जिनी |
सि० शे० ४ अ० ६३ श्लो० ॥