पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/509

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६७
यन्त्राध्याय:

अथान्यदाह-

 यष्यग्राल्लम्बोना ज्ञेया दृग्ज्या नृकेन्द्रयोर्मध्ये।

 वा० भा०-नष्टद्युतेयंटेरग्रादधो यावान् लम्बस्तावांस्तस्मिन् काले शङ्कुः शङ्कुकेन्द्रयोर्मध्ये दृग्ज्या शेया। शङ्कप्राच्यपरयोरन्तरं बाहुः। प्रागपराशानरान्तरं बाहुरिति वक्ष्यति। ३०३।

 केवलदिग्ज्ञाने सत्यक्षभामाह-

उदयेऽस्ते यष्ट्यग्रप्राच्यपरामध्यमग्रा स्यात् ॥ ३१ ।।
शङ्कूदयास्तस्त्रान्तरमर्कगुणं नरोद्धृतं पलभा ।

 वा० भा०-उदयकालेऽस्तकाले वा यष्टिनष्टद्युतिष्ध्रियमाणा सकलैव भूलग्ना स्यात्। एवं । यष्टयग्रप्राच्यपरयोरन्तरं त्रिज्यावृत्ते ज्यार्धवत् स्थितम् । साग्रा ज्ञया । ततः प्राग्वदुदयास्तसूत्रमिष्टकाले शङ्कश्च ।शङ्कूदयास्तसूत्रयोरन्तरं द्वादशगुणं शङ्कना भक्तं पलभा स्यात् ॥

 अत्रोपपत्तिस्त्रैराशिकेन ॥ तद्यथा । यद्यस्य शङ्कोः' शङ्कूदयास्तसूत्रयोरन्तरं शङ्कुतलं भुजस्तदा द्वादशाङ्गुलस्य शङ्क: क इति ॥ फलं विषुवती भवति ।। ३०३-३१ ॥

 अथोद्यन्तमर्कमदृष्टवापि -

 

भुजयोरेकान्यदिशोरन्तरमैक्यं रविक्षुण्णम् ।। ३२ ।।
 शङ्कन्तरहुत् पलभा प्रागपराशानरान्तरं बाहुः ।।

 वा० भा० स्पष्टार्थम्।

 अत्रोपपत्तिः--यत्र देशे विषुवती ४ । तत्रोत्तरगोले प्रथमशङ्कुस्त्रिशदङ्गुलो वृष्टः । तस्य याम्यो भुजः पञ्चाङ्गुलः । अन्यश्च षट्त्रशदङ्गुलः ॥। तस्य याम्यो भुजः ससाङ्गुलः । अत्राग्रया विना किल शङ्कुतल न ज्ञायते । किंतु भुजामयोर्यावदन्तरं शङ्कुतलयोरपि तावदेवान्तर भवति । तच्छङ्कुतल कल्पितम् २ । कस्य । शङकूच्छुयान्तरतुल्यस्य शङ्कः ६ । यद्यस्य शङ्कोरिदं शङ्कुतलं तदा द्वादशाङ्गुलस्य किमिति ॥ फलं पलभा ४ ॥

 अथवा पलभाप्रमाणं या १ ॥ यदि द्वादशाङ्गुलस्य शङ्कोः पलभा शङ्कुतलं तदा त्रिशदइगुलस्य षट्त्रशदङ्गुलस्य वा किमिति १२ । या १ ॥ ३० ॥ १२ । या १ ॥ ३६।


 शङ्क्वग्रमकैर्गुणितं विभक्तं तल्लम्बकेन स्फुटमक्षभा स्यात् ।
 अग्राग्रमागान्नतभागमौर्वी कायेंह खल्वङ्गुलवृतजाता। २३।

 अन्यच्च सिद्धान्तसार्वभौमे मुनीश्वरः---

 अथ त्रिज्यया मण्डल भूमिभागे समे कार्यमंशाङ्कितं तत्र केन्द्र ।
त्रिज्या समा यष्टिकाऽकन्मुखाग्रा यथा नष्टभा स्या तथा स्थापनीया ॥ ५४।
लम्बस्तदग्रादृजुसूत्ररूपः शङ्कर्भवेत्केन्द्रनृमूलमध्ये ।
दृग्ज्याऽथ केन्द्रे . नरवन्निधेर्या यष्टिस्ततोऽस्याः प्रभवेत्प्रमाग्रम् ॥ ५५ ।।
वृत्तान्तस्तद्बाह्यतो यत्र वा तत् पश्चात्पूर्वाशाख्यसूत्रान्तरालम् ।
 याम्य सौम्य भाग्रतो यष्टिमान ज्ञातोन्मान स्वाक्षभाघनी त्रिभजया । ५६ ।