काले भदिनान्तावूर्ध्वं जाताः । अतोऽसूनां कलानां च यदन्तरं तेनाकॉदयोऽन्तरितः । अत- स्तदुदयान्तराख्यं कर्मोच्यते । तैरन्तरासुभिप्रंहर्णात संगुण्याकंसावनाहोरात्रासुभि-२१६५९ विभज्य लब्धकला ग्रहे ऋणं कार्याः । यदि कलाभ्योऽसवोऽल्पकाः स्यु: । अन्यथा धनम् । यदि तु स्वदेशोदयैर्मध्यमार्कभुक्तानसूनानीयेदं कर्म कृतं तदौदयिकानां ग्रहाणां चरकर्मापि कृतं स्यात् । यदि तु स्फुटार्कभुक्तानसून् स्वोदयासुभिरानीयेदं कर्म कृतं तदोद- यान्तरभुजान्तरचरकर्माणि त्रीण्यपि कृतानि स्युः । तहिं कथमिदमुदयान्तराख्यं कर्माछौर्न कृतं तदाह । यतोऽन्तरं तच्चलमल्पकं च । वषचरणान्तेषु चतुष्वंप्यन्तराभावः । तन्मध्ये ष्वन्तरस्य वृद्धिक्षयी ॥१९१-२२ ।
इदानीम देशान्तरस्वरूपमाह--
येऽनेन लड़ोदयकालिकास्ते देशान्तरेण स्वपुरोदये स्युः।
देशान्तरं प्रागपरं तथान्यद्याम्योत्तरं तच्चरसंज्ञमुक्तम् ॥ २३ ।
वा० भा०-य उदयान्तरकर्मणा लङ्कायामौदयिका ग्रहा जातास्ते देशान्तरकर्मणा स्वपुरोदयिकाः स्युः । तच्च देशान्तरं द्विविधम् । एकं पूर्वापरमन्यद्याम्योत्तरम् । तच्चरसंज्ञ- मुक्कम्। २३।
वा० वा०-षष्टीनाक्षत्रघटीनां यावन्तोऽसवस्तावन्त एव चक्रकलाङ्का इति मध्यमभुक्तिकुलातुल्या एवासवो मध्यममानेन जाताः । मध्यमभुक्तिकलातुल्यासुयुता नाक्षत्रषष्टिघटिकाः सूर्यस्य मध्यमं सावनमिति प्रसिद्धम् । अनेन मध्यमसावने- नाहर्गणो जातः स्फुटसावनस्य चलत्वात् । वर्षमध्ये यावन्ति स्पष्टसावनानि तावन्त्येव- मध्यमसावनानीति कल्पादिगतवर्षगणजनिताहगणखण्डेन किख्रित्स्पष्टमध्यमसावना- न्तरम्। वर्तमानसौरवर्षाभ्यन्तरे तयोरन्तरं साध्यम्। राशिकलाभ्यो सनामतुल्य- त्वात् । निरक्षोदयवशेन मध्यार्ककलातुल्यासुभ्योऽर्कासूनामन्तरमुदयान्तरमित्यन्वर्थं नाम । इदमहर्गणे संस्कार्य' लङ्कायां' मध्यमाकर्षोदयेऽहर्गणः स्यात् । अहर्गणा- द्रविस्तस्मादुदयान्तरं तदहगणे संस्कार्य रविः साध्य इति केवलाहगणजनितरवेरु दयान्तरमानीय तद्रवौ संस्कृतं लङ्कायां मध्याकॉदयकालिको रविरेव लाघवा- त्कृतस्तद्युक्तम् । अत एवाह-अहर्गणो मध्यमसावनेनेति ।
लड्रोदयकालिकानां स्वदेशाकोंयकालीनकरणार्थ चरदेशान्तरसंस्कार: क्रियत इत्याह येनेनेति । रेखाकोंदयस्वदेशा कोंदययोरन्तरं पूर्वापरदेशान्तराख्यम्। लङ्काकों दयरेखाकोदययोरन्तर याम्योत्तर पूर्वापरदेशान्तरवन्न सर्वदा सममिति चञ्चलत्वा चञ्चरसंज्ञम् ॥ १९-२३ ।।
१. लङ्काया इ० ख पु० ।
२. वात्कृतद्युक्तमिति ख पु० ।