सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/439

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९७
गोलबन्धाधिकार:

 वा० भा०-अस्य श्लोकस्य समग्रस्य व्याख्यानम्। यथा क्रान्तिवृत्त पृथक् कृतमेव विमण्डलमपि राश्यङ्कं पृथक् कृत्वा तत्र मेषादेव्यरतं स्फुटं क्षेपपातं दत्त्वाग्रे चिह्नं कार्यम् । अथ क्रान्तिवृत्तस्य विमण्डलस्य च क्षेपपातचिह्नयोः संपातं कृत्वा तस्मात् षड्भान्तरे संपातं कृत्वा क्षेपपाताग्रतस्त्रिभेऽन्तरे क्रान्तिवृत्तादुत्तरतः स्फुटैः क्षेपभागैः पृष्ठतश्च त्रिभेऽन्तरे तैरेव भागैदक्षिणतः स्थिर कृत्वा विमण्डल निवेशनीयम्। अथ पठिता ये विक्षेपभागास्ते त्रिज्यागुणा: शीघ्रकर्णेन भक्ताः स्फुटा ज्ञेयाः । अत्रानुपातः । यदि कर्णाग्र एतावन्तस्तहि त्रिज्याग्रे कियन्त इति । यतो भगोले त्रिज्येव व्यासार्धम्। एवं चन्द्रादीनां षड्रविमण्डलानि कार्याणि । स्वस्व विमण्डले ग्रहा। भ्रमन्ति । १३-१५ ।

  इदानीं क्रान्ति विक्षेप चाह--

नाडिकामण्डलात् तिर्यगत्रापमः क्रान्तिवृत्तावधिः क्रान्तिवृत्ताच्छरः ।
क्षेपवृत्तावधिस्तिर्यगेवं स्फुटी नाडिकावृत्तखेष्टान्तरालेऽपमः ॥१६॥

 बा० भा-क्रान्तिवृत्ते यत् स्फुटग्रहस्थानं तस्य नाडीवृत्तात् तिर्यगन्तरं सा क्रान्तिः । अथ विमण्डले च यत् ग्रहस्थानं तस्य क्रान्तिवृत्ताद्यत् तिर्यग•तरं स विक्षेपः । अथ विमण्डलस्थ'ग्रहस्य नाडीवृत्तद्यत् तिर्यगन्तरं सा स्फुटा कान्तिः ।। १६ ।।  वा० वा०-भगोलबन्धमाह-याम्योत्तरक्षितिजवदित्यादिना ॥ १०-१६।।

 इदानों क्रान्तिपातमाह--

विषुवत्क्रान्तिवलययोः संपातः क्रान्तिपातः स्यात् ।
तद्भगणाः सौरोक्ता व्यस्ता अयुतत्रयं कल्पे ॥१७॥
अयनचलन यदुत मुञ्जालाद्यूः स एवायम् ।
तत्पक्षे तद्भगणाः कल्पे गोऽङ्गतुंनन्दगोचन्द्राः' १९९६६९ ॥१८॥
तत्संजातं पातं क्षिप्त्वा खेटेऽपमः साध्यः ।
क्रान्तिवशाच्चरमुदयाश्चरदललग्नागमे ततः क्षेप्यः ॥१९॥


१. मुञ्जाल:-

 उत्तरतो याम्यदिशं याम्यान्तात् तदनु सौम्यदिग्भागम् ।

 परिसरतां गगनसदां चलन किञ्चिदमवेदपमे ।

 विषुवदपक्रममण्डलसंपाते प्राचि मेषादिः ।

 पश्चात् तुलादिरनयोरपक्रमासम्भवः प्रोक्तः ॥

 राशित्रयान्तरेऽस्मात् ककादिरनुक्रमान्मृगादिश्च ।

 तत्र च परमा क्रान्तिजिनभागमिताथ तत्रैव ॥

 निर्दिष्टोऽयनसन्धिश्चलनं तत्रैव सम्भवति ।

 तद्भगणाः कल्पे स्युर्गोरसरसगोऽङ्कचन्द्रमिताः ।