पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/440

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९८
सिद्धान्तशिरोमणौ गोलाध्याये

 वा० भा०--क्रान्त्यर्थं पातः क्रान्तिपातः । पातो नाम संपातः । कयोः । विषुवत्क्रान्ति- वलययो: ॥ नहि तयोर्मेषादावेव संपातः किन्तु तस्यापि चलनमस्ति । येऽयनचलनभागाः प्रसिद्धास्त एव विलोमगस्य क्रान्तिपातस्य भागाः ॥ मेषादेः पृष्ठतस्तावद्भागान्तरे क्रान्तिवृत्ते विषुवद्वृत्तं लग्नमित्यर्थः । नहि क्रान्तिपातो नास्तीति वक्तुं शक्यते ॥ प्रत्यक्षेण तस्योपलब्ध त्वात् । उपलब्धिप्रकारमग्रे वक्ष्यति । तत् कथं ब्रह्मगुसादिभिर्निपुणैरपि नोक्त इति चेत् । तदा स्वल्पत्वात् तैनोंपलब्धः । इदानीं बहुत्वात् साम्प्रतिकैरुपलब्धः । अतः एव तस्य गतिरस्तीत्यवगतम् । यद्येवमनुलपब्धोऽपि सौरसिद्धान्तोत्तत्वादागमप्रामाण्येन भगणप रिध्यादिवत् कथं तैनक्तिः ॥ सत्यम् ! अत्र गणितस्कन्ध उपपत्तिमानेवागमः प्रमाणम् । तर्हि मन्दोच्चपातभगणा अागमप्रामाण्येनैव कथं तरुक्ता इति नच वक्तव्मम् । यतो ग्रहाणां मन्दफलाभावस्थानानि प्रत्यक्षेर्णवोपलभ्यन्ते । तान्येव मन्दोच्चस्थानानि । यान्येव विक्षे पाभावस्थाननि तान्येव पातस्थानानि । कितु तेषा गतिरस्ति नास्ति वेति सन्दिग्धम् । तत्र मन्दोच्चपातानां गतिरस्ति । चन्द्रमन्दोच्चपातवदित्यनुमानेन सिद्धा । सा च कियती तदुच्यते । येर्भगणेरुपलब्धिस्थानानि तानि गणितेनागच्छन्ति तद्धगणसंभवा वार्षिकी दैनं दिनी वा गतिज्ञेया । नन्वेवं यद्यन्यैरपि भगणैस्तान्येव स्थानान्यागच्छन्ति तदा कतरस्या गतेः प्रामाण्यम् । सत्यम् । तहिँ साम्प्रतिकोपलब्ध्यनुसारिणी कापि , गतिरङ्गीकर्तव्या । यदा पुनर्महत्ता कालेन महन्तर भविष्यति तदा महामतिमन्तो ब्रह्मगुसादीनां समानधर्माण एवोत्पत्स्यन्ते । ते तदुपलब्ध्यनुसारिणीं गतिमुररीकृत्य शास्त्राणि करिष्यन्ति । अतएवायं गणितस्कन्धो महामतिद्धि धृत: सन्ननाद्यन्तेऽपि काले खिलत्वं न याति। अतोऽस्य क्रान्तिपातस्य भगणाः कल्पेऽयुतत्रयं तावत् सूर्यसिद्धान्तोक्ताः । तथा मुञ्जा लाद्येयंदयनचलनमुक्तं स एवायं क्रान्तिपातः । ते गोऽङ्गतुंनन्दगोचन्द्रा १९९६६९ उत्पद्यन्ते । अथच ये वा ते वा भगणा भवन्तु । यदा येऽशा निपुणेरुपलभ्यन्ते। तदा स एव क्रान्तिपात इत्यर्थः । तं विलोमगं क्रान्तिपातं ग्रहे प्रक्षिप्य क्रान्तिः साध्या ।। १९-१९ ॥

 वा० वा०-तड्रगणाः सौरोक्ता इत्यत्रायुतत्रयं कल्पेऽयनांशभगणा इति वदता कल्पसौरवर्षविशत्यंशमित एवायनांशसाधने हरः स्वीकृतः । कथमन्यथा विशति गुणितमयुतत्रयं तद्भगणा इति वक्तव्येऽयुतत्रयमुक्तम् । तदुक्तभगणेभ्य एवमयनांशाः साध्या इत्युपायमनुक्त्वैव सिद्धवत्तत्संजातं पातं क्षिप्त्वा खेटेऽपमः साध्य इत्युक्तम् । तेभ्यस्तदुक्तभगणेभ्यस्तदुत्तरीत्या जातः पातस्तज्जातपात इति वक्तव्ये ? यत्तत्संजातं पातमित्युक्तं तस्यायमर्थः । तच्छब्देन गोङ्गक्र्तुनन्दगोचन्द्रा १९९६६९ अयुक्तत्रयं च परामृश्यति' । तेभ्यस्तदुक्तप्रकारागतपातो विसंवादेन जातः पातस्तत्सञ्जातः पात इत्युच्यते । कल्पगतवर्षेष्वयुतत्रयगुणितेषु विशतिभक्तकल्पवर्षभक्तेषु फलं तुल्यमाया तीति तादृश एव हरः स्वीकृत इति गम्यते ।  सौरे षट्शत ६०० मिता महप्र्युगे भगणा उक्ताः । तेनैकभगणभोगवर्षाणि

७२०० तत्राष्टादशशतवर्षेः परमा सप्तविशतिमिता धनायनांशवृद्धिर्भवति । पुनस्तैरेव


१. परामृश्यते इति खपु० ॥