पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/441

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९९
गोलबन्धाधिकार:

गोलबन्धाधिकार: ३९९ वर्षेर्धनायनांशानां ह्रासेनाभावो भवति । ततस्तैरेव वर्षे ऋणायनांशानां ह्रासेना भाव इति वृद्धिहासात्मकपदचतुष्टयात्मक एको भगण इति स्वीकृतम् ।

क्क्ककििदस्थितिकालोऽवधिकालस्तस्मादनन्तरमयनप्रवृत्तौ चक्रपश्चाच्चलनम् । अवधिकालात्प्रथममयनचलने प्राक्चलनमित्ययुक्तम् । क्रान्तिमण्डलनाडिमण्डलसम्पा तस्य प्रदेशत्वेन प्रदेशान्तरगमनायोगात्कथं चक्रचलनमित्यत अाह--उपचारोऽयमिति । ससर्षिभग्रहाणां कर्कादिस्थितेः प्रागूध्र्वमयनप्रवृतिचलनाच्चक्रस्य समूहस्यैव चलन मित्युच्यते। एवं ककादिस्थग्रहाणां मध्यमक्रान्त्युत्पन्ना ये यन्त्रेण भुजांशास्तेषां नवत्यंशानामन्तरमयनांशाः । एवं प्रत्यब्दमत्र गतिज्ञेया । ब्रह्मसिद्धान्तेऽत्युक्तम्

कर्कादिस्थाः मृगादिस्थाः सृष्टेरुदगवाङ्मुखम् ।
प्रत्यब्दे यान्ति याम्योदग्गमने विहितेऽपि यत् ।
तत्पश्चच्चलितं चक्रमुपचारोऽयमित्यपि ॥

 ककदिस्थेषु सप्तषिषु तेषां यन्त्रेण याम्योत्तरवृत्ते नतोन्नतांशा ज्ञेयाः ॥" तेभ्यो विलोमप्रकारेण मध्यमः क्रान्त्यंशो ज्ञेयः । एवं मृगादिस्थेष्वपि । कर्कादौ मृगादौ याम्यमुत्तरमयनं च लोकप्रसिद्धम् । तत्र कर्कादिस्थानामपेक्षिते याम्यगमनं [ मृगादिस्थानामुत्तरगमनमेव ] प्रतीयते तदा ऋणायनांशाः पश्चाच्चलनं [ चक्र- स्येत्यर्थः ।।]*

 ज़्तशकृत्यो युगे भानां चक्र प्राक् परिलम्बते ।
 तद्गुणाद् भूदिनैर्भक्ताद् द्युगणाद्यदवाप्यते ॥
 तद्दोस्त्रिघ्नो दशाप्तांशा विज्ञेया अयनाभिधा ।

 इति तत्साधनोपायः कृतः सौरमते सम्प्रति ईदृशे कल्पगतेऽ१९७२९४८७२५ यनांशाः संवदन्त्येव । प्रतिवर्षमयनांशवृद्धिश्चतुः पञ्चाशद्विकलाः ।

 मुत्र्जालमते प्रतिवर्ष वृद्धिविकलाद्या ५९॥५४ मतभेदे प्रत्यक्षोपलब्ध्या ये सिध्यन्ति त एवायनांशा ग्राह्या इति भाष्ये सम्यगुक्तम् ॐ । अयुतत्रयं कल्प इत्यत्र नियुतशब्दस्य लक्षसंख्यावाचकत्वेन नियुतत्रयं कल्प इति वा पाठ..साधीयान् । व्यस्ता इत्यनेन धनगता उक्ता । यावन्तो धनगतास्तावन्त एव ऋणगता इति नियुतषट्कं कल्पे भवन्तीति न किञ्चिद्विरुद्धम्। खेटे क्षेप्या इत्यनेन योग उक्तः 'योगे' युतिः 'स्यात्' क्षययोस्वयोव धनणयोरन्तरमेव योगः ।

  इति प्रसिद्धम् ॥ १७-१९ ।


१. कोष्ठान्तर्गतोंऽश: खपुस्तके नोपलभ्यते ।

२. सू० सि० त्रि० ९ श्लो० ।

३. समगुप्तमिति खपु० ॥