अत्र वासना-यत्र प्रदेशे क्रान्तिमण्डल लगति तल्लग्नमुच्यते । पूर्वक्षितिजसम्बद्धः क्रान्तिमण्डलभागो रेवतीयोगातारातो यावता राश्याद्यन्तरेण भवति तावत्प्राग्लग्नमित्युच्यते ।
एवं पश्चिमकुजसंसक्तोऽस्तलग्नं, दक्षिणोत्तरवृत्तसंसक्तो मध्यलग्नमिति ।
न च पूर्वप्रकृतसन्निहितप्रधान'वाचकेन तच्छब्देन क्षितिजादिप्रदेश एवोच्यत इति । प्रदेशस्य सर्वदास्थिरत्वेन कालप्रतिपादकशास्त्रे तत्साधनयोगात् । नापि क्रान्तिमण्डलमेव लग्नमिति । इदमिदानी लग्नमिति व्यवहारानुदयप्रसङ्गात् । तस्माद्यदा यदा यो यः क्रान्तिमण्डलराश्याद्यङ्कः क्षितिजादिसंयुक्तस्तदा तदा स स राश्याद्यवयवो लग्नशब्देनोच्यते । पूर्वक्षितिजादिसम्बन्धात् प्राग्लग्नादिसंज्ञां लभते । इदमपि रसषड्भागाल्पाक्षांशदेशविषयम् । यावन्मनुष्यप्रचारं शास्त्रण प्रतिपाद्यते मनुष्याधिकारत्वाच्छास्त्रस्य । मेरौ सायनं मेषादि तुलादि च हित्वा न कोऽपि राशिक्षितिजसंसक्तो भवतीति (द्वा ?) दशलग्नानि न भवन्ति । एवं सूर्योदये यावान् राश्यादिस्तरणिस्तावल्लग्नम् । ततः सूर्योदयकालाद्राशिकलाभिरुदयासवो' लभ्यन्ते तदा सूर्याधिष्ठितराशी सूर्यभोग्यभागै: किमिति प्राप्तार्कभोग्यकालमितेनेष्टकालेन सूर्याधिष्ठितराश्यन्त एव लग्नमिति स्पष्टम् । यद्यर्कभोग्यकालादधिक इष्टकालस्तदेष्टकालाद्रविभोग्यकालं संशोध्य यच्छेष तस्माद्रवियुत्तराशेरग्रिमराश्युदयाः शोध्याः । य एव राश्युदयो न शुध्यति स एव तदानी क्षितिजसंसक्त इति स्पष्टम् ।
तस्य ॐराशेः कोऽवयवः क्षितिजसंसक्त इति तत्सम्पूर्णराश्युद*यासुभिस्त्रिशदंशास्तदा शेषासुभिः किमित्यनेन स्पष्टम् । रेवत्यन्तमधिकृत्य कः क्रान्तिमण्डलभागः क्षितिजसंसक्त इत्यपेक्षितमित्ययनाशहीनं कृतम् । क्रान्तिमण्डलनाडीमण्डलसम्पातमवधीकृत्य ।
‘मेषादिजीवाः श्रुतयोऽपवृत्ते तद्भूमिजे क्रान्तिगुणा भुजः स्युः ।।' तत्कोटयश्च द्युनिशाख्यवृत्त ।
इति क्षेत्राणि प्रवृत्तानीति राश्युदयाः सायनमेषादीनां भवन्ति, न तु निरयनानाम् । -
उदयवशेन लग्नसाधनमिति भुक्तभोग्यकालसाधनेऽयनांशयोजनं युक्तम् । उदयैः साध्यमानं" क्रान्तिमण्डलसम्पातादायाति, अपेक्षितं च रेवतीयोगतारकत इत्ययनांशहीनं क्रियत इति स्पष्टम्। -
यदा समं भसूर्यावुदितौ भवतस्तस्मात्कालान्नाक्षत्रघटीषष्टया भमुदेति, सूर्यस्तु तस्मादपि कालाद्राशिकलाभिरुदयासवो लभ्यन्ते तदार्कभुक्तिकलाभिः
१. वाचकोनत’इति ग पु० । २. कालाद्रसिक क ख पु० । ३. राश्ये ग पु० । ४. दयाशुभिः इति क ख पु० । ५. साधनमिति ग पु० ।।