पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/189

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४४
सिद्धान्तशिरोमणौ ग्रहगणिते

8YY सिद्धान्तशिरोमणी ग्रहगणिते किमित्यनुपातलब्धासुमितकालेनोदेति । दशपलयुतया नाक्षत्रघटीषष्टया रविमध्यम सावनं भवति । रविसावनमध्ये सावनाः षष्टिघटिका एवेति प्रसिद्धम् । तत्र प्रथम दिनजाकॉदयकालिकाकें' [ ठसावनघटीभिः साध्यमानं लग्नं द्वितीयदिनजाकोंदय कालिकार्कतुल्यं नायातीति तात्कालिकाका ]ल्लग्नं साध्यते सूर्योदये सूर्यंतुल्यलग्न स्यापेक्षितत्वात् ।

 नन्विदं लग्नसाधनमयुक्तम् । तथाहि-तत्र लग्नार्थं या इष्टघटिका *गृह्यन्ते ताः सावना उत नाक्षत्रा वा । यदि सावनास्तदा नाक्षत्रा उदयास्ता3भ्यः शोधयितुं | न युज्यन्ते, योगोऽन्तरं समजात्योर्भवतीति नियमात् । नाक्षत्रघटीषष्ट्या सम्पूर्णभच क्रस्यैकः परिवत्ताँ* भवतीति नाक्षत्रा उदयाः ।

  किञ्च प्रतिक्षणं रवेर्गत्यन्यत्वादुद्गमान्यत्वाच्चञ्चलस्य स्पष्टसावनदिनस्य ज्ञातु। मशक्यत्वेन तत्षष्ट्यंशपरिमाणवेद्यानां सावनघटीनां ज्ञानं प्रष्टुर्न संभवति । परिच्छेदिका हि सङ्रव्या परिच्छेद्यवस्तुगततुल्योपाधिविशेष गृहीत्वा परिच्छेद्य परिछिनत्ति । यथा-अयं धान्यराशि: कियत्सङ्रव्याक इत्युत दशाढकमित इति। यद्वा कियदाढ़कमितोऽयं धान्यराशिरित्युक्ते सार्द्धसप्ताढकमित' इत्युत्तरम् । अन्यथा द्रोणाढकप्रस्थमानैरे। कत्र राशौ कृतेऽयं राशिः कियत्सङ्ख्याक इति पृष्टे द्रोणत्रयमितोऽयमित्यापद्येत । । वस्तुतस्तत्र राशावेक एव द्रोण एकेनाढकेन प्रस्थेन च युक्तोऽस्ति । तस्मात् प्रतिनाडिकं स्पष्टसावनभिन्नत्वेन सम्प्रति दिनगताः सावना दशघटिका इति विषमपरिमाणासु घटीषु दशसङ्ख्या नान्वेति ।

 अथोच्यते । श्वः सावनदशघटिकासु लग्नं कर्त्तव्यमिति पूर्वदिवस एव एवश्वस्तनसावनदशघटिकाकालीनाकदुदयतात्कालिकीगतितः स्पष्टसावनदिनप्रमाणं ज्ञात्वा, `*तत्षडंशे याः नाक्षत्रघटिकास्तासु श्वस्तनसूर्योदयाद्गतासु दशसावनघटिका गता इति ज्ञानं संभवत्येव, तुल्यपरिमाणत्वेन सावनासु दशसङ्ख्यान्वयोपपत्तेः । ततश्च सावनासु दशघटीषु लग्नसाधनेन किञ्चिद्वाधिकं पश्याम इति ।

 इदमप्ययुक्तमितरेतराश्रयदोषापतेः । दशसावनघटिकाकालिकार्कज्ञाने८ किल स्पष्टसावनाहोरात्रज्ञानं तत्षडंशासु ज्ञानञ्च । स्पष्टसावनाहोरात्रासु ज्ञाने तत्षडंशासु ज्ञाने च, स्पष्टहोरात्रासुभिः स्पष्टतात्कालिकगतिकलास्तदा तत्षडंशासुभिः किमिति त्रैराशिकलब्धकला औदयिकाकें देया स तात्कालिकाकों भवति ।

 एवं तात्कालिकार्कज्ञाने स्पष्टसावनाहोरासुज्ञानं, स्पष्टसावनाहोरात्रासुज्ञाने च तात्कालिकार्कज्ञानमित्यन्योन्याश्रयदोषः । न च यस्मिन् काले लग्नं कर्तुमिष्टं तस्मिन्


१. अयमंशो नास्ति ग पुस्तके। २. गृह्यते, इति ग पु० ॥ ३. तभ्य इति ग पु० । ४. वर्त ग पु० ॥ ५. समाढकमिति ग पु० । ६. तात्कालिक इति ग पु० । Ve. तत्षडेशे इति क ख पु० । ८. कालिनार्क’ इति क ख ग पु० ।