पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/187

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४१
सिद्धान्तशिरोमणौ ग्रहगणिते

चन्द्रोदयोऽवश्यं निर्णेतव्यः । व्रतबन्धराजाभिषेकादिषु वर्णेशशाखेशराशीश्वराणां बलशालित्वावश्यकत्वेन बलमध्ये बिम्बस्थौल्यापरपर्यायस्य रूपबलस्यौक्तत्वाद् भौमादीनामुदयास्तज्ञानमप्यावश्यकम् । ग्रहयुतौ ग्रहसमागमकालज्ञानम् । भग्रहयुतौ नक्षत्रग्रहसंयोगकालज्ञानं फलादेशार्थम् । पाताधिकारे

क्रान्तिसाम्यसमयः समीरितः सूर्यपर्वसदृशो मुनीश्वरैः ।
तत्र दत्तहुतजप्तपूजनं कोटिकोटिफलमाह भार्गवः ॥

 इत्यर्थं पातस्थितिकालज्ञानम् । शृङ्गोन्नतौ तु संस्थानविशेषज्ञानम् ॥ शुभफलदसंस्थानेन शुभकालज्ञानं, दुष्टसंस्थानेनाशुभकालज्ञानमित्युक्तवक्ष्यमाणाधिकारैः काल एव प्रतिपाद्यते । एवं त्रिप्रश्नाधिकारेण दिनगतशेषघटीकालप्रतिपादनमित्यशेषसारत्वा– भिधानमस्य व्यर्थमिति चेत् । तत्राह--‘दिग्देशकालावगमः' इति ।

 अन्येष्वधिकारेषु कालावगम एव । त्रिप्रश्नेषु तु दिग्देशकालानां त्रयाणामपि ज्ञानमिति वैशिष्टद्येनाशेषसारत्वमस्य युक्तमिति भावः । त्रयाणामपि कर्माङ्गत्वमवि शिष्टम् ॥ १ ॥

इदानी लग्नसाधनमाह—
तात्कालिकाकॅण युतस्य राशेरभुतभागैगुणितोदयात्र स्वात् ।
भोग्यासवः खाग्निहृतादवाप्ता भुक्तासवो भुक्तलवैः स्युरेवम् ॥ २ ।।
इष्टासुसङ्घादपनीय भोग्यांस्तदग्रतो राश्युदयांश्च शेषम् ।
अशुद्धहृत् खाग्निगुणं लवाद्यमशुद्धपूर्वैर्भवनैरजाद्यैः ॥ ३ ।। `
युक्ततं तनुः स्यादयनांशहीनमिष्टासवोऽल्पा यदि भोग्यकेभ्यः । ।
त्रिशद्गुणाः स्वोदयभाजितास्ते लब्धांशयुत्तो रविरेव लग्नम् ॥ ४ ॥

 वा० भा० -यस्मिन् काले लग्नं ज्ञेयं तस्मिन् काले तात्कालिकोऽर्कः सायनांशः कार्यः ॥ तेनार्केण युतस्य राशेयें भोग्यांशास्तैस्तदुदयासवो गुण्यास्त्रिशता भाज्याः । ये लब्धास्ते भोग्यासवः स्युः । अथेष्टासुभ्यो भोग्यासून् विशोध्य तदग्रतो यावन्त उदयाः शुध्यन्ति तावन्तः शोध्याः । ततः शेषातू खरामगुणादशुद्धोदयेन भक्ताद्यल्लब्धमंशाद्य तदशुद्धोदयात्र पूर्व यावन्तो मेषाद्या उदयास्तावद्धी राशिभिर्युतमयनांशश्च रहित तल्लग्न स्यात्। अथ यदीटासुभ्यो भोग्या न शुध्यन्ति तदेष्टासर्वास्त्रशद्गुणास्तढुदयासुभिभाज्याः । फलेनाशाडोन युतो रविलग्न स्यात्।

अत्र वासना त्रैराशिकेन सुगमा । २-४ ॥
वा० वा०-इदानी मृ
ज्योतिश्शास्त्रफलं पुराणगणकैरादेश इत्युच्यते
नूनं लग्नबलाश्रित इति गोलाध्यायोत:' कालाल्लग्नानयमाह

तात्कालिकाकॅण' इति ॥


१. सि० शि० गो० गो० प्रशं० ६ श्लो० ।