सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/186

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४१
त्रिप्रश्नाधिकारः

भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।
यः कृष्णस्तनयेन तस्य रचिते सद्वासनावातिके,
सत्सिद्धान्तशिरोमणेः सुरुचिरः स्पष्टाधिकारो गतः ॥ ॥
इति गणिताचार्यनृसिहकृतौ [ वासनावात्तिके ] स्पष्टाधिकारः ॥ २ ।।

[ अथ त्रिप्रश्नाधिकारः ]

अथ त्रिप्रश्नाध्यायं विवक्षुस्तावत् तदारम्भप्रयोजनमाह

जगुर्विदोऽदः किल कालतन्त्र' दिग्देशकालावगमोऽत्र यस्मिन् ।
त्रिप्रश्ननाम्नि प्रचुरोत्तिधाम्नि ब्रुवेऽधिकारं तमशेषसारम् ।। १ ।।

वा० भा०-स्पष्टार्थम् ।। १ ।।

 वा० वा०-(अथ) त्रिप्रश्नाधिकारो व्याख्यायते-'जगुविदोऽद: किल' इति । बुधाः कालतन्त्रं कालप्रतिपादकं शास्त्रमिदं जगुः । स च कालोऽस्मिस्त्रिप्रश्नाधिकारे प्रतिपाद्यत इत्यखिलगणितशास्त्रसारोऽयमधिकार आरभ्यते ।

 ननु निखिलग्रहगणितशास्त्रण काल: प्रतिपाद्यत एव । तथाहि स्पष्टाधिकारे तिथ्यादिपञ्चाङ्गरूपकालः प्रतिपादितः । तस्य पूर्वप्रतिपादनं सकलकर्मसङ्कल्पोपयुक्तत्वातिथ्यादिविशेषमधिकृत्य श्रुतिस्मृतिपुराणादिषु कर्मविशेषविधानदर्शनाच्च । 'अमावास्यायाममावास्यय यजेत' 'पौर्णिमास्यां पोर्णमास्यय यजेत' । 'अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्ति' । ‘सोदयत्रिमुहूर्त्तायां कुर्याद्दानं व्रतानि च' इत्येवमादीनि । कर्माणि श्रुष्यन्ते।

 मध्यमाधिकारे सौरचान्द्रसावननाक्षत्राधिमासादिकालज्ञानमुक्तम् । ‘ब्रह्मणो द्वितीयपराद्धे वैवस्वतमन्वन्तरे अष्टविंशतितमे कलियुगे' इत्यादि सडूल्पाझुपयोगित्वेन तिथ्यादिकालसंकीर्तनात् पूर्वमेव तत्प्रतिपादनं युक्तम् । प्रातः सङ्गवमध्याह्ना पराह्वाः सायमिति दिनपञ्चधादिविभागाग्नुपयोगित्वेन दिनप्रमाणमुक्तम् । 'चन्द्रसूर्यग्रहणाधिकारयो: स्पर्शमध्यमोक्षकालज्ञानम् । ग्रहास्तोदयाधिकारे चन्द्रगुरुभूगुबाल्यवाद्धार्यास्तमनकालप्रतिपादनम् ।

नीचस्थे वक्रसंस्थेऽप्यतिचरणगते बालवृद्धेऽस्तगे वा
संन्यासो देवयात्राव्रतनियमविधिः कर्णवेधस्तु दीक्षा ।
मौञ्जीबन्धोऽङ्गनानां परिणयनविधिर्वास्तुदेवप्रतिष्ठा
वज्र्याः सद्भिस्त्रिदशपतिगुरौ सिहराशिस्थिते वा ॥
शुक्रस्थाविरबाल्यनाशसमये सर्वेऽपि नेच्छन्ति तत् ।
‘यस्य हविनिरुप्तं पुरस्ताच्चन्द्रमाऽभ्युदियात् स त्रेधा तण्डुलान् विभजेत्’ इति ।


१. ग्रहाधिकारयो इति क ख पु० । २. मुहूर्त चिन्तामणी शुभाशुभप्रकरणे ४८ श्लोकस्य पीयूषधाराष्टीकायामिदं लल्लोत्त वर्तते ।