ইx सिद्धान्तशिरोमणौ ग्रहणणिते दिदानीं ग्रहसाधकानुपातफलभूतान्मन्दोच्चशीघ्रोच्चपातग्रहभगणानाह अर्कशुक्रबुधपर्यया' इति। अत्रोपपत्तिः भगणोत्पादने युक्तिः । युक्तिज्ञाने कस्याधिकारस्तत्राह । सा तु तत्तद्भाषाकुशलेन तत्तत् क्षेत्रसंस्थानज्ञेन श्रुतगोलेनैव ज्ञातुं शक्यते नान्येन । एतावन्त एव ग्रहपर्यया इत्यत्र किं प्रमाणमित्यत आह । ग्रहमन्दोच्चपाताः स्वस्वमार्गे गच्छन्त एतावतः पर्ययान् कल्पे कुर्वन्तीत्यत्रागमः प्रमाणम् । कलात्मिकगतेः अप्रत्यक्षोपलब्धभिन्नत्वाद्योजनात्मिकगतितुल्यत्वस्वीकाराद् ग्रहभेदयोगे ग्रहयोरूध्र्वाधरत्वानुभवाच्च ग्रहकक्षाणां भेदस्य स्पष्टत्वात् स्वस्वमार्गेषु गच्छन्त इत्युक्तम् । यद्यपि यैव ग्रहकक्षा सैव तन्मन्दशीघ्रोच्चेपातानामित्यस्ति तथापि मन्दशीघ्रोच्चपातसाधनाय याः कल्पिताः कक्षास्तदभिप्रायेणोक्तं ग्रहमन्दपाता इति । मन्दपदं चलोपलक्षकम् । यन्त्रवेधादिनापि ग्रहकलाद्यवयवोपलम्भासम्भवान्न प्रत्यक्षेण भगणज्ञानम् । प्रत्यक्षमूलत्वान्नानुमानादिकमपि भगणानामियत्ताया मूलम् । तस्मात् पितामहोपदिष्टवाक्यान्यागमः प्रमाणमित्युक्तम् । को नामान्यः पितामहादाप्ततमः स्यात् । ब्रह्मोत्तागमोऽपि शाकल्यविष्णुधम्मर्मोत्तरयोः कथं भिन्नो दृश्यत इति तत्कारणमाह । स चागमो लेखकाध्यापकाध्येतृदोपैर्बहुधा जातः । लेखकदोषो यथा यमाङ्गा इत्यत्र यमागा इत्यनुस्वारराहित्यादि लिखनम् । अध्यापकदोषो यथा कुधराग्नय इत्यत्र . सप्ताग्नय इति विवक्षितार्थे शशाङ्कचन्द्राग्नय इति व्याख्याकरणं करणापाटवादिञ्च । अध्येतृदोषोऽपि यमाश्विचन्द्रा इत्यत्र यमाश्वचन्द्रा* इति श्रवणादि । “मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह'- इत्यादिभीत्या सावधानतया यथा वेदमध्यापयन्ति पठन्ति च। न तथा सिद्धान्तानध्यापयन्ति न पठन्ति चेति संभवति पाठकाध्येतृदोषोऽत्रेति भावः । यद्वा वस्तुनि द्वरूप्यासंभवात् कथमागमभेदस्तत्रोत्तरम् । स चागमो लेखकेति । ब्रह्मणा नारदं १. एतद्भगणमानं सिद्धान्तशेखरानुरूपमिति । JRT'अष्टकोटिगुणिताः कृतेषव: ४३२००००००० सूर्यसौम्यभृगुसूनुपर्यंयाः । कल्पकालकथिताश्चलोच्चजा भौममन्दसुरमन्त्रिणामपि ॥ २६।। देववाणनगर्शलवायवो लक्षकाभिनिहता ५७७५३३००००० हिमविषः । अाकृतीष्वहियमाष्टषडङ्कद्वयश्विनोऽ २२९६८२८ २२ वनिसुतस्य कीर्तिताः ॥ २७ ॥ वेदाटनन्दवसुगोऽडूरसाग्निरन्ध्रशैलेन्दवो १७९३६९९८९८४ बुधचलोच्चजमण्डलानि । वाणेषुवेदरसनेत्रयमाब्धिषट्क रामाः ३६४२२६४५५ गिरामधिपतेर्भगणाः प्रदिष्टाः ॥२८॥ एवमग्रेऽपि । सि० शे० १ अ० २६-३१ श्लो० ।। २. प्रमाणः, इति ख पु० ।। ३. पलाश्विच्च ख० पु० ।। ४. यमाश्च, इति ख० ग० पु० ।। ५. महाभाष्ये प्रथमाह्निके व्याकरणप्रयोजनव्याख्यावसरे विलोकनीयमिदं पद्यमिति ।
पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/79
दिखावट