पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/80

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे भगणाध्यायः ३५ प्रति कथितं तच्छाकल्येन लिखित शास्त्र कालान्तरे किञ्चित्सान्तरं दृष्ट्रवा नियतबीजयुतमेव पुनस्तैरुक्तमिति दोषेण बहुधा जातः । तदा कतमस्य प्रामाण्यमिति प्रश्नस्योत्तरं' वक्ष्यते भवत्वागमो योऽपि कोऽपीति । कतमस्य प्रामाण्यमित्यत्र तावत् ॐ समाधानमुद्भाव्य दूषयति । अथ यद्येवमुच्यते गणितस्कन्धे उपपत्तिमानागमः प्रमाणम् । धर्मानुष्ठानोप ( यो ? ) गितालक्षणं प्रामाण्यमुच्यते । उपपत्तिर्नाम युक्तिः । तत्सहितो यो यदागमः स तदा प्रमाणमिति धर्मानुष्ठानोपयोगीत्युतम् । यस्तकॅणानुसन्धत्ते* स धर्म वेदेनेतर* इत्युक्तः । उपपत्तिमानेवागमः प्रमाणमित्यस्याभिप्रायमाह । उपपत्त्या ये भगणा सिध्यन्ति त एव ग्राह्याः ।। ६अयमुपपत्तिमानागम इति तदा स्याद्यदि भगणा’नामियत्तोपपत्त्या स्यात्सा तु कत्तुं न शक्यत इति दूषयति । तदपि न । यतोऽतिप्राज्ञेन पुरुषेणोपपत्तिर्ज्ञातुमेव शक्यते न तया तेषां भगणानामियक्ता कत्तु' शक्यते । तत्र हेतुमाह पुरषस्यायुषोऽल्पत्वात् । हेतुं° विवृणोति । उपपत्तौ तु यन्त्रेण प्रत्यहं ग्रहो वेध्यः भगणान्तं* यावत् । एवं शनैश्चरस्य तावद्वर्षाणां त्रिशता भगणः पूर्यते, *मन्दोच्चानान्तु वर्षशतैरनेकैः । यैर्वर्षैर्मन्दोच्चपातानामेका विकला वर्धते तान्याहुः। सप्तभिः स्मरहरैः खभूमिभिः सागरैरिषुभिरीक्षणक्र्तुभिः । वत्सरैदिनकराद्यथाक्रमं मन्दतुङ्गविकला विवर्धते ॥ १। वत्सरैर्दिनकरै रसोन्मितैः कृष्णवत्र्मविषयैर्गुणैः शरैः । मेदिनीतनयतो यथाक्रमं प्रोक्तपातविकला विवर्धते ॥ २ ॥ अतो नायमर्थः पुरुषसाध्य इति । कस्मात् पुनर्ग्रन्थरचनायां यतन्ते कृतिनः । 'भगणेयताप्रधानत्वाच्छात्रस्येत्याशडूष्य 'पुरुषायुषोऽल्पतयायद्यपि'भगणानामियक्ता कतु न 'अशक्यते तथाप्यन्यान्यपि प्रयोजनानि विद्यन्त इति प्रयोजनवद्ग्रन्थकरणमित्याह। अत एवातिप्राज्ञगणका: साम्प्रतोपलब्ध्यनुसारिण प्रौढ़गणकस्वीकृतं कमप्यागममङ्गीकृत्य ग्रहसाधने आत्मनो गणितगोलयोरतिकौशलं°४ दर्शयितं तथान्यैभ्रन्तिज्ञानेनान्यथोदितानर्थाश्च निराकर्नुमन्यान् ग्रन्थान् रचयन्ति । पितामह-सौरपराशरादिसिद्धान्तोत्तग्रहभगणैः संसाधिता ग्रहा दृक्तुल्यतां सर्वदैव न यान्त्यत उत्ततं साम्प्रतोपलब्ध्यनुसारिणमिति । अष्यमिदानीं पक्षः संवदतीति 'दृग्गणितसाम्यसम्पादन १. तयोतरं ख, प्रश्नस्तस्योत्तरमिति ग पु० च। २. वक्षाते ख पु० । ३ - समाध्यानमिति ख पु० । ४. णनु सं’ख पु० । 以。 वेदनेतर ख ग पु० । ६. अथमुप a O ख पु० ॥ ७. हेतु इति ख पु० । ८. भगणां याव’ख, भगणीत याव’क ग पु० च । ९. मंदाच्चानां ख पु० । १०. प्रधान्नत्वा ख पु० । ११. पुरुषापुरुषो ** ख पु० ।। १२. भगणानोमिता ख पु० । १३' शते ख पु० । १४. कौलमिति ख पु० । १५. संपानकु ख।