शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ५/ब्राह्मणम् ३

विकिस्रोतः तः

मूर्तामूर्तब्राह्मणम्

द्वे वाव ब्रह्मणो रूपे। मूर्तं चैवामूर्तं च मर्त्यं चामृतं च स्थितं च यच्च सच्च त्यच्च - १४.५.३.१

तदेतन्मूर्तम्। यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यमेतत्स्थितमेतत्सत् - १४.५.३.२

तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतो ह्येष रसः - १४.५.३.३

अथामूर्त्तम्। वायुश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्त्यम् - १४.५.३.४

तस्यैतस्यामूर्त्तस्य। एतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषस्त्यस्य ह्येष रस इत्यधिदेवतम् - १४.५.३.५

अथाध्यात्मम्। इदमेव मूर्त्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाश एतन्मर्त्यमेतत्स्थितमेतत्सत् - १४.५.३.६

तस्यैतस्य मूर्त्तस्य। एतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्येष रसः - १४.५.३.७

अथामूर्त्तम्। प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यदेतत्त्यम् - १४.५.३.८

तस्यैतस्यामूर्त्तस्य। एतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन्पुरुषस्त्यस्य ह्येष रसः - १४.५.३.९

तस्य हैतस्य पुरुषस्य रूपम्। यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तं सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेद - १४.५.३.१०

अथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्त्यथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् - १४.५.३.११