शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ५

विकिस्रोतः तः
Jump to navigation Jump to search

ब्राह्मणम् १ अजातशत्रुब्राह्मणं वा पर्यङ्कविद्याब्राह्मणम्

१ अजातशत्रुब्राह्मणं वा पर्यङ्कविद्याब्राह्मणम् - तत्र प्रथमेऽध्याये सूत्रितयोर्विद्याविद्ययोर्मध्येऽविद्यायाः प्रपञ्चो निरूपितः, सम्प्रत्यस्मिन्नध्याये विद्यायाः प्रपञ्चस्य निरूपणम् । तत्रादौ वक्तृश्रोतृरूपाख्यायिकयाऽविद्याविषयमेव ब्रह्मत्वेनोपक्षिप्य तत्प्रत्याख्यानं, तत्रापि प्रथमं गार्ग्येण दृप्तबालाकिनाऽजातशत्रो राज्ञः श्रवणायाभिमुखीकरणप्रकारकथनं, ततः संवादेन पर्यायशः आदि त्यचन्द्रविद्युदाकाशवाय्वग्न्यबादर्शदिक्षु स्थितं पुरुषं तथा गच्छतः पृष्ठदेशे समुत्पन्नं शब्दं छायामयं पुरुषं तत्तद्गुणविशिष्टतयाऽहं ब्रह्मोपास इति दृप्तबालाकिनोक्तेऽजातशत्रोस्तत्तद्गुणानुरोधेन प्रतिपर्यायमुपासनफलनिरूपणम् , एवं व्यस्तानि ब्रह्माण्युपन्यस्यात्मन्विगुणविशिष्टमात्मनिस्थितपुरुषलक्षणं समस्तं ब्रह्माहमुपास इति दृप्तबालाकिना पुनरुक्ते निरुक्तगुणानुरोधेनाजातशत्रोरस्मिन्नपि चरमे पर्याये उपासनफलनिरूपणं, ततस्तूष्णीम्भूते गार्ग्येऽजातशत्रुस्तं " किं त्वया एतावदेव ब्रह्म विज्ञातं ? नैतावता विदितं भवतीत्युक्तवानित्यभिधानं, ततो गार्ग्ये ब्रह्मजिज्ञासया छात्रभावेन उपसंगते त्वां ब्रह्म ज्ञपयिष्यामीत्यजातशत्रोः प्रतिज्ञाकरणाभिधानं, प्रतिज्ञातब्रह्मावबोधार्थमुपक्रमकरणप्रतिपादनं, तत्राजातशत्रुर्यथोदाहरणं व्यतिरिक्तात्मास्तित्वं प्रतिपाद्यास्यात्मनः स्वाभाविकस्वरूपं बोधयितुमधिकरणमपादानं चोभयं पृष्टवानित्याद्यभिधानं, ततो जागरिते कर्तृत्वभोक्तृत्वादिकं नात्मनः स्वाभाविकं किन्तु वागाद्युपाधिसम्बन्धकृतमेव स्वप्ने तद्व्यतिरेकेण कर्तृत्वादेर्व्यतिरेकदर्शनादिति दर्शयितुं प्रश्नानुवादपूर्वकं प्रथमप्रश्नस्योत्तरनिरूपणं, यदा शरीरेन्द्रियाध्यक्षतामुत्सृजति तदाऽसौ स्वात्मनि वर्तते इति कथमवगम्यत इत्यपेक्षायां नामप्रसिद्धया इत्यादि सयुक्तिकं निरूपणं, दर्शनलक्षणायां स्वप्नावस्थायां वागादिसम्बन्धाभावेऽपि कर्तृत्वादिसंसारस्य दर्शना. द्व्यतिरेकासिद्धिरित्याशङ्क्य तत्रापि जाग्रद्वासनायाः सत्त्वात्परिकल्पितस्य स्वप्नप्रपञ्चस्य मृषात्वान्न व्यतिरेकासिद्धिरित्यतोऽस्य स्वतः-शुद्धत्वमेवेत्यभिप्रेत्य समाधाननिरूपणं, ततो वेदशब्दप्रयोगाद्व्यभिचारदर्शनाच्चैते महाराजत्वादयो लोका मृषैव नास्यात्मभूता इत्येवमुक्तस्यार्थस्य दृष्टान्तपूर्वकं कथनं, दर्शनवृत्तौ स्वप्ने वासनाराशेर्दृश्यत्वादसंसारधर्मता-इत्यात्मनो विशुद्धाताऽवगता-तत्र कामवशात्परिवर्तनमुक्तम्-इष्टदृश्यसम्बन्धश्चास्य स्वाभाविक इति पुनरशुद्धतामाशंक्य तत्सम्बन्धस्य सुषुप्तौ व्यतिरेकदर्शनेनास्वाभाविकत्वाच्छुद्धत्वमेवास्य स्वाभाविकमिति यथायथमुपपादनं, तत्रोक्तशयनस्य दृष्टान्तपूर्वकं निरूपणम्, एवं प्रथमप्रश्नस्य प्रतिवचनमुक्त्वेदानीं तस्याद्वितीयत्वं प्रकटयितुं द्वितीयप्रश्नस्य प्रतिवचननिरूपणं, प्राणोपनिषदो निरूपणं चेत्यादि.

ब्राह्मणम् २ सर्वान्नब्राह्मणं वा शिशुब्राह्मणम्

२ सर्वान्नब्राह्मणं वा शिशुब्राह्मणम् - तत्र पूर्वब्राह्मणान्ते उपक्रान्तां प्राणोपनिषदं विशेषतया व्याख्यातुमादौ तस्याः फलार्थवादकथनम्, एवं फलश्रवणेनाभिमुखीभूताय जिज्ञासवे शरीरमध्यस्थं प्राणं शिशुत्वेन-शरीरस्य तदाधानत्वेन-शिरसः प्रत्याधानत्वेन--बलस्य स्थूणात्वेन-अन्नस्य दामत्वेन चोपवर्णनं, ततस्तस्यैव शिशोः प्रत्याधाने शिरस्यारूढस्य चक्षुषि काश्चनोपनिषदस्तासां विवरणं, तत्राक्षितीनामुपपादनपूर्वकं तत्कर्तृकप्राणोपासनस्य निरूपणम्, एवंविधोपास्तेः फलनिरूपणम्, उक्तेऽर्थे मन्त्रसम्मतिमभिधाय तस्य मन्त्रस्य सोपपत्तिकं सहेतुकं व्याख्यानं, "प्राणा वा ऋषयः " इत्युक्तं के ते प्राणा ऋषय इत्यपेक्षायां तेषामुपपादनं, प्रसङ्गादत्रिशब्दनिर्वचनम् , अत्रिनामनिर्वचनविज्ञानस्य प्राणयाथात्म्यवेदनस्य च फलप्रतिपादनं चेत्यादि.

ब्राह्मणम् ३ मूर्तामूर्तब्राह्मणम्

३ मूर्तामूर्तब्राह्मणम्-तत्र च कथमेषां प्राणानां सत्यत्वं कथं वा ततोऽप्यात्मनः सत्यत्वमिति जिज्ञासायां कार्यकारणात्मकानां सत्यानां पञ्चभूतानां स्वरूपस्यावधारणं, तत्र प्रथमं " नेति नेति " अपोहद्वारा निर्द्दिधारयिषितस्य ब्रह्मणो मायामयस्य रूपद्वयस्याभिधानं, के ते मूर्तामूर्ते कानि वा कस्य वा विशेषणानीत्यपेक्षायां तद्विशेषप्रतिपत्तेर्निरूपणम्, उक्तविशेषणचतुष्टयवतो भूतत्रयस्य यत्सारिष्ठं कार्यं तस्य विशेषणानुवादपूर्वकमभिधानं, तत्रामूर्तस्याधिदैविकस्य कारणात्मकस्य ब्रह्मणो रूपनिरूपणं, ततोऽध्यात्मतया मूर्तामूर्तयोर्विभागनिरूपणम् । एवमाध्यात्मिकस्य कार्यात्मकस्य ब्रह्मणो रूपं निरूप्य कारणात्मकस्य यद्रूपं तस्य निरूपणं, ततोऽस्य कारणात्मनो यद्वासनामयं रूपं तस्य निरूपणं, चरमोक्तहिरण्यगर्भवासनारूपोपासनस्य फलाभिधानम्, एवं सत्यस्येति षष्ठयन्तस्य स्थूलसूक्ष्मप्रपञ्चात्मकं हेयभूतं सत्यशब्दस्यार्थं व्याख्यायानन्तरमुपादेयभूतप्रथमान्तसत्यशब्दार्थस्य सोपपत्तिकं व्याख्यानम् , प्रथमब्राह्मणान्ते “ तस्योपनिषति" इति प्रतिज्ञाताया उपनिषद उपसंहारस्य निरूपणं चेति.

ब्राह्मणम् ४ मैत्रेयीब्राह्मणम्

४ मैत्रेयीब्राह्मणम्-तत्र चैवं ब्राह्मणत्रयेण निरूपिताया ब्रह्मविद्याया अङ्गत्वेन सन्न्यासं विधातुमाख्यायिकाप्रतिपादनं, तस्यां चादौ याज्ञवल्क्यः स्वस्य सन्न्यासग्रहणं प्रतिज्ञाय मेत्रेय्याः कात्यायन्या सह दायं करवाणीति प्रति ज्ञातवानित्यभिधानं, तदा हे भगवन् ! मह्यमिमं सर्वा ससागरा वित्तपूर्णा च पृथिवी यदि दत्ता तेन किमहममृता स्याम् । इति तया मैत्रेय्या पृष्टो याज्ञवल्क्यस्तेनेतरधनिकवत्ते जीवितं स्यादमृतत्वस्य तु नाशा कर्तव्येति प्रतिवचनं ददावित्यभिधानं, येनाहममृता न स्यां किमहं तेन कुर्याम् १ येनाहममृता स्यां तन्मे ब्रूहीति मैत्रेय्याः प्रार्थनाकरणकथनम् , एवं प्रार्थितो याज्ञवल्क्यस्तस्यै मैत्रेय्ये मोक्षसाधनमात्मज्ञानं व्याख्यास्यामि निदिध्यासस्व तदिति समाश्वास्य तदुक्तवानित्यभिधानं, ततो याज्ञवल्क्योऽमृतत्वसाधनं वैराग्यमुपदिदिक्षुर्जायापतिपुत्रादिभ्यः सकलसुखसाधनेभ्यस्तत्सन्न्यासविरागमुत्पाद्यात्मदर्शनं कर्तव्यमिति विधाय च तत्र श्रवणमनननिदिध्यासनरूपोपायत्रयंदर्शयामासेति निरूपणं, ततः कथमस्मिन्नात्मनि विदितेऽन्यत्सर्वं विदितं भवेदित्याशंक्यात्मव्यतिरेकेणान्यस्याभावादिति समाधिप्रदर्शनं, कथं पुनरिदं सर्वमात्मैवेति ग्रहीतुं शक्यत इत्याशंक्य घटः स्फुरतीत्यादिप्रत्ययमाश्रित्य चिन्मात्रानुगमात्सर्वत्र चित्स्वरूपतैवेति -यत्स्वरूपव्यतिरेकेण यस्याग्रहणं तस्य तदात्मकत्वमेवेति व्याप्तौ दृष्टान्तत्रयपूर्वकं समाधिप्रदर्शनम्, एवं स्थितिकाले जगतो ब्रह्मैकत्वमवगमय्योत्पत्तिकालेऽपि तथाऽवगमयितुं कार्याणामुत्पत्तेः प्राक्कारणादभिन्नत्वप्रदर्शनं, तथा प्रलयकालेऽपि अस्य प्रपञ्चस्य ब्रह्मात्मकत्वं प्रतिपत्तव्यमिति दृष्टान्तपूर्वकमभिधानम् , एवं प्राकृतिकप्रलयप्रदर्शनेन सर्वं मूलप्रकृतिभूतमद्वयात्मतत्वमवगमय्य " इदं सर्वं यदयमात्मा" इति प्रतिज्ञातत्वादिदानीं ब्रह्मविद्ययाऽविद्याऽतिरोधद्वारेण योऽयमात्यन्तिकः प्रलयस्तस्य दृष्टान्तसहितं प्रदर्शनम् , अस्यां च निरूपितायां कैवल्यावस्थायां विशेषज्ञानं नास्तीत्यभिधानम् , उक्तेऽर्थे मैत्रेय्याः सन्देहं प्रदर्श्य तस्य सप्रकारकं याज्ञवल्क्यकृतनिराकरणकथनं, तत एवमुक्तं विशेषविज्ञानाभावमन्वयव्यतिरेकाभ्यां दृढीकृत्य यत्र तु ब्रह्मविद्ययाऽविद्यानाशमुपगमिता तत्रात्मव्यतिरेकेणान्यस्याभाव इति व्यतिरेकप्रदर्शनम् , एवमन्वयव्यतिरेकाभ्यां कैवल्यावस्थायां विशेषविज्ञानाभावं प्रतिपाद्य तत्रैव कैमुतिकन्यायं दर्शयितुमविद्यावस्थायामपि साक्षिणो ज्ञानविषयत्वप्रतिपादनं, पुनर्विद्याऽवस्थस्यासंसारिण आत्मनो ज्ञानाविषयत्वप्रतिपादनं चेत्यादि.


ब्राह्मणम् ५ मधुब्राह्मणम्

५ मधुब्राह्मणम् - तत्र च पूर्वं मैत्रेयीब्राह्मणे “ इदं सर्वं यदयमात्मा" इति प्रतिज्ञातस्यात्मन उत्पत्तिस्थितिलयहेतुत्वमुक्त्वा प्रतिज्ञातस्यार्थस्य निगमनार्थं मधुविद्याया निरूपणं, तत्र सर्वेषां शरीरिणां प्रत्येकं पृथिव्यादयः स्तनयित्न्वन्ता भूतगणा देवगणाश्च कार्यकारणसंघातात्मनोपकुर्वन्तो मधु भवन्तीति पर्यायशः सोपपत्तिकं निरूपणं, निरुक्ता भूतगणा देवगणाश्च येन प्रयुक्ताः शरीरिभिः सम्बध्यमाना मधुत्वेनोपकुर्वन्तीति तन्निरूपणं, तत्र पृथिव्यादिप्रयोक्तरि धर्मे सामान्यरूपेण कार्यकारणसंघातकर्तरि तु धर्मे विशेषरूपेण तत्तदारम्भिकत्वप्रतिपादनं, सत्यमपि धर्मवद्द्विविधम् - तत्र सामान्यरूपं पृथिव्यादिषु कारणत्वेनानुगतम् , विशेषरूपं तु सत्यसंघातत्वेनानुगतमित्याद्यभिधानं, धर्मसत्याभ्यां प्रयुक्तोऽयं कार्यकारणसंघातविशेषो येन जातिविशेषेण संयुक्तो भवति तस्य बाह्याभ्यन्तरविभागपुरःसरं प्रदर्शनं, यः पुनर्मानुषादिजातिविशिष्टः कार्यकारणसंघातस्तस्य मधुत्वोपपादनम् , अस्यान्तिमपर्यायोक्तस्यात्मनः स्वरूपस्य सदृष्टान्तं निरूपणम् , एवं साकल्येन निरूपिताया ब्रह्मविद्यायाः स्तुत्यर्थं प्रवर्ग्यप्रकरणस्थिताख्यायिकासंक्षेपकयोर्मन्त्रयोः श्रुतिकर्तृकं प्रस्तावपूर्वकमवतारणं, ततो ब्रह्मविद्यार्थयोस्तु तृतीयचतुर्थाध्याययोरर्थं प्रकाशयितुं श्रुतेर्द्वयोर्मन्त्रयोस्तदभिप्रायप्रतिपादकब्राह्मणसहितमवतारणं, ततोऽस्यात्मनः पारमार्थिकस्वरूपस्योपपादनम्, अयमेव सर्ववेदान्तानामर्थ इत्युपसंहारस्य निरूपणं, ततो ब्रह्मविद्याप्रशंसार्थं मधुकाण्डस्य य एष स्वाध्यायार्थो जपार्थश्च ब्रह्मविद्याया वंशस्तस्य विस्तरशोऽभिधानं चेत्यादि.