पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/15

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यम । s तस्मादाकाशमुत्पन्नै शब्दतन्मात्नरूपकम् । स्पर्शात्मकस्ततो वायुस्तेजो रूपात्मकं ततः ॥ ३ ॥ आपो रसात्मिकास्तस्मात्ताभ्यो गन्धात्मिका मही ।

  • तस्मादिति । तख्य स्थूलाकाशवैलक्षण्यमाह - शब्दतन्मात्नरूपकमितेि । शब्द एव तस्मिनाकाशे मात्रा मीयते न विवकाशदातृत्वशान्तत्वघोरत्वादयो यस्मिन् तच्छब्दतन्मात्रै, तदेव रूपै यस्य गुणगुणिनोरमेदात्। तदा शब्दमालमेव गम्यते । अवकाशदानादिव्यवहारविशेषादयो न सन्ति यस्मिन् तत्सूक्ष्ममाकाशमिल्यर्थः । तदुक्तं विष्णुपुराणे -

तस्मिस्तस्मिश्च सा मात्रा तेन तन्मात्रता स्मृता । न शान्ता नापि ते घोरा न मूढास्ते विशेषतः ॥ इतिं । स्पशात्मक इत्यादावेवमेव योज्यम् ॥ ततद्भूतानामसाधारणगुणान् पूर्वपूर्वकारणगुणानुस्यूट्या प्रासगुणान्तराणि च संगृह्याह शब्दैकगुणमाकाशं शब्दस्पर्शगुणी मरुन् ॥ ४ ॥ शब्दस्पर्शरूपगुणेखिगुर्ण तेज उच्यते । शब्दस्पर्शरूपरसैः गुणैरापश्चतुर्गुणाः ॥ ५ ॥ शब्दस्पर्शरूपरसगन्धैः पश्वगुणा मही। शबैदैकगुणमिति । पूर्वपूर्वभूतभावमापन्नस्यैव ब्रह्मण उत्तरोत्तरभूतीपादनत्वात् पूर्वपूर्वगुणानुस्यूतिरुतिरस्मिन्याय्येति भावः ॥ सूक्ष्मभूतानामुपतिमुक्वा तेवीं कार्यमाह - 1, तदिनि !