पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/14

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

t पञ्जीकरणवार्तिकम। सर्वानर्थप्रपञ्चसंबन्धशून्यै सच्चिदानन्दात्मकं वस्त्वासीत्सष्टः प्रामित्यर्थः । 'सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीर्य' 'आत्मा वा इदमेक एवाप्र. अासीन्नान्यकिश्चन मिषत्,? * विज्ञानमानन्दं ब्रह्म ? * सत्यै ज्ञानमनन्तै ब्रह्म ? इत्यादिश्रुतिभ्यः इत्यर्थः । यद्यप्यद्वितीयस्य आसीदिति कालसंबन्धो न युक्तस्तथापि श्रोतूणां प्रतिपत्तिसौकर्यार्थे कालसंबन्धमारोप्योपदिशतीति बोध्यम्॥ ननु जगदुपादानस्य कालत्रयेऽपि कर्थे तत्संबन्धशून्यत्र्वे तत्राह - अविक्रियमिति । निरवयक्वेन विभुत्वेन च परिणामपरिस्पन्दयोरसंभवादुपादानत्वमपि न तस्यास्तील्यर्थः ।। * कर्थे तर्हि तत्तेजोऽसृजतेल्यादिश्रुतिभिरुपादानत्वाभिधार्न ब्रह्मण इल्याशैक्य तत्त्वतोऽन्यथाभावित्वलक्षणपरिणाम्युपादनत्वासंभवेऽपि माययाऽतत्वतोऽन्यथाभावित्वलक्षर्ण विवतोंपादनत्वे संभवतीत्याह -- तत्स्वमायेति । स्वस्य ब्रह्मणः शक्तिभूता स्वस्मिन्नवध्यस्ता माया स्वमाया तस्याः समावेशः अध्यासिकतादात्म्यं तस्माद्भीजमुपादानमित्यर्थ: । शुक्त्यादेविंक्रियां विनापि रजतायुष्पादनत्वदर्शनातू , अविक्रियस्यापि जगद्विवतपादानत्वमविरुद्धमिति भाव: हैं। ननु यत्र यत्कार्यै सूक्ष्मरूपेण वर्तते तदेव तस्य कार्यस्य बीजं, अन्यथा तन्तूनामपि घर्ट प्रति * कारणवै स्यात्तथा च निल्यमुक्त ब्रह्मणि प्रागुत्पतेः जगतः सूक्ष्मरूपासंभवातू , कथं तद्वजत्वमत अठ्ठ - अध्याकृतात्मकमिति ।। * खभावतो नित्यमुक्तस्य सूक्ष्मकार्याश्रयत्वासंभवेऽपिं मायायां तत्संभवात् तद्द्वाराऽव्याकृतात्मकमनभिव्यक्तनामरूपात्मकजगदाश्रयः । * तद्धेर्दं तर्हि अव्याकृतमासीत्तन्नामरूपाभ्या'मिति श्रुतेः । अतो बीजत्वं युक्तमित्यर्थः ॥ २ ॥ एवं ब्रह्मणः प्रपश्चोपदानत्वमुपपद्येदानीं तस्मिङ्गगत अध्यारोपार्थं त्सूट्टिमाइ - }, तर्हि क्रथं 3. बजर्व 8. स्वती