सामग्री पर जाएँ

भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०४८

विकिस्रोतः तः
← अध्यायः ०४७ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)
अध्यायः ०४८
अज्ञातलेखकः
अध्यायः ०४९ →

आदित्यमाहात्म्यवर्णनम्

शतानीक उवाच
विस्तराद्वद विप्रेन्द्र सप्तमीकल्पमुत्तमम् ।
महाभाग्यं च देवस्य भास्करस्य महात्मनः । । १
सुमन्तुरुवाच
अत्रैवाहुर्महात्मानः सम्वादं पुण्यमुत्तमम् ।
कृष्णेन सह सत्त्वेन स्वपुत्रेण महीपते । । २
भक्त्या प्रणम्य विधिवद्वासुदेवं जगद्गुरुम् ।
इहामुत्र हितं शांबः पप्रच्छ ज्ञानमुत्तमम् । । ३
जातो जन्तुः कथं दुःखैर्जन्मनीह न बाध्यते ।
प्राप्नोति विविधान्कामान्कथं च मधुसूदन । । ४
परत्र स्वर्गमाप्नोति सुखानि विविधानि च ।
अनुभूयोचितं कालं कथं मुक्तिमवाप्नुते । । ५
दृष्ट्वैवं मम निर्वेदो जातो व्याधिर्जनार्दन ।
दृष्ट्वेमं जीविताशापि रोचते न हि मे क्षणम् । । ६
किं त्वेवमकृतार्थोऽस्मि यन्मे प्राणा न यान्ति हि ।
संसारे न पतिष्यामि जराव्याधिसमन्विते । । ७
येनोपायेन तन्मेऽद्य प्रसादं कुरु सुव्रत ।
आधिव्याधिविनिर्मुक्तो यथाहं स्यां तथा वद । । ८
वासुदेव उवाच
देवतायाः प्रसादोऽन्यः सर्वस्य परमो मतः ।
उपायः शाश्वतो नित्य इति मे निश्चिता मतिः । । ९
अनुमानागमाद्यैश्च सम्यगुत्पादिता मया ।
कदाचिदन्यथा कर्तुं धीयते केनचित्क्वचित् । । 1.48.१०
प्रसादो जायते तस्य सम्यगाराधनक्रिया ।
यदा तां च समुद्दिश्य कृता तद्वेदिना तथा । । ११
विशिष्टा देवता सम्यग्विशिष्टेनैव देहिना ।
आराधिता विशिष्टं च ददाति फलमीहितम् । । १२
शाम्ब उवाच
अस्तित्वे न च सन्देहः केषाञ्चिद्देवतां प्रति ।
नास्तीति निश्चयोऽन्येषां विशिष्टास्त्वं कथाः कुरुः । । १३
वासुदेव उवाच
सिद्धं तु देवतास्तित्वमागमेषु बहुष्वथ ।
प्रमाणमागमो यस्य तस्यास्तित्वं च विद्यते । । १४
अनुमानेन वाप्यद्य तदस्तित्वं प्रसाध्यते ।
प्रमाणमस्ति यस्येदं सिद्धा यस्येह चास्तिता । । १५
प्रत्यक्षेणापि चास्तित्वं देवतायां प्रसाध्यते ।
तच्चावश्यं प्रमाणं च दृष्टं सर्वशरीरिणाम् । । १६
यदि नामा विविक्तास्तु तिर्यग्योनिगता अपि ।
नोत्पद्यते तथा ह्यस्ति व्यवहारो यथा स्थितः । । १७
शाम्ब उवाच
प्रत्येक्षेणोपलभ्यन्ते सम्यग्वै यदि देवताः ।
अनुमानागमाभ्यां च तदर्थं .न प्रयोजनम् । । १८
वासुदेव उवाच
प्रत्यक्षेणोपलभ्यन्ते न सर्वा देवताः क्वचित् ।
अनुमानागमैर्गम्याः सन्ति चान्याः सहस्रशः । ।१९
शाम्ब उवाच
या चाक्षगोचरा काचिद्विशिष्टेष्टफलप्रदा ।
तामेवादौ ममाचक्ष्व कथयिष्यस्यथापराम् । । 1.48.२०
वासुदेव उवाच
प्रत्यक्षं देवता सूर्यो जगच्चक्षुर्दिवाकरः ।
तस्मादभ्यधिका काचिद्देवता नास्ति शाश्वती । । २१
यस्मादिदं जगज्जातं लयं यास्यति यत्र च ।
कृतादिलक्षणः कालः स्मृतः साक्षाद्दिवाकरः । । २२
ग्रहनक्षत्रयोगाश्च राशयः १ करणानि च ।
आदित्या वसवो रुद्रा अश्विनौ वायवोऽनलः । । २३
शक्रः प्रजापतिः सर्वे भूर्भुवःस्वस्तथैव च ।
लोकाः सर्वे नगा नागाः सरितः सागरास्तथा । ।
भूतग्रामस्य सर्वस्य स्वयं हेतुर्दिवाकरः । । २४
अस्येच्छया जगत्सर्वमुत्पन्नं सचराचरम् ।
स्थितं प्रवर्तते चैव स्वार्थे चानुप्रवर्तते । । २५
प्रसादादस्य लोकोऽयं चेष्टमानः प्रदृश्यते ।
अस्मिन्नभ्युदिते सर्वमुदेदस्तमिते सति । ।
अस्तं यातीत्यदृश्येन किमेतत्कथ्यते मया । ।२ ६
तस्मादतः परं नास्ति न भूतं न भविष्यति ।
यो वै वेदेषु सर्वेषु परमात्मेति गीयते । । २७
इतिहासपुराणेषु अन्तरात्मेति गीयते ।
बाह्यात्मैति सुषुम्णास्थः स्वप्नस्थो जाग्रतः स्थितः । । २८
अस्तं यातीत्यदृष्टेन किमेतत्कथ्यते मया ।
तस्मादतः परं नास्ति न भूतं न भविष्यति । । २९
यन्न वाह इति ख्यातः प्रेरकः सर्वदेहिनाम् ।
नानेन रहितं किञ्चिद्भूतमस्ति चराचरम् । । 1.48.३०
यो वेदैर्वेदविद्भिश्च विस्तरेणेह शक्यते ।
वक्तुं वर्षशतैर्नासौ शक्यः संक्षेपतो मया । । ३१
१तस्माद्गुणाकरः ख्यातः सर्वत्रायं दिवाकरः ।
सर्वेशः सर्वकर्तायं सर्वभर्तायमव्ययः । । ३२
जाता मत्स्यादयः सम्यग्गतिमन्तो महेश्वरात् ।
मण्डलव्यतिरिक्तं च जानामि परमार्थतः । । ३३
तथास्य मण्डलं कृत्वा२ यो ह्येनमुपतिष्ठते ।
प्रातः सायं च मध्याह्ने स याति परमां गतिम् । । ३४
किं पुनर्मण्डलस्थं यो जपते परमार्थतः ।
विविधाः सिद्धयस्तस्य भवन्ति न तदद्भुतम् । । ३५
मण्डले च स्थितं देवं देहे चैनं व्यवस्थितम् ।
स्वबुद्ध्यैवमसम्मूढो य- पश्यति स पश्यति । । ३६
ध्यात्वैवं १ पूजयेद्यस्तु जपेद्यो जुहुयाच्च यः ।
स सर्वान्प्राप्नुयात्कामान्गच्छेद्धर्मध्वजं तथा । । ३७
तस्मात्त्वमिह दुःखानामन्तं कर्तुं यदीच्छसि ।
इहामुत्र च भोगानां भुक्तिं मुक्तिं च शाश्वतीम् । । ३८
आराधयार्कमर्कस्थो मन्त्रैरिह तदात्मनि ।
अङ्गैर्वृतं वृते चैव स्थाने शास्त्रेण शोधिते । । ३९
कवचेन च सङ्गुस्ते सर्वतोऽस्त्रेण रक्षिते ।
एवं प्राप्स्यसि यत्नेन सर्वदा फलमीप्सितम् । । 1.48.४०
दुःखमाध्यात्मिकं नेह तथा चैवाधिभौतिकम् ।
आधिदैविकमत्युग्रं न भविष्यति ते सदा । । ४१
न भयं विद्यते तेषां प्रपन्ना ये दिवाकरम् ।
इहामुत्र सुखं तेषामच्छिद्रं जायते सुखम् । । ४२
सूर्येणेदं ममोद्दिष्टं साक्षाद्यज्ज्ञानमुत्तमम् ।
आराधितेन विधिवत्कालेन बहुना तथा । । ४३
प्राप्यते परमं स्थानं यत्र धर्मध्वजः स्थितः ।
एतत्संक्षिप्तमुद्दिष्टं क्षिप्रसिद्धिकरं परम् । ।
यथा नान्यदतोऽस्तीति स्वयं तूर्येण भाषितम् । । ४४
उपायोऽयं समाख्यातस्तव संक्षेपतस्त्विह ।
यस्मात्परतरो नास्ति हितोपायः शरीरिणाम् । । ४५

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यमाहात्म्यवर्णनं नामाष्टचत्वारिंशोऽध्यायः । ४८ ।