सामग्री पर जाएँ

भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०४७

विकिस्रोतः तः

शाकसप्तमीव्रतवर्णनम्

सुमन्तुरुवाच
सप्तम्यां सोपवासस्तु नक्ताहारोऽपि वा भवेत् ।
सप्तम्यां देवदेवेन लब्धं स्वं रूपमादरात् । । १
अण्डेन सह जातो वै अण्डस्थो बुद्धिमाप्तवान् ।
अण्डस्थस्यैव दक्षेण भार्यां दत्त्वा स्वकां सुताम् ।। २
नाम्ना रूपेति रूपेण नान्या नारी तथा १ भवेत् ।
अण्डस्थ एव सुचिरं स्थितो मार्तण्ड इत्यतः । । ३
दक्षाज्ञया विश्वकर्मा वपुरस्य प्रकाशयन् ।
प्रकाशतस्ततो नाम तस्य जातं नराधिप । ।
अण्डस्थस्यैव सञ्जातो यमुना यम एव च । ।४
दाक्षायणी तस्य भार्या वैराग्यात्तनुमध्यमा ।
चिन्तयामास सा देवी दुःखान्निर्वेदमागता । । ५
अहो तेजोमयं रूपं कान्तं कान्तस्य कान्तिमत् ।
न चास्य किञ्चित्पश्यामि अङ्गं तेजोविमोहितम् । । ६
शुभं कनकतुल्यं मे रूपं कान्तं सुकान्तिमत् ।
साम्प्रतं श्यामतां यातं दग्धमेतस्य तेजसा । । ७
तस्मात्तप्स्ये तपश्चाहं गत्वा वै उत्तरान्कुरून् ।
स्वां छायामत्र निक्षिप्य भयाच्छापस्य रूपिणी । । ८
निक्षिप्योवाच तां बालां मा चास्मै वै वदिष्यसि ।
एवं सा निश्चयं कृत्वा गता वै उत्तरान्कुरून् । । ९
स्वरूपं तत्र निक्षिप्य वडवारूपधारिणी ।
चचार सा मृगैः सार्धं बहून्वर्षगणान्नृप । । 1.47.१०
असावपि च मार्तण्डश्छायां भार्याममन्यत् ।
शनिं च तपतीं चैव द्वे अपत्ये च जज्ञिवान् । । ११
अथ च्छायात्मापत्यानि स्नेहेन परिपालयेत् ।
नातिस्नेहेन चापश्यद्यमुनां यममेव च । । १२
अथ ताभ्यां विवादोऽभूदादित्यदुहित्रोर्द्वयोः ।
ते उभे विवदन्त्यौ तु परस्परमसम्मतम् । ।
यमुना तपती चोभे निम्नगे सम्बभूवतुः । । १३
यमोऽपि यमुनाभ्राता छायया ताडितो भृशम् ।
पादमुद्यम्य तस्या वै तस्थौ सम्मुख एव सः । । १४
छाया शशाप तं रोषाद्यस्मात्पादोद्यतो मम।
तस्मात्ते कर्म बीभत्सं प्राणिनां प्राणहिंसनम् । । १५
भविष्यति चिरं मूढ आचन्द्रार्कं न संशयः ।
पादं च यदि भूमौ त्वमिमं संस्थापयिष्यसि । । १६
कृमयो भक्षयिष्यन्ति मच्छापकलुषीकृतम् । । १७
तेषां विवदमानानां मार्तण्डोऽभ्यागमत्ततः ।
यमोऽप्याह महात्मानं मार्तण्डं लोकपावनम् । । १८
तात नित्यमियं चापि क्रूरभावेन पश्यति ।
न चास्याः सुसमा दृष्टिरस्मास्वस्तीति लक्ष्यते । । १९
प्रोवाचाथ स तां छायां मार्तण्डो भृशकोपनः ।
१समे अपत्ये किं मूढे समत्वं नानुपश्यसि । । 1.47.२०
यमः प्रोवाच पितरं नेयं माता पितर्मम ।
मातुश्छाया त्वियं पापा शप्तोऽहमनया पितः । ।
यमुना तपती वृत्तं तत्सर्वं विन्यवेदयत् । । २१
अथ प्रोवाच मार्तण्डो मा ते पादो महीतले ।
मांसं रुधिरमादाय कृमयो यान्तु भूतलम् । । २२
यमुनायाश्च यत्तोयं गङ्गातुल्यं भविष्यति ।
नर्मदायास्तपत्याश्च समं पुण्येन वै द्विज । । २३
विन्ध्यस्य दक्षिणेनेह तपती प्रवहिष्यति ।
तत्सायुज्यतया साग्रं गङ्गा यास्यति शोभना । । २४
गङ्गामासाद्य यमुना गङ्गा सैव भविष्यति ।
सौरसौम्ये उभे पुण्ये सर्वपापप्रणाशने । । २५
१सौरी च वैष्णवी चोभे महापापभयापहे ।
त्वं पुत्र लोकपालत्वं ब्रह्मणोऽज्ञां सभाजयन् । ।
अद्यप्रभृति च्छायेयं स्वदेहस्था भविष्यति । । २६
एवं संस्थाप्य स्वां भार्यामपत्यानि तथैव च ।
आजगाम सकाशं वै दक्षस्याह च कारणम्२ । ।
दक्षो विज्ञाय तत्सर्वं मार्तण्डमिदमाह वै । । २७
रूपं न पश्यती तुभ्यं सा भार्या उत्तरान्गता । । २८
रूपं ते प्रकटिष्यामि यदि शक्ष्यसि वेदनाम् ।
असौ प्रोवाच शक्ष्येऽहं प्रकाशी कुरु मे वपुः । । २९
अथ सस्मार तक्षाणं स्मृत एवाजगाम सः ।
प्रोवाच दक्षस्तक्षाणं मार्तण्डं वै प्रकाशय । । 1.47.३०
तक्षा प्रोवाच मार्तण्डं वेदना विसहिष्यसे ।
विसहिष्येथ प्रोवाच तक्षाणं दक्षचोदितः । । ३१
अथ तक्षा प्रकाशं वै तस्य रूपं विभावसौ ।
मुखादारभ्य पादान्तं ततक्षकरणैः स्वकैः । ।
किरणैस्तुद्यमानेषु तस्याङ्गेषु पुनः पुनः ।
क्षणेक्षणे मूर्छयति मार्तण्डो वेदनातुरः । । ३२
तस्य शापभयात्तक्षा पादौ गुल्फादियावतः ।
चकाराथो निराकारा अङ्गुल्यो न प्रकाशयत् । । ३३
पर्याप्तं तक्षकर्मेदं वेदना मम बाधते ।
तक्षा प्रोवाच मार्तण्डं वेदनां जहि गोपते । । ३४
करवीरस्य पुष्पाणि रक्तचन्दनमेव च ।
करादारभ्य गात्राणि विलिम्पे देहजानि ते । । ३५
तत्तत्कृतं तथा तेन स रुजं त्यक्तवान्रविः ।
अतश्चेमानि चेष्टानि मार्तण्डस्येह भूपते । । ३६
करवीरस्य पुष्पाणि तथा वै रक्तचन्दनम् ।
इदमाह पुरा देवो ह्यनूरोरग्रतो नृप । । ३७
करवीरस्य पुष्पाणि रक्तचन्दनमेव हि ।
इतिहासपुराणाभ्यां सुपर्णगुग्गुलं तथा । । ३८
यः प्रयच्छति मे भक्त्या स मे प्राणान्प्रयच्छति ।
तस्मान्न देयमन्यन्मे भक्तियुक्तेन जानता । । ३९
मार्तण्डस्याण्डजं तेजो गृहीत्वा किल भारत ।
चकार वज्रमजरं १ शत्रुलेखादिनाशनम् । । 1.47.४०
मार्तण्डः परितुष्टोऽभूल्लब्ध्वा रूपं गतव्यथः ।
जगाम स कुरून्वेगात्स्वभार्यादर्शनोत्सुकः । । ४१
मृगमध्यगतां दृष्ट्वा वडवारूपधारिणीम् ।
अश्वरूपं ततः कृत्वा स्वभार्यामधिरुह्य सः । ।
अवासृजत्स्वकं तेजो वेगेनारुह्य सोऽश्ववत् । ।४ २
परपुरुषाशङ्कया सा स्थिता देवस्य संमुखी ।
तेजो नासापुटाभ्यां तु युगपत्साक्षिपत्पुनः । ।४ ३
तत्र जातौ देवभिषजौ नासत्यावश्विनाविति ।
रेतसोऽन्ते तु रेवन्तो विरोचनसुतो महान् । । ४४
तपती शनिश्च सावर्णिश्छायापत्यानि वै विदुः ।
यमुना यमश्च पूर्वोक्तौ संज्ञा २ याश्च तथात्मजौ । । ४५
भार्या लब्धा वपुर्दिव्यं तथा पुत्राश्च भारत ।
सप्तम्यां देवदेवस्य सर्वमेवमिदं यतः । ।
अनेन कारणेनेष्टा सदा देवस्य सप्तमी । । ४६
सप्तम्यां सोपवासस्तु रात्रौ भुञ्जीत यो नरः ।
कृत्वोपवासं षष्ठ्यां तु पञ्चम्यामेककालभुक् । । ४७
दत्त्वा सुसंस्कृतं शाकं भक्ष्यभोज्यैः समन्वितम् ।
देवाय ब्राह्मणेभ्यश्च रात्रौ भुञ्जीत वाग्यतः । । ४८
यावज्जीवं नरः कश्चिद्व्रतमेतच्चरेदिति ।
तस्य श्रीर्विजयश्चैव त्रिवर्गश्चापि वर्धते । । ४९
मृतश्च स्वर्गमायाति १ विमानवरमास्थितः ।
सूर्यलोके स रमते मन्वन्तरगणान्बहून् । ।
इह चागत्य कालान्ते नृपः शान्ति समन्वितः । । 1.47.५०
पुत्रपौत्रैः परिवृतो दाता स्यान्नृपतिश्चिरम् ।
भुनक्ति हि धरां राजन्विग्रहैश्चाजितः परै । । ५१
ये नरा राजशार्दूल शाकाहारेण सप्तमीम् ।
उपोष्य लब्धं तत्तीर्थं पित्र्यं वै राजसंज्ञिकम् । । ५२
कुरुणा तव पूर्वेण शाकाहारेण सप्तमीम् ।
धर्मक्षेत्रं कुरुक्षेत्रं कृतं तस्य विवस्वता । । ५३
सप्तमी नवमी षष्ठी तृतीया पञ्चमी नृप ।
कामदास्तिथयो ह्येता इहैव नरयोषिताम् । । ५४
सप्तमी माघमासे तु नवम्याश्वयुजे मता ।
षष्ठी भाद्रपदे धन्या वैशाखे तु तृतीयिका । । ५५
पुण्या भाद्रपदे प्रोक्ता पञ्चमी नागपञ्चमी ।
इत्येतास्तेषु मासेषु विशेषास्तिथयः स्मृताः । । ५६
शाकं सुसत्कृतं कृत्वा यश्च भक्त्या समन्वितः ।
दत्त्वा विप्रे यथाशक्त्या पश्चाद्भुङ्क्ते निशि व्रती । । ५७
कार्तिके शुक्लपक्षस्य ग्राह्येयं कुरुनन्दन ।
चतुभिर्वापि मासैस्तु पारणं प्रथमं स्मृतम् । । ५८
अगस्त्यकुसुमैश्चात्र पूजा कार्या विभावसोः ।
विलेपनं कुङ्कुमं तु धूपश्चैवापराजितैः । । ५९
स्नानं च पञ्चगव्येन तमेव प्राशयेत्ततः ।
नैवेद्यं पायसं चात्र देवदेवस्य कीर्तितम् । । 1.47.६०
तदेव देयं विप्राणां शाकं भक्ष्यमथात्मना ।
शुभशाकसमायुक्तं भक्ष्यपेयसमन्वितम् । । ६१
द्वितीये पारणे राजञ्छुभगन्धानि यानि वै ।
पुष्पाणि तानि देवस्य तथा श्वेतं च चन्दनम् । । ६२
अगुरुश्चापि धूपोऽत्र नैवेद्यं गुडपूपकाः ।
स्नानं कुशोदकेनात्र प्राशनं गोमयस्य तु । । ६३
तृतीये करवीराणि तथा रक्तं च चन्दनम् ।
धूपानां गुग्गुलश्चात्र प्रियो देवस्य सर्वदा । । ६४
शाल्योदनं तु नैवेद्यं दधिमिश्रं महामते ।
तमेव ब्राह्मणानां च भक्ष्यलेह्यसमन्वितम् । ।
कालशाकेन च विभो युक्तं दद्याद्विचक्षणः । । ६५
गौरसर्षपकल्केन स्नानं चात्र विदुर्बुधाः ।
तस्यैव प्राशनं धन्यं सर्वपापहरं शुभम् । । ६६
तृतीये पारणस्यान्ते महद्ब्राह्मणभोजनम् ।
श्रवणं च पुराणस्य वाचनं चापि शस्यते । । ६७
दैवस्य पुरतस्तात ब्राह्मणानां तथाग्रतः ।
ब्राह्मणाद्वाचकाच्छ्राव्यं नान्यवर्णसमुद्भवात् । ।
अथ तान्ब्राह्मणान्सर्वान्भक्त्या शक्त्या च पूजयेत् । । ६८
वाचकस्यामले राजन्वाससी सन्निवेदयेत् ।
वाचके पूजिते देवः सदा तुष्यति भास्करः । । ६९
करवीरं यथेष्टं तु तथा रक्तं च चन्दनम् ।
यथेष्टं गुग्गुलं तस्य यथेष्टं पायसं सदा । । 1.47.७०
यथेष्टा मोदकास्तस्य यथा वै ताम्रभाजनम् ।
यथेष्टं च घृतं तस्य यथेष्टो वाचकः सदा । ।
पुराणं च यथेष्टं वै सवितुः कुरुनन्दन । । ७१
इत्येषा सप्तमी पुण्या शाकाह्वा गोपतेः सदा ।
यामुपोष्य नरो भक्त्या भाग्यवांश्च१ प्रजायते । । ७२

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे शाकसप्तमीव्रतवर्णनंनाम सप्तचत्वारिंशोऽध्यायः । ४७ ।