शतपथब्राह्मणम्/काण्डम् ११/अध्यायः २/ब्राह्मणं २

विकिस्रोतः तः

११.२.२

गायत्रीमनुवाक्यामन्वाह। त्रिपदा वै गायत्री त्रय इमे लोका इमानेवैतल्लोकान्देवाः प्रत्यष्ठापयन् - ११.२.२.१

अथ त्रिष्टुभा यजति। चतुष्पदा वै त्रिष्टुप्चतुष्पादाः पशवस्तत्पशूनेवैतदेषु लोकेषु प्रतिष्ठितेषु देवाः प्रत्यष्ठापयन् - ११.२.२.२

द्व्यक्षरो वषट्कारः। द्विपाद्वै पुरुषस्तत्पुरुषमेवैतद्द्विपादमेषु पशुषु प्रतिष्ठितेषु प्रत्यष्ठापयन् - ११.२.२.३

सोऽयं द्विपात्पुरुषः। पशुषु प्रतिष्ठित एवमेवैष एतल्लोकान्प्रतिष्ठापयति लोकेषु प्रतिष्ठितेषु पशून्प्रतिष्ठापयति पशुषु प्रतिष्ठितेष्वात्मानं प्रतिष्ठापयत्येवमेष पुरुषः पशुषु प्रतिष्ठितो य एवं विद्वान्यजते - ११.२.२.४

अथ यद्वषट्कृते जुहोति एष वै वषट्कारो य एष तपति स एष मृत्युस्तदेनमुपरिष्टान्मृत्योः संस्करोति तदेनमतो जनयति स एतं मृत्युमतिमुच्यते यज्ञो वा अस्यात्मा भवति तद्यज्ञ एव भूत्वैतन्मृत्युमतिमुच्यत एतेनो हास्य सर्वे यज्ञक्रतव एतं मृत्युमतिमुक्ताः - ११.२.२.५

अथ यामेतामाहुतिं जुहोति। एषा ह वा अस्याहुतिरमुष्मिंलोक आत्मा भवति स यदैवंविदस्माल्लोकात्प्रैत्यथैनमेषाहुतिरेतस्य पृष्ठे सत्याह्वयत्येह्यहं वै त इहात्मास्मीति तद्यदाह्वयति तस्मादाहुतिर्नाम - ११.२.२.६