शतपथब्राह्मणम्/काण्डम् ११/अध्यायः १/ब्राह्मणं ६
११.१.६
आपो ह वा इदमग्रे सलिलमेवास। ता अकामयन्त कथं नु प्रजायेमहीति ता अश्राम्यंस्तास्तपोऽतप्यन्त तासु तपस्तप्यमानासु हिरण्मयमाण्डं सम्बभूवाजातो ह तर्हि संवत्सर आस तदिदं हिरण्मयमाण्डं यावत्संवत्सरस्य वेला तावत्पर्यप्लवत - ११.१.६.१
ततः संवत्सरे पुरुषः समभवत्। स प्रजापतिस्तस्मादु संवत्सर एव स्त्री वा गौर्वा वडवा वा विजायते संवत्सरे हि प्रजापतिरजायत स इदं हिरण्मयमाण्डं व्यरुजन्नाह तर्हि का चन प्रतिष्ठाऽऽस तदेनमिदमेव हिरण्मयमाण्डं यावत्संवत्सरस्य वेलासीत्तावद्बिभ्रत्पर्यप्लवत - ११.१.६.२
स संवत्सरे व्याजिहीर्षत्। स भूरिति व्याहरत्सेयं पृथिव्यभवद्भुव इति तदिदमन्तरिक्षमभवत्स्वरिति साऽसौ द्यौरभवत्तस्मादु संवत्सर एव कुमारो व्याजिहीर्षति संवत्सरे हि प्रजापतिर्व्याहरत् - ११.१.६.३
स वा एकाक्षरद्व्यक्षराण्येव। प्रथमं वदन्प्रजापतिरवदत्तस्मादेकाक्षरद्व्यक्षराण्येव प्रथमं वदन्कुमारो वदति - ११.१.६.४
तानि वा एतानि पञ्चाक्षराणि। तान्पञ्चर्तूनकुरुत त इमे पञ्चर्तवः स एवमिमांल्लोकान्जातान्त्संवत्सरे प्रजापतिरभ्युदतिष्ठत्तस्मादु संवत्सर एव कुमार उत्तिष्ठासति संवत्सरे हि प्रजापतिरुदतिष्ठत् - ११.१.६.५
स सहस्रायुर्जज्ञे। स यथा नद्यै पारं परापश्येदेवं स्वस्यायुषः पारं पराचख्यौ - ११.१.६.६
सोऽर्चञ्छ्राम्यंश्चचार प्रजाकामः। स आत्मन्येव प्रजातिमधत्त स आस्येनैव देवानसृजत ते देवा दिवमभिपद्यासृज्यन्त तद्देवानां देवत्वं यद्दिवमभिपद्यासृज्यन्त तस्मै ससृजानाय दिवेवास तद्वेव देवानां देवत्वं यदस्मै ससृजानाय दिवेवास - ११.१.६.७
अथ योऽयमवाङ्प्राणः। तेनासुरानसृजत त इमामेव पृथिवीमभिपद्यासृज्यन्त तस्मै ससृजानाय तम इवास - ११.१.६.८
सोऽवेत् पाप्मानं वा असृक्षि यस्मै मे ससृजानाय तम इवाभूदिति तांस्तत एव पाप्मनाऽविध्यत्ते तत एव पराभवंस्तस्मादाहुर्नैतदस्ति यद्दैवासुरं यदिदमन्वाख्याने त्वदुद्यत इतिहासे त्वत्ततो ह्येव तान्प्रजापतिः पाप्मनाविध्यत्ते तत एव पराभवन्निति - ११.१.६.९
तस्मादेतदृषिणाभ्यनूक्तम्। न त्वं युयुत्से कतमच्च नाहर्न्न तेऽमित्रो मघवन्कश्चनास्ति मायेत्सा ते यानि युद्धान्याहुर्नाद्य शत्रून्न नु पुरा युयुत्स इति - ११.१.६.१०
स यदस्मै देवान्त्ससृजानाय दिवेवास तदहरकुरुताथ यदस्मा असुरान्त्ससृजानाय तम इवास तां रात्रिमकुरुत ते अहोरात्रे - ११.१.६.११
स ऐक्षत प्रजापतिः। सर्वं वा अत्सारिषं य इमा देवता असृक्षीति स संवत्सरोऽभवत्संवत्सरो ह वै नामैतद्यत्संवत्सर इति स यो हैवमेतत्संवत्सरस्य संवत्सरत्वं वेद यो हैनं पाप्मा मायया त्सरति न हैनं सोऽभिभवत्यथ यमभिचरत्यभि हैवैनं भवति य एवमेतत्संवत्सरस्य संवत्सरत्वं वेद - ११.१.६.१२
स ऐक्षत प्रजापतिः इमं वा आत्मनः प्रतिमामसृक्षि यत्संवत्सरमिति तस्मादाहुः प्रजापतिः संवत्सर इत्यात्मनो ह्येतं प्रतिमामसृजत यद्वेव चतुरक्षरः संवत्सरश्चतुरक्षरः प्रजापतिस्तेनो हैवास्यैष प्रतिमा - ११.१.६.१३
ता वा एताः प्रजापतेरधि देवता असृज्यन्ताग्निरिन्द्रः सोमः परमेष्ठी प्राजापत्यः - ११.१.६.१४
ताः सहस्रायुषो जज्ञिरे ता यथा नद्यै पारं परापश्येदेवं स्वस्यायुषः पारं पराचख्युः - ११.१.६.१५
ता अर्चन्त्यः श्राम्यन्त्यश्चेरुः तत एतं परमेष्ठी प्राजापत्यो यज्ञमपश्यद्यद्दर्शपूर्णमासौ ताभ्यामयजत ताभ्यामिष्ट्वाऽकामयताहमेवेदं सर्वं स्यामिति स आपोऽभवदापो वा इदं सर्वं ता यत्परमे स्थाने तिष्ठन्ति यो हीहाभिखनेदप एवाभिविन्देत्परमाद्वा एतत्स्थानाद्वर्षति यद्दिवस्तस्मात्परमेष्ठी नाम - ११.१.६.१६
स परमेष्ठी प्रजापतिं पितरमब्रवीत् कामप्रं वा अहं यज्ञमदर्शं तेन त्वा याजयानीति तथेति तमयाजयत्स इष्ट्वाऽकामयताहमेवेदं सर्वं स्यामिति स प्राणोऽभवत्प्राणो वा इदं सर्वमयं वै प्राणो योऽयं पवते स प्रजापतिस्तस्य दृष्टिर्यदेव वेदेत्थाद्वातीति यद्वै किं च प्राणि स प्रजापतिः स यो हैवमेतां प्रजापतेर्दृष्टिं वेदाविरिव हैव भवति - ११.१.६.१७
स प्रजापतिरिन्द्रं पुत्रमब्रवीत् अनेन त्वा कामप्रेण यज्ञेन याजयानि येन मामिदं परमेष्ठ्ययीयजदिति तथेति तमयाजयत्स इष्ट्वाऽकामयताहमेवेदं सर्वं स्यामिति स वागभवद्वाग्वा इदं सर्वं तस्मादाहुरिन्द्रो वागिति - ११.१.६.१८
स इन्द्रोऽग्नीषोमौ भ्रातरावब्रवीत् अनेन वां कामप्रेण यज्ञेन याजयानि येन मामिदं पिता प्रजापतिरयीयजदिति तथेति तावयाजयत्ताविष्ट्वाऽकामयेतामावमेवेदं सर्वं स्यावेति तयोरन्नाद एवान्यतरोऽभवदन्नमन्यतरोऽन्नाद एवाग्निरभवदन्नं सोमोऽन्नादश्च वा इदं सर्वमन्नं च - ११.१.६.१९
ता वा एताः। पञ्च देवता एतेन कामप्रेण यज्ञेनायजन्त ता यत्कामा अयजन्त स
आभ्यः कामः समार्ध्यत यत्कामो ह वा एतेन यज्ञेन यजते सोऽस्मै कामः समृध्यते - ११.१.६.२०
त इष्ट्वा प्राचीं दिशमपश्यन्। तां प्राचीमेवाकुर्वत सेयं प्राच्येव दिक्तस्मादिमाः प्रजाः प्राच्यः सर्पन्ति प्राचीं ह्येतामकुर्वतोपैनामितः कुर्वीमहीति तामूर्जमकुर्वतेमां खलूर्जं पश्येमेति साऽसौ द्यौरभवत् - ११.१.६.२१
अथ दक्षिणां दिशमपश्यन्। तां दक्षिणामेवाकुर्वत सेयं दक्षिणैव दिक्तस्मादु दक्षिणत एव दक्षिणा उपतिष्ठन्ते दक्षिणतोऽभ्यवाजन्ति दक्षिणां ह्येतामकुर्वतोपैनामितः कुर्वीमहीति तं लोकमकुर्वतेमं खलु लोकं पश्येमेति तदिदमन्तरिक्षमभवदेष वै लोकः सा यथा हैवेयं प्रतिष्ठाविरस्मिंलोके पृथिव्येवमु हैवैषा प्रतिष्ठाविरमुष्मिंलोक इदमन्तरिक्षं स यदिह सन्नमुं लोकं न पश्यति तस्मादाहुः परोऽक्षमसौ लोक इति - ११.१.६.२२
अथ प्रतीचीं दिशमपश्यन्। तामाशामकुर्वत तस्माद्यत्प्राङ्सृत्वा विन्दत एतामेव तेन दिशमेत्याशां ह्येतामकुर्वतोपैनामितः कुर्वीमहीति तां श्रियमकुर्वतेमां खलु श्रियं पश्येमेति सेयं पृथिव्यभवच्छ्रीर्वा इयं तस्माद्योऽस्यै भूयिष्ठं विन्दते स एव श्रेष्ठो भवति - ११.१.६.२३
अथोदीचीं दिशमपश्यन्। तामपोऽकुर्वतोपैनामितः (तामपरेऽकुर्वतोपैनामितः) कुर्वीमहीति तं धर्ममकुर्वत धर्मो वा आपस्तस्माद्यदेमं लोकमाप आगच्छन्ति सर्वमेवेदं यथाधर्मं भवत्यथ यदा वृष्टिर्भवति बलीयानेव तर्ह्यबलीयस आदत्ते धर्मो ह्यापः - ११.१.६.२४
ता वा एताः। एकादश देवताः पञ्च प्रयाजा द्वावाज्यभागौ स्विष्टकृत्त्रयोऽनुयाजाः - ११.१.६.२५
ता एकादशाहुतयः। एताभिर्वा आहुतिभिर्देवा इमांल्लोकानजयन्नेता दिशस्तथो एवैष
एताभिराहुतिभिरिमांल्लोकाञ्जयत्येता दिशः - ११.१.६.२६
चतस्रोऽवान्तरदिशः। त एव चत्वारः पत्नीसंयाजा अवान्तरदिशो वै देवाश्चतुर्भिः पत्नीसंयाजैरजयन्नवान्तरदिश उ एवैष एतैर्जयति - ११.१.६.२७
अथेडा अन्नाद्यमेवैतया देवा अजयंस्तथो एवैष एतयान्नाद्यमेव जयत्येषा नु देवत्रा दर्शपूर्णमासयोः सम्पत् - ११.१.६.२८
अथाध्यात्मम् पञ्चेमे पुरुषे प्राणा ऋते चक्षुर्भ्यां त एव पञ्च प्रयाजाश्चक्षुषी आज्यभागौ - ११.१.६.२९
अयमेवावाङ्प्राणः स्विष्टकृत्। स यत्तमभ्यर्ध इवेतराभ्य आहुतिभ्यो जुहोति तस्मादेतस्मात्प्राणात्सर्वे प्राणा बीभत्सन्तेऽथ यत्स्विष्टकृते सर्वेषां हविषामवद्यति तस्माद्यत्किं चेमान्प्राणानापद्यत एतमेव तत्सर्वं समवैति - ११.१.६.३०
त्रीणि शिश्नानि त एव त्रयोऽनुयाजाः स योऽयं वर्षिष्ठोऽनुयाजस्तदिदं वर्षिष्ठमिव शिश्नं तं वा अनवानन्यजेदित्याहुस्तथो हास्यैतदमृध्रं भवतीति - ११.१.६.३१
स वै सकृदवान्यात्। एकं ह्येतस्य पर्वाथ यदपर्वकं स्यात्प्रतृण्णं वैव तिष्ठेल्लम्बेत वा तस्मादेतदुच्च तिष्ठति पद्यते च तस्मात्सकृदवान्यात् - ११.१.६.३२
द्वौ बाहू द्वा ऊरू त एव चत्वारः पत्नीसंयाजाः प्रतिष्ठाऽयमेव प्राण इडा यत्तां
नाग्नौ जुहोति यत्साऽप्रदग्धेव तस्मादयमनवतृणः प्राणः - ११.१.६.३३
अस्थ्येव याज्यानुवाक्याः मांसं हविस्तन्मितं छन्दो यद्याज्यानुवाक्यास्तस्मादु
समावन्त्येवास्थीनि मेद्यतश्च कृश्यतश्च भवन्त्यथ यद्भूय इव च हविर्गृह्णाति कनीय इव च तस्मादु मांसान्येव मेद्यतो मेद्यन्ति मांसानि कृश्यतः कृश्यन्ति तेनैतेन यज्ञेन यां कामयते देवतां तां यजति यस्यै हविर्भवति - ११.१.६.३४
ता वा एताः अनपोद्धार्या आहुतयो भवन्ति। स यद्धैतासामपोद्धरेद्यथैकमङ्गं शृणीयात्प्राणं वा निर्हण्यादेवं तदन्यान्येव हवींष्युप चाह्रियन्तेऽप च ह्रियन्ते - ११.१.६.३५
ता वा एताः। षोडशाहुतयो भवन्ति षोडशकलो वै पुरुषः पुरुषो यज्ञस्तस्मात्षोडशाहुतयो भवन्ति - ११.१.६.३६