शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ५/ब्राह्मण ५
१०.५.५
कुश्रिर्ह वाजश्रवसोऽग्निं चिक्ये। तं होवाच सुश्रवाः कौश्यो गौतम यदग्निमचैषीः प्राञ्चमेनमचैषीः प्रत्यञ्चमेनमचैषीर्न्यञ्चमेनमचैषीरुत्तानमेनमचैषीः - १०.५.५.१
यद्यहैनं प्राञ्चमचैषीः यथा पराच आसीनाय पृष्ठतोऽन्नाद्यमुपाहरेत्तादृक्तन्न ते हविः प्रतिग्रहीष्यति - १०.५.५.२
यद्यु वा एनं प्रत्यञ्चमचैषीः कस्मादस्य तर्हि पश्चात्पुच्छमकार्षीः - १०.५.५.३
यद्यु वा एनं न्यञ्चमचैषीः यथा नीचः शयानस्य पृष्ठेऽन्नाद्यं प्रतिष्ठापयेत्तादृक्तन्नैव ते हविः प्रतिग्रहीष्यति - १०.५.५.४
यद्यु वा एनमुत्तानमचैषीः। न वा उत्तानं वयः स्वर्गं लोकमभिवहति न त्वा स्वर्गं लोकमभिवक्ष्यत्यस्वर्ग्य उ ते भविष्यतीति - १०.५.५.५
स होवाच प्राञ्चमेनमचैषं प्रत्यञ्चमेनमचैषं न्यञ्चमेनमचैषमुत्तानमेनमचैषं सर्वा अनु दिश एनमचैषमिति - १०.५.५.६
स यत्प्राञ्चं पुरुषमुपदधाति। प्राच्यौ स्रुचौ तत्प्राङ्चीयतेऽथ यत्प्रत्यञ्चं कूर्ममुपदधाति प्रत्यञ्चि पशुशीर्षाणि तत्प्रत्यङ्चीयतेऽथ यन्न्यञ्चं कूर्ममुपदधाति न्यञ्चि पशुशीर्षाणि नीचीरिष्टकास्तन्न्यङ्चीयतेऽथ यदुत्तानं पुरुषमुपदधात्युत्ताने स्रुचा उत्तानमुलूखलमुत्तानामुखां तदुत्तानश्चीयतेऽथ यत्सर्वा अनु दिशः परिसर्पमिष्टका उपदधाति तत्सर्वतश्चीयते - १०.५.५.७
अथ ह कोषा धावयन्तः। निरूढशिरसमग्निमुपाधावयांञ्चक्रुस्तेषां हैक उवाच श्रीर्वै शिरः श्रियमस्य निरौहीत्सर्वज्यानिं ज्यास्यत इति स ह तथैवास - १०.५.५.८
अथ हैक उवाच। प्राणा वै शिरः प्राणानस्य निरौहीत्क्षिप्रेऽमुं लोकमेष्यतीति स उ ह तथैवास - १०.५.५.९
ऊर्ध्वो वा एष एतच्चीयते। यद्दर्भस्तम्बो लोगेष्टकाः पुष्करपर्णं रुक्मपुरुषौ स्रुचौ स्वयमातृण्णा दूर्वेष्टका द्वियजू रेतःसिचौ विश्वज्योतिर्ऋतव्येऽअषाढा कूर्मोऽथ हास्यैतदेव प्रत्यक्षतमां शिरो यश्चितेऽग्निर्निधीयते तस्मान्न निरूहेत् - १०.५.५.१०