स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/कार्तिकमासमाहात्म्यम्/अध्यायः ३३
।। ईश्वर उवाच ।। ।।
प्रबोधिन्याश्च माहात्म्यं पापघ्नं पुण्यवर्धनम् ।।
मुक्तिदं तत्त्वबुद्धीनां शृणुष्व सुरसत्तम ।। १ ।।
तावद्गर्जति सेनानीर्गंगा भागीरथी क्षितौ ।।
यावत्प्रयाति पापघ्नी कार्तिके हरिबोधिनी ।। २ ।।
तावद्गर्जंति तीर्थानि आसमुद्रसरांसि वै ।।
यावत्प्रबोधिनी विष्णोस्तिथिर्नाऽऽयाति कार्तिके ।। ३ ।।
अश्वमेधसहस्राणि राजसूयशतानि च ।।
एकेनैवोपवासेन प्रबोधिन्या यथाऽभवत् ।। ४ ।।
दुर्लभं चैव दुष्प्राप्यं त्रैलोक्ये सचराचरे ।।
तदपि प्रार्थितं विप्र ददाति प्रतिबोधिनी ।। ५ ।।
ऐश्वर्यं संततिं ज्ञानं राज्यं च सुखसंपदः ।।
ददात्युपोषिता विप्र हेलया हरिबोधिनी ।। ६ ।।
मेरुमंदरतुल्यानि पापान्युपार्जितानि च ।।
एकेनैवोपवासेन दहते हरिबोधिनी ।। ७ ।।
उपवासं प्रबोधिन्यां यः करोति स्वभावतः ।।
विधिना नरशार्दूल यथोक्तं लभते फलम् ।। ८ ।।
पूर्वजन्मसहस्रेषु पापं यत्समुपार्जितम् ।।
जागरेण प्रबोधिन्यां दह्यते तृलराशिवत् ।। ९ ।।
शृणु षण्मुख वक्ष्यामि जागरस्य च लक्षणम् ।।
तस्य विज्ञानमात्रेण दुर्लभो न जनार्दनः ।।2.4.33.१०।।
गीतं वाद्यं च नृत्यं च पुराणपठनं तथा ।।
धूपं दीपं च नैवेद्यं पुष्पगंधाऽनुलेपनम् ।।१ १।।
फलमर्घ्यं च श्रद्धा च दानमिंद्रियसंयमम् ।।
सत्याऽन्वितं विनिंदं च मुदा युक्तं क्रियान्वितम् ।। १२ ।।
साश्चर्यं चैव प्रोत्साहमालस्यादिविवर्जितम् ।।
प्रदक्षिणादिसंयुक्तं नमस्कारपुरःसरम् ।। १३ ।।
नीराजनसमायुक्तमनिर्विण्णेन चेतसा ।।
यामेयामे महाभाग कुर्वन्नीराजनं हरेः ।। १४ ।।
एतैर्गुणैः समायुक्तं कुर्याज्जागरणं विभोः ।।
एकाग्रमनसा यस्तु न पुनर्जायते भुवि ।। १५ ।।
य एवं कुरुते भक्त्या वित्तशाठ्यविवर्जितः ।।
जागरं वासरे विष्णोर्लीयते परमात्मनि ।। १६ ।।
पुरुषसूक्तेन यो नित्यं कार्तिकेऽथार्चयेद्धरिम् ।।
वर्षकोटिसहस्राणि पूजितस्तेन केशवः ।। १७ ।।
यथोक्तेन विधानेन पंचरात्रोदितेन वै ।।
कार्तिके त्वर्चयेन्नित्यं मुक्तिभागी भवेन्नरः ।। १८ ।।
नमो नारायणायेति कार्तिके योर्चयेद्धरिम् ।।
स मुक्तो नारकैर्दुःखैः पदं गच्छत्यनामयम् ।। १९ ।।
हरेर्नामसहस्रं च गजराजस्य मोक्षणम् ।।
कार्तिके पठते यस्तु पुनर्जन्म न विंदति ।। 2.4.33.२० ।।
युगकोटिसहस्राणि मन्वंतरशतानि च ।।
द्वादश्यां कार्तिके मासि जागरी वसते दिवि ।। २१ ।।
कुले तस्य च ये जाताः शतशोथ सहस्रशः ।।
प्राप्नुवंति पदं विष्णोस्तस्मात्कुर्वीत जागरम् ।। २२ ।।
कार्तिके पश्चिमे यामे स्तवं गानं करोति यः ।।
श्वेतद्वीपे तु वसते पितृभिः सह सुव्रत ।। २३ ।।
नैवेद्यदानं हरये कार्तिके दिनसंक्षये ।।
युगानि वसते स्वर्गे तावंति मुनिसत्तमाः ।। २४ ।।
अक्षयं मुनिशार्दूल मालतीकमलार्चनम् ।।
अर्चयेद्देवदेवेशं स याति परमं पदम् ।। २५ ।।
कार्तिके शुक्लपक्षे तु कृत्वा ह्येकादशीं नरः ।।
प्रातर्दत्त्वा शुभान्कुंभान्स याति मम मंदिरम् ।। २६ ।।
अत्रैव तु प्रकर्तव्यः प्रबोधस्तु हरेः खग ।।
हतः शंखासुरो दैत्यो नभसः शुक्लपक्षके ।। २७ ।।
एकादश्यां ततो विष्णुश्चातुर्मास्ये प्रसुप्तवान् ।।
क्षीरांभोधौ जागृतोऽसावेकादश्यां तु कार्तिके ।। २८ ।।
अतः प्रबोधनं कार्यमेकादश्यां तु वैष्णवैः ।।
उत्तिष्ठोत्तिष्ठ गोविंद उत्तिष्ठ गरुडध्वज ।।
उत्तिष्ठ कमलाकांत त्रैलोक्यं मंगलं कुरु ।। २९ ।।
इत्युक्त्वा शंखभेर्यादि प्रातःकाले तु वादयेत् ।।
वीणावेणुमृदंगादि नृत्यगीतादि कारयेत् ।।2.4.33.३०।।
उत्थापयित्वा देवेशं पूजां तस्य विधाय च ।।
सायंकाले प्रकर्तव्यस्तुलस्युद्वाहजो विधिः ।। ३१ ।।
सर्वदैकादशी पुण्या विशेषात्कार्तिकी स्मृता ।।
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।। ।।३२।।
अन्नमाश्रित्य तिष्ठंति संप्राप्ते हरिवासरे।।
स केवलमघं भुंक्ते यो भुंक्ते हरिवासरे ।।३३।।
तस्मात्सर्वप्रयत्नेन कुर्यादेकादशीव्रतम् ।।
न कुर्याद्यदि मोहेन उपवासं नराधमः ।।३४।।
नरके नियतं वासः पितृभिः सह तस्य वै ।।
सूतके मृतके वाऽपि नोपवासं त्यजेद्बुधः।।३५।।
दशमीवेधसंयुक्ता त्याज्या चैकादशी व्रते ।।
गांधार्याऽपि पुरा तस्यामुपवासः कृतो गुह ।। ३६ ।।
तस्याः पुत्रशतं नष्टं तस्मात्तां वधजां त्यजेत् ।।
एकादशीमुपवसेत्स्नानदानपुरःसरम् ।। ३७ ।।
रुक्मांगदोऽपि राजर्षिर्मोहिन्याः संगमेन च ।।
इह लोके सुखं भुक्त्वा चांऽते विष्णुपुरं ययौ ।। ३८ ।। ।।
।। इति प्रबोधोत्सवः ।।
।। अथ द्वादशीमाहात्म्यम् ।। ।।
द्वादशी पुण्यदा प्रोक्ता सर्वाऽघौघविनाशिनी ।।
किं दानैः कि तपोभिश्च किमु पोष्यैर्व्रतैश्च किम् ।। ३९ ।।
किमिष्टैश्चैव पुत्रैश्च द्वादशी येन सेविता ।।
गंगायां चैव दुर्भिक्षे प्रत्यहं कोटिभोजनात् ।। 2.4.33.४० ।।
यत्फलं तदवाप्नोति द्वादश्यामेकभोजनात् ।।
यद्दत्तं चार्हते दानं द्वादश्यां तु सिते शुभे ।। ४१ ।।
सिक्थेसिक्थे च वैकस्य कतिब्राह्मणभोजनम् ।।
तदहं नैव जानामि महिमानं हि सुव्रत ।। ४२ ।।
शालिग्रामशिलादानं यः कुर्याद्द्वादशीदिने ।।
सप्तद्वीपवतीं भूमिं गंगायां च रविग्रहे ।।
दत्त्वा यत्फलमाप्नोति तत्फलं लभते नरः ।।।। ४३ ।।
पंचामृतैस्तु यो विष्णुं भक्त्या संस्नापयेद्द्विज ।।
स सर्वकुलमुद्धृत्य विष्णुलोके महीयते ।। ४४ ।।
शुक्ले कार्तिकमासस्य द्वादश्यां परमोत्सवे ।।
प्रातरारभ्य यः कुर्यात्स्नानदानादिकं तथा ।।
स तु मोक्षमवाप्नोति नाऽत्र कार्या विचारणा ।। ४५ ।।
द्वादश्यां कार्तिके मासि स्नानसंध्यादिकर्म च ।।
कृत्वा दामोदरं पूज्य भक्तिश्रद्धासमन्वितः ।। ४६ ।।
यस्तस्यां सूपनैवेद्यं न ददाति नराधमः ।।
नरके नियतं वासो भवतीत्यनुशुश्रुम ।। ४७ ।।
तस्मात्सूपस्य नैवेद्यं द्वादश्यां कार्तिके शुभे ।।
दद्याद्भक्तियुतो ब्रह्मंश्चान्यथा नरकं व्रजेत् ।। ४८ ।।
यस्तस्यां दंपतीनां तु भोजनं कुरुते नरः ।।
न तस्य फलविश्रांतिर्मया वक्तुं तु शक्यते ।।४९।।
धात्रीच्छायां गतो यस्तु द्वादश्यां पूजयेद्धरिम् ।।
तत्रैव भोजनं यस्तु ब्राह्मणानां तु कारयेत् ।। 2.4.33.५० ।।
स्वयं च तत्र भुंक्ते यः सूपभक्ष्यादिकं तथा ।।
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ।। ।। ५१ ।।
एवं प्रातर्विधायाऽथ पूजां दामोदरस्य हि ।।
रात्रौ पुनः प्रकर्तव्यं पूजाकर्म हरेर्द्विज ।। ५२ ।।
तुलसीसन्निधौ कृत्वा पताकाध्वजशोभितम् ।।
पुष्पमालासमाकीर्णं नानारत्नोपशोभितम् ।। ५३ ।।
मुक्तादामभिराच्छन्नं कृत्वा मंडपमुत्तमम् ।।
पूजयेद्विष्णुमव्यग्रस्तद्गतैकाग्रमानसः ।। ।। ५४ ।।
पंचरात्रोक्तमार्गेण गन्धपुष्पाक्षतादिभिः ।।
नवनीतं दधिक्षीरं तथैव च घनं घृतम् ।। ५५ ।।
विविधैः खाद्यनैवेद्यैर्जलेन च सुगंधिना ।।
युक्तं निवेदयेद्विष्णोस्तांबूलं सलवंगकम् ।। ५६ ।।
पुष्पाणि च विचित्राणि सुगन्धीनि बहूनि च ।।
प्रोक्षयित्वा च विधिवदर्पयित्वा दलैः शुभैः ।। ५७ ।।
तुलस्याश्चापि धात्र्याश्च फलैश्चाऽपि प्रपूजयेत् ।।
नीराजनं ततः कृत्वा मंत्रपुष्पं समर्पयेत् ।। ५८ ।।
अभिषेकं विना सर्वपूजां कृत्वा विधानतः ।।
विष्णोः पूजां समाप्याऽथ ब्राह्मणानां प्रपूजनम् ।। ५९ ।।
कुर्याद्भक्तियुतो विप्र दद्याच्चैव फलादिकम्।।
तांबूलं च ततो दत्त्वा दक्षिणां शक्तितोऽर्पयेत् ।। 2.4.33.६० ।।
ततो वृद्धान्पितॄन्मातॄन् पूजयित्वा विधानतः ।।
ततः स्वयं स्वभार्याभिर्नैवेद्यं भक्षयेत्सुधीः ।। ६१ ।।
इत्येवं तु विधानेन यः कुर्याद्द्वादशीव्रतम् ।।
न तस्य लोकाः क्षीयंते कल्पकोटिशतैरपि ।। ६२ ।।
पुत्रपौत्रैः परिवृतो भुक्त्वा भोगान्मनोहरान् ।।
भोगांते च व्रजेन्मोक्षमतीतकुलसप्तकैः ।। ६३ ।।
तस्मान्नारद माहात्म्यं द्वादश्याः कार्तिकस्य च ।।
न मया शक्यते वक्तुं किमन्यैर्मनुजैरपि ।। ६४ ।।
द्वादश्या ह्युत्तमं पुण्यं माहात्म्यं यः पठेन्नरः ।।
शृणुयाद्वा मुनिश्रेष्ठ स याति परमां गतिम् ।। ६५ ।।
राजर्षिरम्बरीषोऽपि चकारैतद्व्रतं शुभम् ।।
यथाविधि तपोनिष्ठस्तेन मोक्षमवाप्तवान् ।। ६६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये प्रबोधोत्सवद्वादशीतिथिकृत्यवर्णनंनाम त्रयस्त्रिंशोऽध्यायः ।। ३३ ।। ।। छ ।।
टिप्पणी
प्रबोधिन्याः एकादश्याः अन्ये स्थलाः
गरुड १.१२३ ( कार्तिक शुक्ल एकादशी : भीष्म पञ्चक व्रत का निर्देश ; एकादशी, द्वादशी व त्रयोदशी का योग शुभ तथा एकादशी व दशमी का योग आसुरी होने का कथन ), नारद १.१९ ( कार्तिक शुक्ल एकादशी : ध्वजारोपण व्रत ), पद्म ६.३०.९१( कार्तिक शुक्ल एकादशी : संवत्सर दीप व्रत, पुष्कर में देवतालय में राजा व रानी को पूर्वजन्म की स्मृति ), ६.६१ ( कार्तिक शुक्ल एकादशी : प्रबोधिनी नामक एकादशी का माहात्म्य ), ६.९०.१९ ( कार्तिक शुक्ल एकादशी : समुद्र में सुप्त वेदों व विष्णु का प्रबोधन ), ६.१२४ ( कार्तिक शुक्ल एकादशी : प्रबोधिनी नाम, माहात्म्य, भीष्म पञ्चक व्रत का आरम्भ ), स्कन्द ६.१९० ( कार्तिक शुक्ल एकादशी : पंचरात्र का आरम्भ, अन्त में अवभृथस्नानादि ), ६.२३१ ( कार्तिक शुक्ल एकादशी : विष्णु का वृक के ऊपर से उठकर क्षीरसागर को जाना, अशून्यशयन व्रत ), ७.३.१३ ( कार्तिक शुक्ल एकादशी : अम्बरीष द्वारा हृषीकेश की आराधना, ज्ञानयोग व क्रियायोग विषयक उपदेश की प्राप्ति ), लक्ष्मीनारायण १.२६१ ( कार्तिक शुक्ल प्रबोधिनी एकादशी व्रत का माहात्म्य : कर्मचाण्डाल विप्र व राक्षस की मुक्ति )।