अष्टाङ्गहृदयम्/सूत्रस्थानम्/अध्यायः १८

विकिस्रोतः तः
← अध्यायः १७ अष्टाङ्गहृदयम्
सूत्रस्थानम्
अध्यायः १९ →

अध्यायः १८

कफे विदध्याद् वमनं संयोगे वा कफोल्बणे ।
तद्-वद् विरेचनं पित्ते विशेषेण तु वामयेत् ॥ १ ॥

नव-ज्वरातिसाराधः-पित्तासृग्-राज-यक्ष्मिणः ।
कुष्ठ-मेहापची-ग्रन्थि-श्लीपदोन्माद-कासिनः ॥ २ ॥

श्वास-हृल्-लास-वीसर्प-स्तन्य-दोषोर्ध्व-रोगिणः ।
अ-वाम्या गर्भिणी रूक्षः क्षुधितो नित्य-दुःखितः ॥ ३ ॥

१८.३bv -स्तन्य-रोगोर्ध्व-रोगिणः १८.३cv अ-वाम्या गर्भिणी-रूक्ष- १८.३dv -क्षुधिता नित्य-दुःखिताः बाल-वृद्ध-कृश-स्थूल-हृद्-रोगि-क्षत-दुर्-बलाः ।
प्रसक्त-वमथु-प्लीह-तिमिर-कृमि-कोष्ठिनः ॥ ४ ॥

ऊर्ध्व-प्रवृत्त-वाय्व्-अस्र-दत्त-वस्ति-हत-स्वराः ।
मूत्राघात्य् उदरी गुल्मी दुर्-वमो ऽत्य्-अग्निर् अर्शसः ॥ ५ ॥

१८.५av ऊर्ध्व-प्रवृत्त-वातास्र- उदावर्त-भ्रमाष्ठीला-पार्श्व-रुग्-वात-रोगिणः ।
ऋते विष-गरा-जीर्ण-विरुद्धाभ्यवहारतः ॥ ६ ॥

१८.६av उदावर्त-श्रमाष्ठीला- प्रसक्त-वमथोः पूर्वे प्रायेणाम-ज्वरो ऽपि च ।
धूमान्तैः कर्मभिर् वर्ज्याः सर्वैर् एव त्व् अ-जीर्णिनः ॥ ७ ॥

विरेक-साध्या गुल्मार्शो-विस्फोट-व्यङ्ग-कामलाः ।
जीर्ण-ज्वरोदर-गर-च्छर्दि-प्लीह-हलीमकाः ॥ ८ ॥

१८.८cv जीर्ण-ज्वरोदर-च्छर्दि- १८.८dv -प्लीहानाह-हलीमकाः १८.८dv -प्लीह-पाण्डु-हलीमकाः विद्रधिस् तिमिरं काचः स्यन्दः पक्वाशय-व्यथा ।
योनि-शुक्राश्रया रोगाः कोष्ठ-गाः कृमयो व्रणाः ॥ ९ ॥

१८.९cv योनि-शुक्र-गता रोगाः १८.९cv योनि-शुक्राशया रोगाः वातास्रम् ऊर्ध्व-गं रक्तं मूत्राघातः शकृद्-ग्रहः ।
वाम्यश् च कुष्ठ-मेहाद्या न तु रेच्या नव-ज्वरी ॥ १० ॥

१८.१०av वातासृग् ऊर्ध्व-गं रक्तं १८.१०dv न तु रेच्यो नव-ज्वरी अल्पाग्न्य्-अधो-ग-पित्तास्र-क्षत-पाय्व्-अतिसारिणः ।
स-शल्यास्थापित-क्रूर-कोष्ठाति-स्निग्ध-शोषिणः ॥ ११ ॥

१८.११cv स-शल्याभिहत-क्रूर- अथ साधारणे काले स्निग्ध-स्विन्नं यथा-विधि ।
श्वो-वम्यम् उत्क्लिष्ट-कफं मत्स्य-माष-तिलादिभिः ॥ १२ ॥

१८.१२dv मत्स्य-मांस-तिलादिभिः १८.१२dv मांस-माष-तिलादिभिः निशां सुप्तं सु-जीर्णान्नं पूर्वाह्णे कृत-मङ्गलम् ।
निर्-अन्नम् ईषत्-स्निग्धं वा पेयया पीत-सर्पिषम् ॥ १३ ॥

१८.१३av निशां सुप्तं च जीर्णान्नं वृद्ध-बाला-बल-क्लीब-भीरून् रोगानुरोधतः ।
आ-कण्ठं पायितान् मद्यं क्षीरम् इक्षु-रसं रसम् ॥ १४ ॥

१८.१४cv आ-कण्ठं पाययेन् मद्यं यथा-विकार-विहितां मधु-सैन्धव-संयुताम् ।
कोष्ठं विभज्य भैषज्य-मात्रां मन्त्राभिमन्त्रिताम् ॥ १५ ॥

ब्रह्म-दक्षाश्वि-रुद्रेन्द्र-भू-चन्द्रार्कानिलानलाः ।
ऋषयः सौषधि-ग्रामा भूत-संघाश् च पान्तु वः ॥ १६ ॥

रसायनम् इवर्षीणाम् अ-मराणाम् इवामृतम् ।
सुधेवोत्तम-नागानां भैषज्यम् इदम् अस्तु ते ॥ १७ ॥

१८.१७av रसायनम् इवर्षीणां १८.१७bv देवानाम् अमृतं यथा नमो भग-वते भैषज्य-गुरवे वैडूर्य-प्रभ-राजाय ॥ १७+१ ॥

तथा-गतायार्हते सम्यक्-संबुद्धाय ॥ १७+२ ॥

तद् यथा ॥ १७+३ ॥

भैषज्ये भैषज्ये महा-भैषज्ये समुद्गते स्वाहा ॥ १७+४ ॥

१८.१७+४व् भैषज्ये भैषज्ये महा-भैषज्ये भैषज्य-समुद्गते स्वाहा १८.१७+४व् भैषज्ये महा-भैषज्ये समुद्गते स्वाहा प्राङ्-मुखं पाययेत् पीतो मुहूर्तम् अनुपालयेत् ।
तन्-मना जात-हृल्-लास-प्रसेकश् छर्दयेत् ततः ॥ १८ ॥

१८.१८av प्राङ्-मुखं पाययेत् पीतं १८.१८av प्राङ्-मुखं पाययेत् पीते १८.१८dv -प्रसेकं छर्दयेत् ततः अङ्गुलीभ्याम् अन्-आयस्तो नालेन मृदुनाथ-वा ।
गल-ताल्व् अ-रुजन् वेगान् अ-प्रवृत्तान् प्रवर्तयन् ॥ १९ ॥

१८.१९dv ना-प्रवृत्तान् प्रवर्तयन् १८.१९dv ना-प्रवृत्तान् प्रवर्तयेत् १८.१९dv अ-प्रवृत्तान् प्रवर्तयेत् प्रवर्तयन् प्रवृत्तांश् च जानु-तुल्यासने स्थितः ।
उभे पार्श्वे ललाटं च वमतश् चास्य धारयेत् ॥ २० ॥

प्रपीडयेत् तथा नाभिं पृष्ठं च प्रतिलोमतः ।
कफे तीक्ष्णोष्ण-कटुकैः पित्ते स्वादु-हिमैर् इति ॥ २१ ॥

वमेत् स्निग्धाम्ल-लवणैः संसृष्टे मरुता कफे ।
पित्तस्य दर्शनं यावच् छेदो वा श्लेष्मणो भवेत् ॥ २२ ॥

हीन-वेगः कणा-धात्री-सिद्धार्थ-लवणोदकैः ।
वमेत् पुनः पुनस् तत्र वेगानाम् अ-प्रवर्तनम् ॥ २३ ॥

प्रवृत्तिः स-विबन्धा वा केवलस्यौषधस्य वा ।
अ-योगस् तेन निष्ठीव-कण्डू-कोठ-ज्वरादयः ॥ २४ ॥

निर्-विबन्धं प्रवर्तन्ते कफ-पित्तानिलाः क्रमात् ।
सम्यग्-योगे ऽति-योगे तु फेन-चन्द्रक-रक्त-वत् ॥ २५ ॥

१८.२५dv फेन-चन्द्रिक-रक्त-वत् मनः-प्रसादः स्वास्थ्यं चावस्थानं च स्वयं भवेत् ।
वैपरीत्यम् अ-योगानां न चाति-महती व्यथा ॥ २५.१+(१) ॥
१८.२५.१+(१)अव् मनः-प्रसादः स्वास्थ्यं च १८.२५.१+(१)ब्व् अवस्थानं स्वयं भवेत् वमितं क्षाम-ता दाहः कण्ठ-शोषस् तमो भ्रमः ।
घोरा वाय्व्-आमया मृत्युर् जीव-शोणित-निर्गमात् ॥ २६ ॥

सम्यग्-योगेन वमितं क्षणम् आश्वास्य पाययेत् ।
धूम-त्रयस्यान्य-तमं स्नेहाचारम् अथादिशेत् ॥ २७ ॥

ततः सायं प्रभाते वा क्षुद्-वान् स्नातः सुखाम्बुना ।
भुञ्जानो रक्त-शाल्य्-अन्नं भजेत् पेयादिकं क्रमम् ॥ २८ ॥

१८.२८cv पुराण-रक्त-शालीनाम् १८.२८cv भुञ्जानो ऽन्नम् अपेक्षेत १८.२८dv अ-स्नेह-लवणोषणम् १८.२८dv पेयादिकम् इमं क्रमम् १८.२८dv पेयादिकम् इमं क्रमात् १८.२८dv पेयादिकम् अमुं क्रमम् पेयां विलेपीम् अ-कृतं कृतं च यूषं रसं त्रीन् उभयं तथैकम् ।
क्रमेण सेवेत नरो ऽन्न-कालान् प्रधान-मध्यावर-शुद्धि-शुद्धः ॥ २९ ॥

यथाणुर् अग्निस् तृण-गो-मयाद्यैः संधुक्ष्यमाणो भवति क्रमेण ।
महान् स्थिरः सर्व-पचस् तथैव शुद्धस्य पेयादिभिर् अन्तराग्निः ॥ ३० ॥

१८.३०dv शुद्धस्य पेयादिभिर् अन्तर्-अग्निः जघन्य-मध्य-प्रवरे तु वेगाश् चत्वार इष्टा वमने षड् अष्टौ ।
दशैव ते द्वि-त्रि-गुणा विरेके प्रस्थस् तथा स्याद् द्वि-चतुर्-गुणश् च ॥ ३१ ॥

पित्तावसानं वमनं विरेकाद् अर्धं कफान्तं च विरेकम् आहुः ।
द्वि-त्रान् स-विट्कान् अपनीय वेगान् मेयं विरेके वमने तु पीतम् ॥ ३२ ॥

अथैनं वामितं भूयः स्नेह-स्वेदोपपादितम् ।
श्लेष्म-काले गते ज्ञात्वा कोष्ठं सम्यग् विरेचयेत् ॥ ३३ ॥

बहु-पित्तो मृदुः कोष्ठः क्षीरेणापि विरिच्यते ।
प्रभूत-मारुतः क्रूरः कृच्छ्राच् छ्यामादिकैर् अपि ॥ ३४ ॥

कषाय-मधुरैः पित्ते विरेकः कटुकैः कफे ।
स्निग्धोष्ण-लवणैर् वायाव् अ-प्रवृत्तौ तु पाययेत् ॥ ३५ ॥

उष्णाम्बु स्वेदयेद् अस्य पाणि-तापेन चोदरम् ।
उत्थाने ऽल्पे दिने तस्मिन् भुक्त्वान्ये-द्युः पुनः पिबेत् ॥ ३६ ॥

अ-दृढ-स्नेह-कोष्ठस् तु पिबेद् ऊर्ध्वं दशाहतः ।
भूयो ऽप्य् उपस्कृत-तनुः स्नेह-स्वेदैर् विरेचनम् ॥ ३७ ॥

यौगिकं सम्यग् आलोच्य स्मरन् पूर्वम् अतिक्रमम् ।
हृत्-कुक्ष्य्-अ-शुद्धिर् अ-रुचिर् उत्क्लेशः श्लेष्म-पित्तयोः ॥ ३८ ॥

१८.३८bv स्मरन् पूर्वम् अनुक्रमम् कण्डू-विदाहः पिटिकाह् पीनसो वात-विड्-ग्रहः ।
अ-योग-लक्षणं योगो वैपरीत्ये यथोदितात् ॥ ३९ ॥

१८.३९av कण्डू-विदाहः पिटिका विट्-पित्त-कफ-वातेषु निःसृतेषु क्रमात् स्रवेत् ।
निः-श्लेष्म-पित्तम् उदकं श्वेतं कृष्णं स-लोहितम् ॥ ४० ॥

मांस-धावन-तुल्यं वा मेदः-खण्डाभम् एव वा ।
गुद-निःसरणं तृष्णा भ्रमो नेत्र-प्रवेशनम् ॥ ४१ ॥

१८.४१dv श्रमो नेत्र-प्रवेशनम् भवन्त्य् अति-विरिक्तस्य तथाति-वमनामयाः ।
सम्यग्-विरिक्तम् एनं च वमनोक्तेन योजयेत् ॥ ४२ ॥

धूम-वर्ज्येन विधिना ततो वमित-वान् इव ।
क्रमेणान्नानि भुञ्जानो भजेत् प्रकृति-भोजनम् ॥ ४३ ॥

मन्द-वह्निम् अ-संशुद्धम् अ-क्षामं दोष-दुर्-बलम् ।
अ-दृष्ट-जीर्ण-लिङ्गं च लङ्घयेत् पीत-भेषजम् ॥ ४४ ॥

स्नेह-स्वेदौषधोत्क्लेश-सङ्गैर् इति न बाध्यते ।
संशोधनास्र-विस्राव-स्नेह-योजन-लङ्घनैः ॥ ४५ ॥

यात्य् अग्निर् मन्द-तां तस्मात् क्रमं पेयादिम् आचरेत् ।
स्रुताल्प-पित्त-श्लेष्माणं मद्य-पं वात-पैत्तिकम् ॥ ४६ ॥

पेयां न पाययेत् तेषां तर्पणादि-क्रमो हितः ।
अ-पक्वं वमनं दोशान् पच्यमानं विरेचनम् ॥ ४७ ॥

१८.४७bv तर्पणादिः क्रमो हितः १८.४७bv तर्पणादिः क्रमो मतः १८.४७bv तर्पणादि-क्रमो मतः निर्हरेद् वमनस्यातः पाकं न प्रतिपालयेत् ।
दुर्-बलो बहु-दोषश् च दोष-पाकेन यः स्वयम् ॥ ४८ ॥

विरिच्यते भेदनीयैर् भोज्यैस् तम् उपपादयेत् ।
दुर्-बलः शोधितः पूर्वम् अल्प-दोषः कृशो नरः ॥ ४९ ॥

१८.४९bv भोज्यैस् तं समुपाचरेत् अ-परिज्ञात-कोष्ठश् च पिबेन् मृद्व् अल्पम् औषधम् ।
वरं तद् अ-सकृत्-पीतम् अन्य-था संशयावहम् ॥ ५० ॥

१८.५०av वरं तद् अ-सकृत्-पीतं १८.५०bv नान्य-था संशयावहम् हरेद् बहूंश् चलान् दोषान् अल्पान् अल्पान् पुनः पुनः ।
दुर्-बलस्य मृदु-द्रव्यैर् अल्पान् संशमयेत् तु तान् ॥ ५१ ॥

क्लेशयन्ति चिरं ते हि हन्युर् वैनम् अ-निर्हृताः ।
मन्दाग्निं क्रूर-कोष्ठं च स-क्षार-लवणैर् घृतैः ॥ ५२ ॥

१८.५२bv हन्युश् चैनम् अ-निर्हृताः संधुक्षिताग्निं विजित-कफ-वातं च शोधयेत् ।
रूक्ष-बह्व्-अनिल-क्रूर-कोष्ठ-व्यायाम-शीलिनाम् ॥ ५३ ॥

दीप्ताग्नीनां च भैषज्यम् अ-विरेच्यैव जीर्यति ।
तेभ्यो वस्तिं पुरा दद्यात् ततः स्निग्धं विरेचनम् ॥ ५४ ॥

१८.५४cv तेभ्यो वस्तिं पुरो दद्यात् शकृन् निर्हृत्य वा किञ्-चित् तीक्ष्णाभिः फल-वर्तिभिः ।
प्रवृत्तं हि मलं स्निग्धो विरेको निर्हरेत् सुखम् ॥ ५५ ॥

विषाभिघात-पिटिका-कुष्ठ-शोफ-विसर्पिणः ।
कामला-पाण्डु-मेहार्तान् नाति-स्निग्धान् विशोधयेत् ॥ ५६ ॥

१८.५६dv नाति-स्निग्धान् विरेचयेत् सर्वान् स्नेह-विरेकैश् च रूक्षैस् तु स्नेह-भावितान् ।
कर्मणां वमनादीनां पुनर् अप्य् अन्तरे ऽन्तरे ॥ ५७ ॥

१८.५७bv रूक्षैश् च स्नेह-भावितान् स्नेह-स्वेदौ प्रयुञ्जीत स्नेहम् अन्ते बलाय च ।
मलो हि देहाद् उत्क्लेश्य ह्रियते वाससो यथा ॥ ५८ ॥

स्नेह-स्वेदैस् तथोत्क्लिष्टः शोध्यते शोधनैर् मलः ।
स्नेह-स्वेदाव् अन्-अभ्यस्य कुर्यात् संशोधनं तु यः ॥ ५९ ॥

१८.५९av स्नेह-स्वेदैस् तथोत्क्लेश्य १८.५९bv ह्रियते शोधनैर् मलः दारु शुष्कम् इवान्-आमे शरीरं तस्य दीर्यते ॥ ५९ऊ̆अब् ॥
बुद्धि-प्रसादं बलम् इन्द्रियाणां धातु-स्थिर-त्वं ज्वलनस्य दीप्तिम् ।
चिराच् च पाकं वयसः करोति संशोधनं सम्यग्-उपास्यमानम् ॥ ६०ऊ̆ ॥
१८.६०ऊ̆अव् बुद्धेः प्रसादं बलम् इन्द्रियाणां १८.६०ऊ̆ब्व् धातोः स्थिर-त्वं ज्वलनस्य दीप्तिम्