सामग्री पर जाएँ

अष्टाङ्गहृदयम्/सूत्रस्थानम्/अध्यायः १९

विकिस्रोतः तः
← अध्यायः १८ अष्टाङ्गहृदयम्
सूत्रस्थानम्
अध्यायः २० →

अध्यायः १९

वातोल्बणेषु दोषेषु वाते वा वस्तिर् इष्यते ।
उपक्रमाणां सर्वेषां सो ऽग्रणीस् त्रि-विधस् तु सः ॥ १ ॥

१९.१dv सो ऽग्रणीस् त्रि-विधश् च सः निरूहो ऽन्वासनं वस्तिर् उत्तरस् तेन साधयेत् ।
गुल्मानाह-खुड-प्लीह-शुद्धातीसार-शूलिनः ॥ २ ॥

जीर्ण-ज्वर-प्रतिश्याय-शुक्रानिल-मल-ग्रहान् ।
वर्ध्माश्मरी-रजो-नाशान् दारुणांश् चानिलामयान् ॥ ३ ॥

अन्-आस्थाप्यास् त्व् अति-स्निग्धः क्षतोरस्को भृशं कृशः ।
आमातीसारी वमि-मान् संशुद्धो दत्त-नावनः ॥ ४ ॥

श्वास-कास-प्रसेकार्शो-हिध्माध्मानाल्प-वह्नयः ।
शून-पायुः कृताहारो बद्ध-च्छिद्रोदकोदरी ॥ ५ ॥

१९.५dv बद्ध-च्छिद्र-दकोदरी कुष्ठी च मधु-मेही च मासान् सप्त च गर्भिणी ।
आस्थाप्या एव चान्वास्या विशेषाद् अति-वह्नयः ॥ ६ ॥

रूक्षाः केवल-वातार्ता नानुवास्यास् त एव च ।
ये ऽन्-आस्थाप्यास् तथा पाण्डु-कामला-मेह-पीनसाः ॥ ७ ॥

निर्-अन्न-प्लीह-विड्-भेदि-गुरु-कोष्ठ-कफोदराः ।
अभिष्यन्दि-भृश-स्थूल-कृमि-कोष्ठाढ्य-मारुताः ॥ ८ ॥

१९.८bv -गुरु-कोष्ठः कफोदरी १९.८cv अभिष्यन्दि-कृश-स्थूल- पीते विषे गरे ऽपच्यां श्लीपदी गल-गण्ड-वान् ।
तयोस् तु नेत्रं हेमादि-धातु-दार्व्-अस्थि-वेणु-जम् ॥ ९ ॥

गो-पुच्छाकारम् अ-च्छिद्रं श्लक्ष्णर्जु गुटिका-मुखम् ।
ऊने ऽब्दे पञ्च पूर्णे ऽस्मिन्न् आ-सप्तभ्यो ऽङ्गुलानि षट् ॥ १० ॥

सप्तमे सप्त तान्य् अष्टौ द्वा-दशे षो-डशे नव ।
द्वा-दशैव परं विंशाद् वीक्ष्य वर्षान्तरेषु च ॥ ११ ॥

वयो-बल-शरीराणि प्रमाणम् अभिवर्धयेत् ।
स्वाङ्गुष्ठेन समं मूले स्थौल्येनाग्रे कनिष्ठया ॥ १२ ॥

पूर्णे ऽब्दे ऽङ्गुलम् आदाय तद्-अर्धार्ध-प्रवर्धितम् ।
त्र्य्-अङ्गुलं परमं छिद्रं मूले ऽग्रे वहते तु यत् ॥ १३ ॥

मुद्गं माषं कलायं च क्लिन्नं कर्कन्धुकं क्रमात् ।
मूल-च्छिद्र-प्रमाणेन प्रान्ते घटित-कर्णिकम् ॥ १४ ॥

वर्त्याग्रे पिहितं मूले यथा-स्वं द्व्य्-अङ्गुलान्तरम् ।
कर्णिका-द्वितयं नेत्रे कुर्यात् तत्र च योजयेत् ॥ १५ ॥

१९.१५bv यथा-स्वं द्व्य्-अङ्गुलान्तरे १९.१५dv कुर्यात् तत्र प्रयोजयेत् १९.१५dv कुर्यात् तत्र तु योजयेत् अजावि-महिषादीनां वस्तिं सु-मृदितं दृढम् ।
कषाय-रक्तं निश्-छिद्र-ग्रन्थि-गन्ध-सिरं तनुम् ॥ १६ ॥

१९.१६av गो-ऽजावि-महिषादीनां ग्रथितं साधु सूत्रेण सुख-संस्थाप्य-भेषजम् ।
वस्त्य्-अ-भावे ऽङ्क-पादं वा न्यसेद् वासो ऽथ-वा घनम् ॥ १७ ॥

१९.१७av ग्रन्थितं साधु सूत्रेण निरूह-मात्रा प्रथमे प्रकुञ्चो वत्सरे परम् ।
प्रकुञ्च-वृद्धिः प्रत्य्-अब्दं यावत् षट् प्रसृतास् ततः ॥ १८ ॥

१९.१८bv प्रकुञ्चो वत्सरात् परम् प्रसृतं वर्धयेद् ऊर्ध्वं द्वा-दशाष्टा-दशस्य तु ।
आ-सप्ततेर् इदं मानं दशैव प्रसृताः परम् ॥ १९ ॥

१९.१९bv द्वा-दशाष्टा-दशस्य च यथा-यथं निरूहस्य पादो मात्रानुवासने ।
आस्थाप्यं स्नेहितं स्विन्नं शुद्धं लब्ध-बलं पुनः ॥ २० ॥

अन्वासनार्हं विज्ञाय पूर्वम् एवानुवासयेत् ।
शीते वसन्ते च दिवा रात्रौ के-चित् ततो ऽन्य-दा ॥ २१ ॥

१९.२१dv रात्रौ के-चित् ततो ऽन्य-था अभ्यक्त-स्नातम् उचितात् पाद-हीनं हितं लघु ।
अ-स्निग्ध-रूक्षम् अशितं सानु-पानं द्रवादि च ॥ २२ ॥

१९.२२dv सानु-पानं द्रवादि वा कृत-चङ्क्रमणं मुक्त-विण्-मूत्रं शयने सुखे ।
नात्य्-उच्छ्रिते न चोच्-छीर्षे संविष्टं वाम-पार्श्वतः ॥ २३ ॥

संकोच्य दक्षिणं सक्थि प्रसार्य च ततो ऽपरम् ।
अथास्य नेत्रं प्रणयेत् स्निग्धे स्निग्ध-मुखं गुदे ॥ २४ ॥

१९.२४dv स्निग्धं स्निग्ध-मुखे गुदे उच्छ्वास्य वस्तेर् वदने बद्धे हस्तम् अ-कम्पयन् ।
पृष्ठ-वंशं प्रति ततो नाति-द्रुत-विलम्बितम् ॥ २५ ॥

नाति-वेगं न वा मन्दं सकृद् एव प्रपीडयेत् ।
सावशेषं च कुर्वीत वायुः शेषे हि तिष्ठति ॥ २६ ॥

१९.२६cv सावशेषं प्रकुर्वीत दत्ते तूत्तान-देहस्य पाणिना ताडयेत् स्फिजौ ।
तत्-पार्ष्णिभ्यां तथा शय्यां पादतश् च त्रिर् उत्क्षिपेत् ॥ २७ ॥

ततः प्रसारिताङ्गस्य सोपधानस्य पार्ष्णिके ।
आहन्यान् मुष्टिनाङ्गं च स्नेहेनाभ्यज्य मर्दयेत् ॥ २८ ॥

वेदनार्तम् इति स्नेहो न हि शीघ्रं निवर्तते ।
योज्यः शीघ्रं निवृत्ते ऽन्यः स्नेहो ऽ-तिष्ठन्न् अ-कार्य-कृत् ॥ २९ ॥

दीप्ताग्निं त्व् आगत-स्नेहं सायाह्ने भोजयेल् लघु ।
निवृत्ति-कालः परमस् त्रयो यामस् ततः परम् ॥ ३० ॥

अहो-रात्रम् उपेक्षेत परतः फल-वर्तिभिः ।
तीक्ष्णैर् वा वस्तिभिः कुर्याद् यत्नं स्नेह-निवृत्तये ॥ ३१ ॥

अति-रौक्ष्याद् अन्-आगच्छन् न चेज् जाड्यादि-दोष-कृत् ।
उपेक्षेतैव हि ततो ऽध्युषितश् च निशां पिबेत् ॥ ३२ ॥

प्रातर् नागर-धान्याम्भः कोष्णं केवलम् एव वा ।
अन्वासयेत् तृतीये ऽह्नि पञ्चमे वा पुनश् च तम् ॥ ३३ ॥

यथा वा स्नेह-पक्तिः स्याद् अतो ऽत्य्-उल्बण-मारुतान् ।
व्यायाम-नित्यान् दीप्ताग्नीन् रूक्षांश् च प्रति-वासरम् ॥ ३४ ॥

आध्मान-संकोच-पुरीष-बन्ध-क्षीणेन्द्रिय-त्वा-रुचि-भङ्ग-शूलाः ।
पाङ्गुल्य-शाखाश्रित-वात-भग्न-बन्धाश् च साध्या ह्य् अनुवासनेन ॥ ३४+१ ॥

१९.३४+१dv -वाताश् च साध्या ह्य् अनुवासनेन इति स्नेहैस् त्रि-चतुरैः स्निग्धे स्रोतो-विशुद्धये ।
निरूहं शोधनं युञ्ज्याद् अ-स्निग्धे स्नेहनं तनोः ॥ ३५ ॥

पञ्चमे ऽथ तृतीये वा दिवसे साधके शुभे ।
मध्याह्ने किञ्-चिद्-आवृत्ते प्रयुक्ते बलि-मङ्गले ॥ ३६ ॥

अभ्यक्त-स्वेदितोत्सृष्ट-मलं नाति-बुभुक्षितम् ।
अवेक्ष्य पुरुषं दोष-भेषजादीनि चादरात् ॥ ३७ ॥

१९.३७cv अवेत्य पुरुषं दोष- वस्तिं प्रकल्पयेद् वैद्यस् तद्-विद्यैर् बहुभिः सह ।
क्वाथयेद् विंशति-पलं द्रव्यस्याष्टौ फलानि च ॥ ३८ ॥

१९.३८bv तद्-वेद्यैर् बहुभिः सह १९.३८bv तद्-विधैर् बहुभिः सह ततः क्वाथाच् चतुर्थांशं स्नेहं वाते प्रकल्पयेत् ।
पित्ते स्वस्थे च षष्ठांशम् अष्टमांशं कफे ऽधिके ॥ ३९ ॥

१९.३९bv स्नेहं वाते ऽनु कल्पयेत् १९.३९bv स्नेहं वाते तु कल्पयेत् सर्व-त्र चाष्टमं भागं कल्काद् भवति वा यथा ।
नात्य्-अच्छ-सान्द्र-ता वस्तेः पल-मात्रं गुडस्य च ॥ ४० ॥

मधु-पट्व्-आदि-शेषं च युक्त्या सर्वं तद् एकतः ।
उष्णाम्बु-कुम्भी-बाष्पेण तप्तं खज-समाहतम् ॥ ४१ ॥

प्रक्षिप्य वस्तौ प्रणयेत् पायौ नात्य्-उष्ण-शीतलम् ।
नाति-स्निग्धं न वा रूक्षं नाति-तीक्ष्णं न वा मृदु ॥ ४२ ॥

नात्य्-अच्छ-सान्द्रं नोनाति-मात्रं ना-पटु नाति च ।
लवणं तद्-वद् अम्लं च पठन्त्य् अन्ये तु तद्-विदः ॥ ४३ ॥

१९.४३dv वदन्त्य् अन्ये तु तद्-विदः मात्रां त्रि-पलिकां कुर्यात् स्नेह-माक्षिकयोः पृथक् ।
कर्षार्धं माणिमन्थस्य स्वस्थे कल्क-पल-द्वयम् ॥ ४४ ॥

सर्व-द्रवाणां शेषाणां पलानि दश कल्पयेत् ।
माक्षिकं लवणं स्नेहं कल्कं क्वाथम् इति क्रमात् ॥ ४५ ॥

आवपेत निरूहाणाम् एष संयोजने विधिः ।
उत्तानो दत्त-मात्रे तु निरूहे तन्-मना भवेत् ॥ ४६ ॥

कृतोपधानः सञ्जात-वेगश् चोत्कटकः सृजेत् ।
आगतौ परमः कालो मुहूर्तो मृत्यवे परम् ॥ ४७ ॥

१९.४७bv -वेगश् चोत्कटुकः सृजेत् १९.४७bv -वेगश् चोत्कुटकः सृजेत् १९.४७dv मुहूर्तो मृत्यवे परः तत्रानुलोमिकं स्नेह-क्षार-मूत्राम्ल-कल्पितम् ।
त्वरितं स्निग्ध-तीक्ष्णोष्णं वस्तिम् अन्यं प्रपीडयेत् ॥ ४८ ॥

१९.४८av तत्रानुलोमिक-स्नेह- विदद्यात् फल-वर्तिं वा स्वेदनोत्त्रासनादि च ।
स्वयम् एव निवृत्ते तु द्वितीयो वस्तिर् इष्यते ॥ ४९ ॥

१९.४९bv स्वेदनोत्रासनादि वा तृतीयो ऽपि चतुर्थो ऽपि यावद् वा सु-निरूढ-ता ।
विरिक्त-वच् च योगादीन् विद्याद् योगे तु भोजयेत् ॥ ५० ॥

१९.५०bv यावद् वा सु-निरूह-ता १९.५०dv विद्याद् योगे तु योजयेत् कोष्णेन वारिणा स्नातं तनु-धन्व-रसौदनम् ।
विकारा ये निरूढस्य भवन्ति प्रचलैर् मलैः ॥ ५१ ॥

१९.५१av कोष्णेन वारिणा स्नानं १९.५१cv विकारा ये निरूहस्य ते सुखोष्णाम्बु-सिक्तस्य यान्ति भुक्त-वतः शमम् ।
अथ वातार्दितं भूयः सद्य एवानुवासयेत् ॥ ५२ ॥

सम्यग्-धीनाति-योगाश् च तस्य स्युः स्नेह-पीत-वत् ।
किञ्-चित्-कालं स्थितो यश् च स-पुरीषो निवर्तते ॥ ५३ ॥

१९.५३cv किञ्-चित्-कालं स्थितो यस्य सानुलोमानिलः स्नेहस् तत् सिद्धम् अनुवासनम् ।
एकं त्रीन् वा बलासे तु स्नेह-वस्तीन् प्रकल्पयेत् ॥ ५४ ॥

१९.५४dv स्नेह-वस्तीन् प्रयोजयेत् पञ्च वा सप्त वा पित्ते नवैका-दश वानिले ।
पुनस् ततो ऽप्य् अ-युग्मांस् तु पुनर् आस्थापनं ततः ॥ ५५ ॥

कफ-पित्तानिलेष्व् अन्नं यूष-क्षीर-रसैः क्रमात् ।
वात-घ्नौषध-निःक्वाथ-त्रिवृता-सैन्धवैर् युतः ॥ ५६ ॥

वस्तिर् एको ऽनिले स्निग्धः स्वाद्व्-अम्लोष्णो रसान्वितः ।
न्यग्रोधादि-गण-क्वाथ-पद्मकादि-सिता-युतौ ॥ ५७ ॥

१९.५७bv स्वाद्व्-अम्लोष्ण-रसान्वितः पित्ते स्वादु-हिमौ साज्य-क्षीरेक्षु-रस-माक्षिकौ ।
आरग्वधादि-निःक्वाथ-वत्सकादि-युतास् त्रयः ॥ ५८ ॥

रूक्षाः स-क्षौद्र-गो-मूत्रास् तीक्ष्णोष्ण-कटुकाः कफे ।
त्रयस् ते संनिपाते ऽपि दोषान् घ्नन्ति यतः क्रमात् ॥ ५९ ॥

१९.५९cv त्रयश् च संनिपाते ऽपि त्रिभ्यः परं वस्तिम् अतो नेच्छन्त्य् अन्ये चिकित्सकाः ।
न हि दोषश् चतुर्थो ऽस्ति पुनर् दीयेत यं प्रति ॥ ६० ॥

१९.६०av नाचार्य-चरकस्यातो १९.६०bv वस्तिस् त्रिभ्यः परं मतः उत्क्लेशनं शुद्धि-करं दोषाणां शमनं क्रमात् ।
त्रि-धैव कल्पयेद् वस्तिम् इत्य् अन्ये ऽपि प्रचक्षते ॥ ६१ ॥

१९.६१cv त्रि-धैवं कल्पयेद् वस्तिम् दोषौषधादि-बलतः सर्वम् एतत् प्रमाणयेत् ।
सम्यङ्-निरूढ-लिङ्गं तु ना-संभाव्य निवर्तयेत् ॥ ६२ ॥

प्राक् स्नेह एकः पञ्चान्ते द्वा-दशास्थापनानि च ।
सान्वासनानि कर्मैवं वस्तयस् त्रिंशद् ईरिताः ॥ ६३ ॥

कालः पञ्च-दशैको ऽत्र प्राक् स्नेहो ऽन्ते त्रयस् तथा ।
षट् पञ्च-वस्त्य्-अन्तरिता योगो ऽष्टौ वस्तयो ऽत्र तु ॥ ६४ ॥

त्रयो निरूहाः स्नेहाश् च स्नेहाव् आद्य्-अन्तयोर् उभौ ।
स्नेह-वस्तिं निरूहं वा नैकम् एवातिशीलयेत् ॥ ६५ ॥

उत्क्लेशाग्नि-वधौ स्नेहान् निरूहान् मरुतो भयम् ।
तस्मान् निरूढः स्नेह्यः स्यान् निरूह्यश् चानुवासितः ॥ ६६ ॥

स्नेह-शोधन-युक्त्यैवं वस्ति-कर्म त्रि-दोष-जित् ।
ह्रस्वया स्नेह-पानस्य मात्रया योजितः समः ॥ ६७ ॥

मात्रा-वस्तिः स्मृतः स्नेहः शीलनीयः सदा च सः ।
बाल-वृद्धाध्व-भार-स्त्री-व्यायामासक्त-चिन्तकैः ॥ ६८ ॥

१९.६८cv बाल-वृद्धाध्व-भाष्य-स्त्री- वात-भग्ना-बलाल्पाग्नि-नृपेश्वर-सुखात्मभिः ।
दोष-घ्नो निष्-परीहारो बल्यः सृष्ट-मलः सुखः ॥ ६९ ॥

१९.६९bv -नृपैश्वर्य-सुखात्मभिः वस्तौ रोगेषु नारीणां योनि-गर्भाशयेषु च ।
द्वि-त्रास्थापन-शुद्धेभ्यो विदध्याद् वस्तिम् उत्तरम् ॥ ७० ॥

आतुराङ्गुल-मानेन तन्-नेत्रं द्वा-दशाङ्गुलम् ।
वृत्तं गो-पुच्छ-वन् मूल-मद्ययोः कृत-कर्णिकम् ॥ ७१ ॥

सिद्धार्थक-प्रवेशाग्रं श्लक्ष्णं हेमादि-संभवम् ।
कुन्दाश्वमार-सुमनः-पुष्प-वृन्तोपमं दृढम् ॥ ७२ ॥

तस्य वस्तिर् मृदु-लघुर् मात्रा शुक्तिर् विकल्प्य वा ।
अथ स्नाताशीतस्यास्य स्नेह-वस्ति-विधानतः ॥ ७३ ॥

१९.७३bv मात्रा शुक्तिर् विकल्प्य च १९.७३bv मात्रा शुक्तिः प्रकल्प्य वा ऋजोः सुखोपविष्टस्य पीठे जानु-समे मृदौ ।
हृष्टे मेढ्रे स्थिते चर्जौ शनैः स्रोतो-विशुद्धये ॥ ७४ ॥

सूक्ष्मां शलाकां प्रणयेत् तया शुद्धे अनु-सेवनि ।
आ-मेहनान्तं नेत्रं च निष्-कम्पं गुद-वत् ततः ॥ ७५ ॥

१९.७५bv तया शुद्धे अनु-सेवनीम् पीडिते ऽन्तर्-गते स्नेहे स्नेह-वस्ति-क्रमो हितः ।
वस्तीन् अनेन विधिना दद्यात् त्रींश् चतुरो ऽपि वा ॥ ७६ ॥

१९.७६av पीडिते ऽनुगते स्नेहे अनुवासन-वच् छेषं सर्वम् एवास्य चिन्तयेत् ।
स्त्रीणाम् आर्तव-काले तु योनिर् गृह्णात्य् अपावृतेः ॥ ७७ ॥

विदधीत तदा तस्माद् अन्-ऋताव् अपि चात्यये ।
योनि-विभ्रंश-शूलेषु योनि-व्यापद्य् असृग्-दरे ॥ ७८ ॥

नेत्रं दशाङ्गुलं मुद्ग-प्रवेशं चतुर्-अङ्गुलम् ।
अपत्य-मार्गे योज्यं स्याद् द्व्य्-अङ्गुलं मूत्र-वर्त्मनि ॥ ७९ ॥

मूत्र-कृच्छ्र-विकारेषु बालानां त्व् एकम् अङ्गुलम् ।
प्रकुञ्चो मध्यमा मात्रा बालानां शुक्तिर् एव तु ॥ ८० ॥

उत्तानायाः शयानायाः सम्यक् संकोच्य सक्थिनी ।
ऊर्ध्व-जान्वास् त्रि-चतुरान् अहो-रात्रेण योजयेत् ॥ ८१ ॥

वस्तींस् त्रि-रात्रम् एवं च स्नेह-मात्रां विवर्धयन् ।
त्र्य्-अहम् एव च विश्रम्य प्रणिदध्यात् पुनस् त्र्य्-अहम् ॥ ८२ ॥

१९.८२bv स्नेह-मात्रां विवर्धयेत् पक्षाद् विरेको वमिते ततः पक्षान् निरूहणम् ।
सद्यो निरूढश् चान्वास्यः सप्त-रात्राद् विरेचितः ॥ ८३ ॥

यथा कुसुम्भादि-युतात् तोयाद् रागं हरेत् पटः ।
तथा द्रवी-कृताद् देहाद् वस्तिर् निर्हरते मलान् ॥ ८४ ॥

शाखा-गताः कोष्ठ-गताश् च रोगा मर्मोर्ध्व-सर्वावयवाङ्ग-जाश् च ।
ये सन्ति तेषां न तु कश्-चिद् अन्यो वायोः परं जन्मनि हेतुर् अस्ति ॥ ८५ ॥

१९.८५cv ये सन्ति तेषां न हि कश्-चिद् अन्यो विट्-श्लेष्म-पित्तादि-मलोच्चयानां विक्षेप-संहार-करः स यस्मात् ।
तस्याति-वृद्धस्य शमाय नान्यद् वस्तेर् विना भेषजम् अस्ति किञ्-चित् ॥ ८६ ॥

१९.८६av विट्-श्लेष्म-पित्तादि-मलाचयानां १९.८६av विट्-श्लेष्म-पित्तादि-मलाशयानां १९.८६av विण्-मूत्र-पित्तादि-मलाशयानां १९.८६bv विक्षेप-संहार-करो हि वायुः १९.८६dv वस्तेः समं भेषजम् अस्ति यस्मात् तस्माच् चिकित्सार्ध इति प्रदिष्टः कृत्स्ना चिकित्सापि च वस्तिर् एकैः ।
तथा निजागन्तु-विकार-कारि-रक्तौषध-त्वेन सिरा-व्यधो ऽपि ॥ ८७ ॥

१९.८७av तस्माच् चिकित्सार्धम् इति प्रदिष्टः १९.८७bv कृत्स्ना चिकित्सापि च वस्तिर् एके