अष्टाङ्गहृदयम्/सूत्रस्थानम्/अध्यायः ९

विकिस्रोतः तः
← अध्यायः ८ अष्टाङ्गहृदयम्
सूत्रस्थानम्
अध्यायः १० →

अध्यायः ९

द्रव्यम् एव रसादीनां श्रेष्ठं ते हि तद्-आश्रयाः ।
पञ्च-भूतात्मकं तत् तु क्ष्माम् अधिष्ठाय जायते ॥ १ ॥

अम्बु-योन्य्-अग्नि-पवन-नभसाम् समवायतः ।
तन्-निर्वृत्तिर् विशेषश् च व्यपदेशस् तु भूयसा ॥ २ ॥

९.२dv व्यपदेशश् च भूयसा तस्मान् नैक-रसं द्रव्यं भूत-संघात-संभवात् ।
नैक-दोषास् ततो रोगास् तत्र व्यक्तो रसः स्मृतः ॥ ३ ॥

९.३av तन् नैक-भूत-जं द्रव्यं अ-व्यक्तो ऽनु-रसः किञ्-चिद् अन्ते व्यक्तो ऽपि चेष्यते ।
गुर्व्-आदयो गुणा द्रव्ये पृथिव्य्-आदौ रसाश्रये ॥ ४ ॥

रसेषु व्यपदिश्यन्ते साहचर्योपचारतः ।
तत्र द्रव्यं गुरु-स्थूल-स्थिर-गन्ध-गुणोल्बणम् ॥ ५ ॥

पार्थिवं गौरव-स्थैर्य-संघातोपचयावहम् ।
द्रव-शीत-गुरु-स्निग्ध-मन्द-सान्द्र-रसोल्बणम् ॥ ६ ॥

९.६dv -मन्द-सान्द्र-गुणोल्बणम् आप्यं स्नेहन-विष्यन्द-क्लेद-प्रह्लाद-बन्ध-कृत् ।
रूक्ष-तीक्ष्णोष्ण-विशद-सूक्ष्म-रूप-गुणोल्बणम् ॥ ७ ॥

आग्नेयं दाह-भा-वर्ण-प्रकाश-पवनात्मकम् ।
वायव्यं रूक्ष-विशद-लघु-स्पर्श-गुणोल्बणम् ॥ ८ ॥

रौक्ष्य-लाघव-वैशद्य-विचार-ग्लानि-कारकम् ।
नाभसं सूक्ष्म-विशद-लघु-शब्द-गुणोल्बणम् ॥ ९ ॥

९.९bv -विचार-ग्लपनात्मकम् सौषिर्य-लाघव-करं जगत्य् एवम् अन्-औषधम् ।
न किञ्-चिद् विद्यते द्रव्यं वशान् नानार्थ-योगयोः ॥ १० ॥

द्रव्यम् ऊर्ध्व-गमं तत्र प्रायो ऽग्नि-पवनोत्कटम् ।
अधो-गामि च भूयिष्ठं भूमि-तोय-गुणाधिकम् ॥ ११ ॥

इति द्रव्यं रसान् भेदैर् उत्तर-त्रोपदेक्ष्यते ।
वीर्यं पुनर् वदन्त्य् एके गुरु स्निग्धं हिमं मृदु ॥ १२ ॥

९.१२av इति द्रव्यं रसो भेदैर् लघु रूक्षोष्ण-तीक्ष्णं च तद् एवं मतम् अष्ट-धा ।
चरकस् त्व् आह वीर्यं तत् क्रियते येन या क्रिया ॥ १३ ॥

९.१३cv चरकस् त्व् आह वीर्यं तु ९.१३dv येन या क्रियते क्रिया ना-वीर्यं कुरुते किञ्-चित् सर्वा वीर्य-कृता हि सा ।
गुर्व्-आदिष्व् एव वीर्याख्या तेनान्व्-अर्थेति वर्ण्यते ॥ १४ ॥

समग्र-गुण-सारेषु शक्त्य्-उत्कर्ष-विवर्तिषु ।
व्यवहाराय मुख्य-त्वाद् बह्व्-अग्र-ग्रहणाद् अपि ॥ १५ ॥

९.१५av समग्र-गुण-सार-त्वाच् ९.१५bv छक्त्य्-उत्कर्ष-विवर्तनात् अतश् च विपरीत-त्वात् संभवत्य् अपि नैव सा ।
विवक्ष्यते रसाद्येषु वीर्यं गुर्व्-आदयो ह्य् अतः ॥ १६ ॥

उष्णं शीतं द्वि-धैवान्ये वीर्यम् आचक्षते ऽपि च ।
नानात्मकम् अपि द्रव्यम् अग्नी-षोमौ महा-बलौ ॥ १७ ॥

व्यक्ता-व्यक्तं जगद् इव नातिक्रामति जातु चित् ।
तत्रोष्णं भ्रम-तृड्-ग्लानि-स्वेद-दाहाशु-पाकि-ताः ॥ १८ ॥

९.१८av व्यक्ता-व्यक्तं जगद् इदं ९.१८av व्यक्ताव्यक्तं यथा विश्वं शमं च वात-कफयोः करोति शिशिरं पुनः ।
ह्लादनं जीवनं स्तम्भं प्रसादं रक्त-पित्तयोः ॥ १९ ॥

जाठरेणाग्निना योगाद् यद् उदेति रसान्तरम् ।
रसानां परिणामान्ते स विपाक इति स्मृतः ॥ २० ॥

स्वादुः पटुश् च मधुरम् अम्लो ऽम्लं पच्यते रसः ।
तिक्तोषण-कषायाणां विपाकः प्राय-शः कटुः ॥ २१ ॥

रसैर् असौ तुल्य-फलस् तत्र द्रव्यं शुभा-शुभम् ।
किञ्-चिद् रसेन कुरुते कर्म पाकेन चापरम् ॥ २२ ॥

गुणान्तरेण वीर्येण प्रभावेणैव किञ्-च-न ।
यद् यद् द्रव्ये रसादीनां बल-वत्-त्वेन वर्तते ॥ २३ ॥

अभिभूयेतरांस् तत् तत् कारण-त्वं प्रपद्यते ।
विरुद्ध-गुण-संयोगे भूयसाल्पं हि जीयते ॥ २४ ॥

रसं विपाकस् तौ वीर्यं प्रभावस् तान्य् अपोहति ।
बल-साम्ये रसादीनाम् इति नैसर्गिकं बलम् ॥ २५ ॥

९.२५bv प्रभावस् तान् व्यपोहति रसादि-साम्ये यत् कर्म विशिष्टं तत् प्रभाव-जम् ।
दन्ती रसाद्यैस् तुल्यापि चित्रकस्य विरेचनी ॥ २६ ॥

मधुकस्य च मृद्वीका घृतं क्षीरस्य दीपनम् ।
इति सामान्यतः कर्म द्रव्यादीनां पुनश् च तत् ॥ २७ ॥

विचित्र-प्रत्ययारब्ध-द्रव्य-भेदेन भिद्यते ।
स्वादुर् गुरुश् च गोधूमो वात-जिद् वात-कृद् यवः ॥ २८ ॥

उष्णा मत्स्याः पयः शीतं कटुः सिंहो न शूकरः ॥ २८ऊ̆ ॥