अष्टाङ्गहृदयम्/सूत्रस्थानम्/अध्यायः ८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ७ अष्टाङ्गहृदयम्
सूत्रस्थानम्
अध्यायः ९ →

अद्यायः ८

मात्राशी सर्व-कालं स्यान् मात्रा ह्य् अग्नेः प्रवर्तिका ।
मात्रां द्रव्याण्य् अपेक्षन्ते गुरूण्य् अपि लघून्य् अपि ॥ १ ॥

गुरूणाम् अर्ध-सौहित्यं लघूनां नाति-तृप्त-ता ।
मात्रा-प्रमाणं निर्दिष्टं सुखं यावद् विजीर्यति ॥ २ ॥

८.२dv सुखं यावद् धि जीर्यते भोजनं हीन-मात्रं तु न बलोपचयौजसे ।
सर्वेषां वात-रोगाणां हेतु-तां च प्रपद्यते ॥ ३ ॥

अति-मात्रं पुनः सर्वान् आशु दोषान् प्रकोपयेत् ।
पीड्यमाना हि वाताद्या युग-पत् तेन कोपिताः ॥ ४ ॥

८.४cv संपीड्यमाना वाताद्या आमेनान्नेन दुष्टेन तद् एवाविश्य कुर्वते ।
विष्टम्भयन्तो ऽलसकं च्यावयन्तो विषूचिकाम् ॥ ५ ॥

अधरोत्तर-मार्गाभ्यां सहसैवा-जितात्मनः ।
प्रयाति नोर्ध्वं नाधस्-ताद् आहारो न च पच्यते ॥ ६ ॥

आमाशये ऽलसी-भूतस् तेन सो ऽलसकः स्मृतः ।
विविधैर् वेदनोद्भेदैर् वाय्व्-आदि-भृश-कोपतः ॥ ७ ॥

सूचीभिर् इव गात्राणि विध्यतीति विषूचिका ।
तत्र शूल-भ्रमानाह-कम्प-स्तम्भादयो ऽनिलात् ॥ ८ ॥

पित्ताज् ज्वरातिसारान्तर्-दाह-तृट्-प्रलयादयः ।
कफाच् छर्द्य्-अङ्ग-गुरु-ता-वाक्-सङ्ग-ष्ठीवनादयः ॥ ९ ॥

विशेषाद् दुर्-बलस्याल्प-वह्नेर् वेग-विधारिणः ।
पीडितं मारुतेनान्नं श्लेष्मणा रुद्धम् अन्तरा ॥ १० ॥

अलसं क्षोभितं दोषैः शल्य-त्वेनैव संस्थितम् ।
शूलादीन् कुरुते तीव्रांश् छर्द्य्-अतीसार-वर्जितान् ॥ ११ ॥

८.११bv शल्य-त्वेनेव संस्थितम् सो ऽलसो ऽत्य्-अर्थ-दुष्टास् तु दोषा दुष्टाम-बद्ध-खाः ।
यान्तस् तिर्यक् तनुं सर्वां दण्ड-वत् स्तम्भयन्ति चेत् ॥ १२ ॥

दण्डकालसकं नाम तं त्यजेद् आशु-कारिणम् ।
विरुद्धाध्यशना-जीर्ण-शीलिनो विष-लक्षणम् ॥ १३ ॥

आम-दोषं महा-घोरं वर्जयेद् विष-संज्ञकम् ।
विष-रूपाशु-कारि-त्वाद् विरुद्धोपक्रम-त्वतः ॥ १४ ॥

अथामम् अलसी-भूतं साध्यं त्वरितम् उल्लिखेत् ।
पीत्वा सोग्रा-पटु-फलं वार्य् उष्णं योजयेत् ततः ॥ १५ ॥

स्वेदनं फल-वर्तिं च मल-वातानुलोमनीम् ।
नाम्यमानानि चाङ्गानि भृशं स्विन्नानि वेष्टयेत् ॥ १६ ॥

८.१६bv मल-दोषानुलोमनीम् मदनं पिप्पली कुष्ठं वचा गौराश् च सर्षपाः ।
गुड-क्षार-समायुक्ता फल-वर्तिः प्रशस्यते ॥ १६.१+१ ॥

विषूच्याम् अति-वृद्धायां पार्ष्ण्योर् दाहः प्रशस्यते ।
तद्-अहश् चोपवास्यैनं विरिक्त-वद् उपाचरेत् ॥ १७ ॥

तीव्रार्तिर् अपि ना-जीर्णी पिबेच् छूल-घ्नम् औषधम् ।
आम-सन्नो ऽनलो नालं पक्तुं दोषौषधाशनम् ॥ १८ ॥

निहन्याद् अपि चैतेषां विभ्रमः सहसातुरम् ।
जीर्णाशने तु भैषज्यं युञ्ज्यात् स्तब्ध-गुरूदरे ॥ १९ ॥

८.१९bv व्यापत्तिः सहसातुरम् दोष-शेषस्य पाकार्थम् अग्नेः संधुक्षणाय च ।
शान्तिर् आम-विकाराणां भवति त्व् अपतर्पणात् ॥ २० ॥

त्रि-विधं त्रि-विधे दोषे तत् समीक्ष्य प्रयोजयेत् ।
तत्राल्पे लङ्घनं पथ्यं मध्ये लङ्घन-पाचनम् ॥ २१ ॥

८.२१bv तत् समीक्ष्य प्रकल्पयेत् प्रभूते शोधनं तद् धि मूलाद् उन्मूलयेन् मलान् ।
एवम् अन्यान् अपि व्याधीन् स्व-निदान-विपर्ययात् ॥ २२ ॥

चिकित्सेद् अनुबन्धे तु सति हेतु-विपर्ययम् ।
त्यक्त्वा यथा-यथं वैद्यो युञ्ज्याद् व्याधि-विपर्ययम् ॥ २३ ॥

तद्-अर्थ-कारि वा पक्वे दोषे त्व् इद्धे च पावके ।
हितम् अभ्यञ्जन-स्नेह-पान-वस्त्य्-आदि युक्तितः ॥ २४ ॥

८.२४bv दोषे वृद्धे च पावके ८.२४bv दोषे त्व् ऋद्धे तु पावके अ-जीर्णं च कफाद् आमं तत्र शोफो ऽक्षि-गण्डयोः ।
सद्यो-भुक्त इवोद्गारः प्रसेकोत्क्लेश-गौरवम् ॥ २५ ॥

विष्टब्धम् अनिलाच् छूल-विबन्धाध्मान-साद-कृत् ।
पित्ताद् विदग्धं तृण्-मोह-भ्रमाम्लोद्गार-दाह-वत् ॥ २६ ॥

८.२६dv -भ्रमाम्लोद्गार-दाह-कृत् लङ्घनं कार्यम् आमे तु विष्टब्धे स्वेदनं भृशम् ।
विदग्धे वमनं यद् वा यथावस्थं हितं भवेत् ॥ २७ ॥

८.२७dv यथावस्थं हितं भजेत् गरीयसो भवेल् लीनाद् आमाद् एव विलम्बिका ।
कफ-वातानुबद्धाम-लिङ्गा तत्-सम-साधना ॥ २८ ॥

८.२८cv कफ-वातानुविद्धाम- अ-श्रद्धा हृद्-व्यथा शुद्धे ऽप्य् उद्गारे रस-शेषतः ।
शयीत किञ्-चिद् एवात्र सर्वश् चान्-आशितो दिवा ॥ २९ ॥

८.२९dv सर्वश् चान्-अशितो दिवा स्वप्याद् अ-जीर्णी संजात-बुभुक्षो ऽद्यान् मितं लघु ।
विबन्धो ऽति-प्रवृत्तिर् वा ग्लानिर् मारुत-मूढ-ता ॥ ३० ॥

८.३०dv ग्लानिर् मारुत-शूल-ता अ-जीर्ण-लिङ्गं सामान्यं विष्टम्भो गौरवं भ्रमः ।
न चाति-मात्रम् एवान्नम् आम-दोषाय केवलम् ॥ ३१ ॥

द्विष्ट-विष्टम्भि-दग्धाम-गुरु-रूक्ष-हिमा-शुचि ।
विदाहि शुष्कम् अत्य्-अम्बु-प्लुतं चान्नं न जीर्यति ॥ ३२ ॥

उपतप्तेन भुक्तं च शोक-क्रोध-क्षुद्-आदिभिः ।
मिश्रं पथ्यम् अ-पथ्यं च भुक्तं समशनं मतम् ॥ ३३ ॥

८.३३bv शोक-क्रोध-क्षुधादिभिः ८.३३bv क्रोध-शोक-भयादिभिः विद्याद् अध्यशनं भूयो भुक्तस्योपरि भोजनम् ।
अ-काले बहु चाल्पं वा भुक्तं तु विषमाशनम् ॥ ३४ ॥

त्रीण्य् अप्य् एतानि मृत्युं वा घोरान् व्याधीन् सृजन्ति वा ।
काले सात्म्यं शुचि हितं स्निग्धोष्णं लघु तन्-मनाः ॥ ३५ ॥

षड्-रसं मधुर-प्रायं नाति-द्रुत-विलम्बितम् ।
स्नातः क्षुद्-वान् विविक्त-स्थो धौत-पाद-कराननः ॥ ३६ ॥

तर्पयित्वा पितॄन् देवान् अतिथीन् बालकान् गुरून् ।
प्रत्यवेक्ष्य तिरश्चो ऽपि प्रतिपन्न-परिग्रहान् ॥ ३७ ॥

समीक्ष्य सम्यग् आत्मानम् अ-निन्दन्न् अ-ब्रुवन् द्रवम् ।
इष्टम् इष्टैः सहाश्नीयाच् छुचि-भक्त-जनाहृतम् ॥ ३८ ॥

भोजनं तृण-केशादि-जुष्टम् उष्णी-कृतं पुनः ।
शाकावरान्न-भूयिष्ठम् अत्य्-उष्ण-लवणं त्यजेत् ॥ ३९ ॥

किलाट-दधि-कूचीका-क्षार-शुक्ताम-मूलकम् ।
कृश-शुष्क-वराहावि-गो-मत्स्य-महिषामिषम् ॥ ४० ॥

८.४०bv -क्षार-शुक्ताम्ल-मूलकम् माष-निष्पाव-शालूक-बिस-पिष्ट-विरूढकम् ।
शुष्क-शाकानि यवकान् फाणितं च न शीलयेत् ॥ ४१ ॥

८.४१bv -तिल-पिष्ट-विरूढकम् शीलयेच् छालि-गोधूम-यव-षष्टिक-जाङ्गलम् ।
सुनिषण्णक-जीवन्ती-बाल-मूलक-वास्तुकम् ॥ ४२ ॥

पथ्यामलक-मृद्वीका-पटोली-मुद्ग-शर्कराः ।
घृत-दिव्योदक-क्षीर-क्षौद्र-दाडिम-सैन्धवम् ॥ ४३ ॥

त्रि-फलां मधु-सर्पिर्भ्यां निशि नेत्र-बलाय च ।
स्वास्थ्यानुवृत्ति-कृद् यच् च रोगोच्छेद-करं च यत् ॥ ४४ ॥

बिसेक्षु-मोच-चोचाम्र-मोदकोत्कारिकादिकम् ।
अद्याद् द्रव्यं गुरु स्निग्धं स्वादु मन्दं स्थिरं पुरः ॥ ४५ ॥

विपरीतम् अतश् चान्ते मध्ये ऽम्ल-लवणोत्कटम् ।
अन्नेन कुक्षेर् द्वाव् अंशौ पानेनैकं प्रपूरयेत् ॥ ४६ ॥

आश्रयं पवनादीनां चतुर्थम् अवशेषयेत् ।
अनु-पानं हिमं वारि यव-गोधूमयोर् हितम् ॥ ४७ ॥

दध्नि मद्ये विषे क्षौद्रे कोष्णं पिष्ट-मयेषु तु ।
शाक-मुद्गादि-विकृतौ मस्तु-तक्राम्ल-काञ्जिकम् ॥ ४८ ॥

८.४८bv कोष्णं पिष्ट-मयेषु च सुरा कृशानां पुष्ट्य्-अर्थं स्थूलानां तु मधूदकम् ।
शोषे मांस-रसो मद्यं मांसे स्व्-अल्पे च पावके ॥ ४९ ॥

८.४९bv स्थूलानां च मधूदकम् ८.४९dv मांसेष्व् अल्पे च पावके व्याध्य्-औषधाध्व-भाष्य-स्त्री-लङ्घनातप-कर्मभिः ।
क्षीणे वृद्धे च बाले च पयः पथ्यं यथामृतम् ॥ ५० ॥

८.५०av व्याध्य्-औषधाध्व-भार-स्त्री- विपरीतं यद् अन्नस्य गुणैः स्याद् अ-विरोधि च ।
अनु-पानं समासेन सर्व-दा तत् प्रशस्यते ॥ ५१ ॥

अनु-पानं करोत्य् ऊर्जां तृप्तिं व्याप्तिं दृढाङ्ग-ताम् ।
अन्न-संघात-शैथिल्य-विक्लित्ति-जरणानि च ॥ ५२ ॥

नोर्ध्व-जत्रु-गद-श्वास-कासोरः-क्षत-पीनसे ।
गीत-भाष्य-प्रसङ्गे च स्वर-भेदे च तद् धितम् ॥ ५३ ॥

प्रक्लिन्न-देह-मेहाक्षि-गल-रोग-व्रणातुराः ।
पानं त्यजेयुः सर्वश् च भाष्याध्व-शयनं त्यजेत् ॥ ५४ ॥

पीत्वा भुक्त्वातपं वह्निं यानं प्लवन-वाहनम् ॥ ५५अब् ॥
प्रसृष्टे विण्-मूत्रे हृदि सु-वि-मले दोषे स्व-पथ-गे ॥ ५५च् ॥
विशुद्धे चोद्गारे क्षुद्-उपगमने वाते ऽनुसरति ॥ ५५द् ॥
तथाग्नाव् उद्रिक्ते विशद-करणे देहे च सु-लघौ ॥ ५५ए ॥
प्रयुञ्जीताहारं विधि-नियमितं कालः स हि मतः ॥ ५५f ॥
८.५५fव् प्रयुञ्जीताहारं विधि-नियमितः कालः स हि मतः