शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ३/सुपर्णचितिः

विकिस्रोतः तः

१०.३.१

प्राणो गायत्री चक्षुरुष्णिग्वागनुष्टुम्मनो बृहती श्रोत्रं पङ्क्तिर्य एवायं प्रजननः प्राण एष त्रिष्टुबथ योऽयमवाङ्प्राण एष जगती तानि वा एतानि सप्त छन्दांसि चतुरुत्तराण्यग्नौ क्रियन्ते - १०.३.१.१

प्राणो गायत्रीति तद्य एव प्राणस्य महिमा यद्वीर्यं तदेतत्सहस्रं प्राणस्यैवैतद्वीर्यं यद्ध्यस्य चिन्वतः प्राण उत्क्रामेत्तत एवैषोऽग्निर्न चीयेतैतेनैवास्य रूपेण सहस्रमेष गायत्रीः संचितो भवति - १०.३.१.२

चक्षुरुष्णिगिति तद्य एव चक्षुषो महिमा यद्वीर्यं तदेतत्सहस्रं चक्षुष एवैतद्वीर्यं यद्ध्यस्य चिन्वतश्चक्षुरुत्क्रामेत्तत एवैषोऽग्निर्न चीयेतैतेनैवास्य रूपेण सहस्रमेष उष्णिहः संचितो भवति - १०.३.१.३

वागनुष्टुबिति तद्य एव वाचो महिमा यद्वीर्यं तदेतत्सहस्रं वाच एवैतद्वीर्यं यद्ध्यस्य चिन्वतो वागुत्क्रामेत्तत एवैषोऽग्निर्न चीयेतैतेनैवास्य रूपेण सहस्रमेषोऽनुष्टुभः संचितो भवति - १०.३.१.४

मनो बृहतीति तद्य एव मनसो महिमा यद्वीर्यं तदेतत्सहस्रं मनस एवैतद्वीर्यं यद्ध्यस्य चिन्वतो मन उत्क्रामेत्तत एवैषोऽग्निर्न चीयेतैतेनैवास्य रूपेण सहस्रमेष बृहतीः संचितो भवति - १०.३.१.५

श्रोत्रं पङ्क्तिरिति तद्य एव श्रोत्रस्य महिमा यद्वीर्यं तदेतत्सहस्रं श्रोत्रस्यैवैतद्वीर्यं यद्ध्यस्य चिन्वतः श्रोत्रमुत्क्रामेत्तत एवैषोऽग्निर्न चीयेतैतेनैवास्य रूपेण सहस्रमेष पङ्क्तीः संचितो भवति - १०.३.१.६

य एवायं प्रजननः प्राणः एष त्रिष्टुबिति तद्य एवैतस्य प्राणस्य महिमा यद्वीर्यं तदेतत्सहस्रमेतस्यैवैतत्प्राणस्य वीर्यं यद्ध्यस्य चिन्वत एष प्राण आलुभ्येत्तत एवैषोऽग्निर्न चीयेतैतेनैवास्य रूपेण सहस्रमेष त्रिष्टुभः संचितो भवति - १०.३.१.७

अथ योऽयमवाङ्प्राणः। एष जगतीति तद्य एवैतस्य प्राणस्य महिमा यद्वीर्यं तदेतत्सहस्रमेतस्यैवैतत्प्राणस्य वीर्यं यद्ध्यस्य चिन्वत एष प्राण आलुभ्येत्तत एवैषोऽग्निर्न चीयेतैतेनैवास्य रूपेण सहस्रमेष जगतीः संचितो भवति - १०.३.१.८

तानि वा एतानि सप्त च्छन्दांसि चतुरुत्तराण्यन्योऽन्यस्मिन्प्रतिष्ठितानि सप्तेमे पुरुषे प्राणा अन्योऽन्यस्मिन्प्रतिष्ठितास्तद्यावन्तमेवंविच्छन्दसां गणमन्वाह च्छन्दसश्छन्दसो हैवास्य सोऽनूक्तो भवति स्तुतो वा शस्तो वोपहितो वा - १०.३.१.९