शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ५

विकिस्रोतः तः


१. सौमिकवेदिकरणम्

१ सौमिकवेदिकरणोपक्रमः, दक्षिणोत्तरयोः श्रोण्योः प्रमाणकथनं, प्राक्प्रत्यगाया- मावधिप्रदर्शनं, दक्षिणोत्तरयोरंसयोः प्रदर्शनं, प्राक्पश्चान्मानस्य प्रशंसनं पश्चान्माने पक्षान्तरकथनं च प्रामायामावधेः प्रशंसनम्, अंसयोः प्रमाणप्रशंसनं, श्रोणिभागस्योरुत्वस्यांसभागस्य ह्रस्वत्वस्य च प्रशंसनं, सार्थवादमुत्तरवेदिनिर्माण- विधानम्, उत्तरवेदिव्याघारणार्थमाख्यायिकाकथनं, तस्यां च प्रसंगात्सद्यः क्रीशब्दव्युत्पत्तिपुरःसरम् तदाख्ययागस्य दक्षिणाकथनम्, उत्तरवेदिव्याघारण- विधानम्, उत्तरवेद्या मानादिसाधनभूतद्रव्यविधानम्, प्रासंगिकम् किंचननियमविधानम् शम्यास्फ्ययोरादानपूर्वकम् सप्रकारकमुत्तरार्द्धशङ्कोः प्रत्यक्प्रक्रमे पूर्वेणोत्करम् सञ्चरम् परिहाप्य वेति विकल्पेन चात्वालस्य संपादनकथनम्, समंत्रं चात्वालस्य सर्वतः परिलेखनप्रकारकथनं, खाताया मृदश्चात्वालादुत्तरवेदिं प्रति प्रहरणादिप्रकारयुतं हरणविधानम् तन्मंत्रतदर्थविवरणञ्च, सार्थवादम् समंत्रंचानीताया मृदो- वेद्याकारेण स्थापनविधानम्, वेद्याः समंत्रकमनुव्यूहन ( मृत्प्रसारण) विधानं तन्मंत्रतात्पर्याभिधानं च, वेद्याः करणे युगमात्रीत्वरूपमानान्तरविधानम्, सप्र- योजनम् मध्ये नाभिकरणविधानं, मंत्रमंत्रार्थसहितवेद्या अद्भिरभ्युक्षणविधानं चेति


२. उत्तरवेद्यां अग्निप्रणयनम्

२ उत्तरवेद्यामग्निप्रणयनप्रयोगस्य सेतिकर्तव्यताकम् विधानम्, तत्र रेखानुगति- विषये कस्यचित्पक्षमुपन्यस्य व्यवच्छेदपरिहारार्थं प्रयोजनाभावहेतुकम् तन्निरा- करणम्, उत्तरवेद्या मंत्रतदर्थविवरणसहितम् सप्रऽकारकम्, प्रोक्षणीभिः प्रोक्षणविधानं तत्र निनयनमंत्रेऽभिचारिकमंत्रभेददर्शनं च, सप्रकारकम् समंत्रमुत्तरवेदेर्व्याघारण-कथनम्, मंत्रतदर्थविवरणसहितं पैतु दारवपरिधिपरिधानकथनम्, गुग्गुलुसु न्धितेजनादिसम्भारस्य समंत्रकमुपनिवपनविधानम् चेत्यादि


३. हविर्धानकर्म

३ हविर्धानकर्म सदोहविर्धानादिकम् विधातुं तेषां पुरुषाकारसन्निवेशत्वकथन सार्थवादं सदोहविर्धाननामनिरुक्तियुत हविर्धानस्य सदसयज्ञस्योदरत्वे यज्ञशिरस्त्वे च हेतुकथनम्, सप्रकारकम् सदोहविर्धानयोर्निर्माणविधानं, सधर्मकम् मंत्रमंत्रार्थ- युतं हविर्धानप्रवर्तनाभ्यनुज्ञापनस्य सावित्राज्यहोमस्य विधानम्, सधर्मकम् मन्त्रमन्त्रार्थयुतमध्वर्युकर्तृकस्य दक्षिणहविर्धानशकटवर्त्महोमस्य विधानम्, पत्न्या हुताज्यशेषेणाक्षधुरोः समंत्रकमञ्जनविधानं, पत्न्याः समंततः पर्याणयनविधानं, प्रतिप्रस्थातृकस्योत्तरहविर्धानशकटवर्त्महोमस्य सधर्मकं मन्त्रतदर्थविवरणसहितं विधानं, पूर्वपत्नीकर्तृकाञ्जनादेर्विधानं, मार्गहोमस्य रक्षसा मार्गानुगमनपरिहारसाधनत्वेन प्रशंसनं, पत्नीकर्तृकाभ्यंजनादः प्रशंसनं, मन्त्रव्याख्यानयुतं प्रायश्चित्तरूपस्य वाचनस्य विधानं, हविर्धानयोः स्थापनप्रदेशविषये कस्यचित् पक्षनिरूपणं, मन्त्रतद्व्याख्यानयुतं हविर्धानयोरभिमन्त्रणविधानं, क्रमादध्वर्युप्रतिकर्तृकस्य दक्षिणोत्तरहविर्धानयोरुपस्तम्भनस्य समन्त्रकविधानं, मध्यमं छदिमुपस्पृश्य वाचनविधानं, वाचनमन्त्रस्याधियज्ञपरतया व्याख्यानं, सार्थवादं रराट्यामुपस्पृश्य वाचनविधानं, छदिषां सीवनप्रकारसहितं सप्रयोजनं ग्रंथिकरणविधानं चेति


४. उपरवविधिः

४ उपरवविधिः-तत्रोपरवखननस्य प्रयोजनद्वयवत्त्वकथनं; खननप्रदेशनिर्देशपुरः सरं खननार्थं समन्त्रकमभ्यादानविधानं, उपरवाणां समन्त्रकं परिलेखनविधानं, मन्त्रमन्त्रार्थयुतं सक्रममुपरवाख्यावटखनने प्रकारद्वयकथनं, खाताया मृदः समंत्रकं यथाखातमुत्किरणविधानं, खननस्य परिमाणकथनं, यथाखातं समंत्रकावमर्शनविधानं, सार्थवादं पूर्वयोरपरयोरुपरवयोः स्वस्वदिशं स्थित्वाऽध्वर्युयजमानयोर्भद्राशंसनसहिताऽन्योऽन्य हस्तसंस्पर्शस्य विधानं, सार्थवादं समन्त्रं प्रतिगर्तं प्रेक्षणविधानं, सार्थवादा प्रोक्षणीशेषप्रति-पत्तिः, सार्थवादयोः समन्त्रयोरवनयना- वस्तरणयोः सप्रकारकं विधानं , तत्राधिषवणयोः फलकयोः समन्त्रकं निधानकथनं तयोर्मृदा दृढीकरणविधानं. समंत्रकं सहेतुकमधिषवणचर्मणि अभिषवसाधनभूतानां पञ्चानां ग्राव्णामुपावहरण- विधानं चेत्यादि