शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ५/सौमिकवेदिकरणम्

विकिस्रोतः तः
Jump to navigation Jump to search


३.५.१

तद्य एष पूर्वार्ध्यो वर्षिष्ठ स्थूणाराजो भवति । तस्मात्प्राङ्प्रक्रामति त्रीन्विक्रमांस्तच्छङ्कुं निहन्ति सोऽन्तःपातः - ३.५.१.[१]

तस्मान्मध्यमाच्छङ्कोः । दक्षिणा पञ्चदश विक्रमान्प्रक्रामति तच्छङ्कुं निहन्ति सा दक्षिणा श्रोणिः - ३.५.१.[२]

तस्मान्मध्यमाच्छङ्कोः उदङ्पञ्चदश विक्रमान्प्रक्रामति तच्छङ्कुं निहन्ति सोत्तरा श्रोणिः - ३.५.१.[३]

तस्मान्मध्यमाच्छङ्कोः । प्राङ्षट्त्रिंशतं विक्रमान्प्रक्रामति तच्छङ्कुं निहन्ति स पूर्वार्धः - ३.५.१.[४]

तस्मान्मध्यमाच्छङ्कोः । दक्षिणा द्वादश विक्रमान्प्रक्रामति तच्छङ्कुं निहन्ति स दक्षिणोंऽसः - ३.५.१.[५]

तस्मान्मध्यमाच्छङ्कोः । उदङ्द्वादश विक्रमान्प्रक्रामति तच्छङ्कुं निहन्ति स उत्तरोंऽस एषा मात्रा वेदेः - ३.५.१.[६]

अथ यत्त्रिंशद्विक्रमा पश्चाद्भवति । त्रिंशदक्षरा वै विराड् विराजा वै देवा अस्मिंलोके प्रत्यतिष्ठंस्तथो एवैष एतद्विराजैवास्मिंलोके प्रतितिष्ठति - ३.५.१.[७]

अथो अपि त्रयस्त्रिंशत्स्युः । त्रयस्त्रिंशदक्षरा वै विराड्विराजैवास्मिंलोके प्रतितिष्ठति - ३.५.१.[८]

अथ यत्षट्त्रिंशद्विक्रमा प्राची भवति । षट्त्रिंशदक्षरा वै बृहती बृहत्या वै देवाः स्वर्गं लोकं समाश्नुवत तथो एवैष एतद्बृहत्यैव स्वर्गं लोकं समश्नुते सोऽस्य दिव्याहवनीयो भवति - ३.५.१.[९]

अथ यच्चतुर्विंशतिविक्रमा पुरस्ताद्भवति । चतुर्विंशत्यक्षरा वै गायत्री पूर्वार्धो वै यज्ञस्य गायत्री पूर्वार्द्ध एष यज्ञस्य तस्माच्चतुर्विंशतिविक्रमा पुरस्ताद्भवत्येषा मात्रा वेदेः - ३.५.१.[१०]

अथ यत्पश्चाद्वरीयसी भवति । पश्चाद्वरीयसी पृथुश्रोणिरिति वै योषां प्रशंसन्ति यद्वेव पश्चाद्वरीयसी भवति पश्चादेवैतद्वरीयः प्रजननं करोति तस्मात्पश्चाद्वरीयसः प्रजननादिमाः प्रजाः प्रजायन्ते - ३.५.१.[११]

नासिका ह वा एषा यज्ञस्य यदुत्तरवेदिः । अथ यदेनामुत्तरां वेदेरुपकिरति तस्मादुत्तरवेदिर्नाम - ३.५.१.[१२]

द्वय्यो ह वा इदमग्रे प्रजा आसुः । आदित्याश्चैवाङ्गिरसश्च ततोऽङ्गिरसः पूर्वे यज्ञं समभरंस्ते यज्ञं सम्भृत्योचुरग्निमिमां नः श्वःसुत्यामादित्येभ्यः प्रब्रूह्यनेन नो यज्ञेन याजयतेति - ३.५.१.[१३]

ते हादित्या ऊचुः । उपजानीत यथास्मानेवाङ्गिरसो याजयान्न वयमङ्गिरस इति - ३.५.१.[१४]

ते होचुः । न वा अन्येन यज्ञादपक्रमणमस्त्यन्तरामेव सुत्यां ध्रियामहा इति ते यज्ञं संजह्रुस्ते यज्ञं सम्भृत्योचुः श्वःसुत्यां वै त्वमस्मभ्यमग्ने प्रावोचोऽथ वयमद्यसुत्यामेव तुभ्यं प्रब्रूमोऽङ्गिरोभ्यश्च तेषां नस्त्वं होताऽसीति - ३.५.१.[१५]

तेऽन्यमेव प्रतिप्रजिघ्युः । अङ्गिरसोऽच्छ ते हाप्यङ्गिरसोऽग्नयेऽन्वागत्य चुक्रुधुरिव कथं नु नो दूतश्चरन्न प्रत्यादृथा इति - ३.५.१.[१६]

स होवाच । अनिन्द्या वै माऽवृषत सोऽनिन्द्यैर्वृतो नाशकमपक्रमितुमिति तस्मादु हानिन्द्यस्य वृतो नापक्रामेत्त एतेन सद्यःक्रियाङ्गिरस आदित्यानयाजयन्त्स सद्यःक्रीः - ३.५.१.[१७]

तेभ्यो वाचं दक्षिणामानयन् । तां न प्रत्यगृह्णन्हास्यामहे यदि प्रतिग्रहीष्याम इति तदु तद्यज्ञस्य कर्म न व्यमुच्यत यद्दाक्षिणमासीत् - ३.५.१.[१८]

अथैभ्यः सूर्यं दक्षिणामानयन् । तं प्रत्यगृह्णंस्तस्मादु ह स्माहुरङ्गिरसो वयं वा ऽआर्त्विजीनाः स्मो वयं दक्षिणीया अपि वा अस्माभिरेष प्रतिगृहीतो यऽएष तपतीति तस्मात्सद्यःक्रियोऽश्वः श्वेतो दक्षिणा - ३.५.१.[१९]

तस्य रुक्मः पुरस्ताद्भवति । तदेतस्य रूपं क्रियते य एष तपति यद्यश्वं श्वेतं न विन्देदपि गौरेव श्वेतः स्यात्तस्य रुक्मः पुरस्ताद्भवति तदेतस्य रूपं क्रियते य एष तपति - ३.५.१.[२०]

तेभ्यो ह वाक्चुक्रोध । केन मदेष श्रेयान्बन्धुना केना यदेतम्प्रत्यग्रहीष्ट न मामिति सा हैभ्योऽपचक्राम सोभयानन्तरेण देवासुरान्त्संयत्तान्त्सिंही भूत्वाऽऽददाना चचार तामुपैव देवा अमन्त्रयन्तोपासुरा अग्निरेव देवानां दूत आस सहरक्षा इत्यसुररक्षसामसुराणाम् - ३.५.१.[२१]

सा देवानुपावर्त्स्यन्त्युवाच । यद्वा उपावर्तेय किं मे ततः स्यादिति पूर्वामेव त्वाग्नेराहुतिः प्राप्स्यतीत्यथ हैषा देवानुवाच यां मया कां चाशिषमाशासिष्यध्वे सा वः सर्वा समर्धिष्यत इति सैवं देवानुपाववर्त - ३.५.१.[२२]

स यद्धार्यमाणेऽग्नौ । उत्तरवेदिं व्याघारयति यदेवैनामदो देवा अब्रुवन्पूर्वां त्वाग्नेराहुतिः प्राप्स्यतीति तदेवैनामेतत्पूर्वामग्नेराहुतिः प्राप्नोति वाग्घ्येषा निदानेनाथ यदुत्तरवेदिमुपकिरति यज्ञस्यैव सर्वत्वाय वाग्घि यज्ञो वागु ह्येषा - ३.५.१.[२३]

तां वै युगशम्येन विमिमीते । युगेन यत्र हरन्ति शम्यया यतो हरन्ति युगशम्येन वै योग्यं युञ्जन्ति सा यदेवादः सिंही भूत्वा शान्तेवाचरत्तदेवैनामेतद्यज्ञे युनक्ति - ३.५.१.[२४]

तस्मान्निवृत्तदक्षिणां न प्रतिगृह्णीयात् । सिंही हैनं भूत्वा क्षिणोति नो हामा कुर्वीत सिंही हैवैनं भूत्वा क्षिणोति नो हान्यस्मै दद्याद्यज्ञं तदन्यत्रात्मनः कुर्वीत तस्माद्योऽस्यापि पाप इव समानबन्धुः स्यात्तस्मा एनां दद्यात्स यद्ददाति तदेनं सिंही भूत्वा न क्षिणोति यदु समानबन्धवे ददाति तदु नान्यत्रात्मनः कुरुत एषो निवृत्तदक्षिणायै प्रतिष्ठा - ३.५.१.[२५]

अथ शम्यां च स्फ्यं चादत्ते । तद्य एष पूर्वार्ध्यः उत्तरार्ध्यः शङ्कुर्भवति तस्मात्प्रत्यङ्प्रक्रामति त्रीन्विक्रमांस्तच्चात्वालं परिलिखति सा चात्वालस्य मात्रा नात्र मात्राऽस्ति यत्रैव स्वयं मनसा मन्येताग्रेणोत्करं तच्चात्वालं परिलिखेत् - ३.५.१.[२६]

स वेद्यन्तात् । उदीचीं शम्यां निदधाति (द्र. का.श्रौ.सू. ५.३.२० , वा.सं. ५.९ महीधरभा.) स परिलिखति तप्तायनी मेऽसीतीमामेवैतदाहास्यां हि तप्त एति - ३.५.१.[२७]

अथ पुरस्तात् । उदीचीं शम्यां निदधाति स परिलिखति वित्तायनी मेऽसीतीमामेवैतदाहास्यां हि विविदान एति - ३.५.१.[२८]

अथानुवेद्यन्तम् । प्राचीं शम्यां निदधाति स परिलिखत्यवतान्मा नाथितादितीमामेवैतदाह यत्र नाथै तन्मावतादिति- ३.५.१.[२९]

अथोत्तरतः । प्राचीं शम्यां निदधाति स परिलिखत्यवतान्मा व्यथितादितीमामेवैतदाह यत्र व्यथै तन्माऽवतादिति - ३.५.१.[३०]

अथ हरति । यत्र हरति तदग्नीदुपसीदति स वा अग्नीनामेव नामानि गृह्णन्हरति यान्वा अमून्देवा अग्रेऽग्नीन्होत्राय प्रावृणत ते प्राधन्वंस्त इमा एव पृथिवीरुपासर्पन्निमामहैव द्वे अस्याः परे तेनैवैतान्निदानेन हरति - ३.५.१.[३१]

स प्रहरति विदेदग्निर्नभो नामाग्ने अङ्गिर आयुना नाम्नेहीति स यत्प्राधन्वंस्तदायुर्दधाति तत्समीरयति योऽस्यां पृथिव्यामसीति योऽस्याम्पृथिव्यामसीति हृत्वा निदधाति यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वाऽऽदध इति यत्तेऽनाधृष्टं रक्षोभिर्नाम यज्ञियं तेन त्वाऽऽदध इत्येवैतदाहानु त्वा देववीतय इति चतुर्थं हरति देवेभ्यस्त्वा जुष्टां हरामीत्येवैतदाह तां वै चतुःस्रक्तेश्चात्वालाद्धरति चतस्रो वै दिशः सर्वाभ्य एवैनामेतद्दिग्भ्यो हरति - ३.५.१.[३२]

अथानुव्यूहति । सिंह्यसि सपत्नसाही देवेभ्यः कल्पस्वेति सा यदेवादः सिंही भूत्वा शान्तेवाचरत्तदेवैनामेतदाह सिंह्यसीति सपत्नसाहीति त्वया वयं सपत्नान्पापीयसः क्रियास्मेत्येवैतदाह देवेभ्यः कल्पस्वेति योषा वा उत्तरवेदिस्तामेवैतद्देवेभ्यः कल्पयति - ३.५.१.[३३]

तां वै युगमात्रीं वा सर्वतः करोति । यजमानस्य वा दशदश पदानि दशाक्षरा वै विराड्वाग्वै विराड्वाग्यज्ञो मध्ये नाभिकामिव करोति समानत्रासीनो व्याघारयाणीति - ३.५.१.[३४]

तामद्भिरभ्युक्षति । सा यदेवादः सिंही भूत्वा शान्तेवाचरच्छान्तिरापस्तामद्भिः शमयति योषा वा उत्तरवेदिस्तामेवैतद्देवेभ्यो हिन्वति तस्मादद्भिरभ्युक्षति - ३.५.१.[३५]

सोऽभ्युक्षति । सिंह्यसि सपत्नसाही देवेभ्यः शुन्धस्वेत्यथ सिकताभिरनुविकिरत्यलंकारो न्वेव सिकता भ्राजन्त इव हि सिकता अग्नेर्वा एतद्वैश्वानरस्य भस्म यत्सिकता अग्निं वा अस्यामाधास्यन्भवति तथो हैनामग्निर्न हिनस्ति तस्मात्सिकताभिरनुविकिरति सोऽनुविकिरति सिंह्यसि सपत्नसाही देवेभ्यः शुम्भस्वेत्यथैनां छादयति सा छन्नैतां रात्रिं वसति - ३.५.१.[३६]