शतपथब्राह्मणम्/काण्डम् २/अध्यायः ३/ब्राह्मण ३

विकिस्रोतः तः

२.३.३.

यत्र वै प्रजापतिः प्रजाः ससृजे । स यत्राग्निं ससृजे स इदं जातः सर्वमेव दग्धुं दध्र इत्येवाबिलमेव ता यास्तर्हि प्रजा आसुस्ता हैनं सम्पेष्टुं दध्रिरे सोऽतितिक्षमाणः पुरुषमेवाभ्येयाय - २.३.३.१

स होवाच । न वा अहमिदं तितिक्षे हन्त त्वा प्रविशानि तं मा जनयित्वा बिभृहि स यथैव मां त्वमस्मिंलोके जनयित्वा भरिष्यस्येवमेवाहं त्वाममुष्मिंलोके जनयित्वा भरिष्यामीति तथेति तं जनयित्वाऽबिभः - २.३.३.२

स यदग्नी आधत्ते । तदेनं जनयति तं जनयित्वा बिभर्ति स यथा हैवैष एतमस्मिंलोके जनयित्वा बिभर्त्येवमु हैवैष एतममुष्मिंलोके जनयित्वा बिभर्ति - २.३.३.३

तन्न साम्युद्वासयेत । सामि हास्मै स ग्लायति स यथा हैवैष एतस्मा अस्मिंलोके सामि ग्लायत्येवमु हैवैष एतस्मा अमुष्मिंल्लोके सामि ग्लायति तस्मान्न साम्युद्वासयेत - २.३.३.४

स यत्र म्रियते । यत्रैनमग्नावभ्यादधति तदेषोऽग्नेरधिजायते स एष पुत्रः सन्पिता भवति - २.३.३.५

तस्मादेतदृषिणाभ्यनूक्तम् । शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनां पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोरिति पुत्रो ह्येष सन्त्स पुनः पिता भवत्येतन्नु तद्यस्मादग्नी आदधीत - २.३.३.६

तद्वा एष एव मृत्युः । स एष तपति तद्यदेष एव मृत्युस्तस्माद्या एतस्मादर्वाच्यः प्रजास्ता म्रियन्तेऽथ याः पराच्यस्ते देवास्तस्मादु तेऽमृतास्तस्येमाः सर्वाः प्रजा रश्मिभिः प्राणेष्वभिहितास्तस्मादु रश्मयः प्राणानभ्यवतायन्ते - २.३.३.७

स यस्य कामयते । तस्य प्राणमादायोदेति स म्रियते स यो हैतम्मृत्युमनतिमुच्याथामुं लोकमेति यथा हैवास्मिंलोके न संयतमाद्रियते यदायदैव कामयतेऽथ मारयत्येवमु हैवामुष्मिंलोके पुनःपुनरेव प्रमारयति - २.३.३.८

स यत्सायमस्तमिते द्वे आहुती जुहोति । तदेताभ्यां पूर्वाभ्याम्पद्भ्यामेतस्मिन्मृत्यौ प्रतितिष्ठत्यथ यत्प्रातरनुदिते द्वे आहुती जुहोति तदेताभ्यामपराभ्यां पद्भ्यामेतस्मिन्मृत्यौ प्रतितिष्ठित स एनमेष उद्यन्नेवादायोदेति तदेतं मृत्युमतिमुच्यते सैषाग्निहोत्रे मृत्योरतिमुक्तिरति ह वै पुनर्मृत्युं मुच्यते य एवमेतामग्निहोत्रे मृत्योरतिमुक्तिं वेद - २.३.३.९

यथा वा इषोरनीकम् । एवं यज्ञानामग्निहोत्रं येन वा इषोरनीकमेति सर्वा वै तेनेषुरेत्येतेनो हास्य सर्वे यज्ञक्रतव एतं मृत्युमतिमुक्ताः - २.३.३.१०

अहोरात्रे ह वा अमुष्मिंलोके परिप्लवमाने । पुरुषस्य सुकृतं क्षिणुतोऽर्वाचीनं वा अतोऽहोरात्रे तथो हास्याहोरात्रे सुकृतं न क्षिणुतः - २.३.३.११

स यथा रथोपस्थे तिष्ठन् । उपरिष्टाद्रथचक्रे पल्यङ्यमाने उपावेक्षेतैवम्परस्तादर्वाचीनोऽहोरात्रे उपावेक्षते न ह वा अस्याहोरात्रे सुकृतं क्षिणुतो य एवमेतामहोरात्रयोरतिमुक्तिं वेद - २.३.३.१२

पूर्वेणाहवनीयं परीत्य । अन्तरेण गार्हपत्यं चैति न वै देवा मनुष्यं विदुस्त एनमेतदन्तरेणातियन्तं विदुरयं वै न इदं जुहोतीत्यग्निर्वै पाप्मनोऽपहन्ता तावस्याहवनीयश्च गार्हपत्यश्चान्तरेणातियतः पाप्मानमपहतः सोऽपहतपाप्मा ज्योतिरेव श्रिया यशसा भवति - २.३.३.१३

उत्तरतो वा अग्निहोत्रस्य द्वारम् । स यथा द्वारा प्रपद्येतैवं तदथ यो दक्षिणत एत्यास्ते यथा बहिर्धा चरेदेवं तत् - २.३.३.१४

नौर्ह वा एषा स्वर्ग्या । यदग्निहोत्रं तस्या एतस्यै नावः स्वर्ग्याया आहवनीयश्चैव गार्हपत्यश्च नौमण्डे अथैष एव नावाजो यत्क्षीरहोता - २.३.३.१५

स यत्प्राङुपोदैति । तदेनां प्राचीमभ्यजति स्वर्गं लोकमभि तया स्वर्गं लोकं समश्नुते तस्या उत्तरत आरोहणं सैनं स्वर्गं लोकं समापयत्यथ यो दक्षिणत एत्यास्ते यथा प्रतीर्णायामागच्छेत्स विहीयेत स तत एव बहिर्धा स्यादेवं तत् - २.३.३.१६

अथ यामेतां समिधमभ्यादधाति सेष्टका येन मन्त्रेण जुहोति तद्यजुर्येनैतामिष्टकामुपदधाति यदा वा इष्टकोपधीयतेऽथाहुतिर्हूयते तदस्योपहितास्वेवेष्टकास्वेता आहुतयो हूयन्ते या एता अग्निहोत्राहुतयः - २.३.३.१७

प्रजापतिर्वा अग्निः । संवत्सरो वै प्रजापतिः संवत्सरेसंवत्सरे ह वा अस्याग्निहोत्रं चित्येनाग्निना संतिष्ठते संवत्सरेसंवत्सरे चित्यमग्निमाप्नोति य एवं विद्वानग्निहोत्रं जुहोत्येतदु हास्याग्निहोत्रं चित्येनाग्निना संतिष्ठते चित्यमग्निमाप्नोति - २.३.३.१८

सप्त च वै शतान्यशीतीनामृचः । विंशतिश्च स यत्सायं प्रातरग्निहोत्रं जुहोति ते द्वे आहुती ता अस्य संवत्सर आहुतयः सम्पद्यन्ते - २.३.३.१९

सप्त चैव शतानि विंशतिश्च । संवत्सरे संवत्सरे ह वा अस्याग्निहोत्रम्महतोक्थेन सम्पद्यते संवत्सरे संवत्सरे महदुक्थमाप्नोति य एवं विद्वानग्निहोत्रं जुहोत्येतदु हास्याग्निहोत्रं महतोक्थेन सम्पद्यते महदुक्थमाप्नोति - २.३.३.२०