शतपथब्राह्मणम्/काण्डम् २/अध्यायः १/ब्राह्मण १

विकिस्रोतः तः


२.१.१ अथाग्न्याधानम्। तत्र सम्भारब्राह्मणम्

स यद्वा इतश्चेतश्च सम्भरति । तत्सम्भाराणां सम्भारत्वं यत्रयत्राग्नेर्न्यक्तं ततस्ततः सम्भरति तद्यशसेव त्वदेवैनमेतत्समर्धयति पशुभिरिव त्वन्मिथुनेनेव त्वत्सम्भरन् - २.१.१.१

अथोल्लिखति । तद्यदेवास्यै पृथिव्या अभिष्ठितं वाभिष्ठ्यूतं वा तदेवास्या एतदुद्धन्त्यथ यज्ञियायामेव पृथिव्यामाधत्ते तस्माद्वा उल्लिखति - २.१.१.२

अथाद्भिरभ्युक्षति । एष वा अपां सम्भारो यदद्भिरभ्युक्षति तद्यदपः सम्भरत्यन्नं वा आपोऽन्नं हि वा आपस्तस्माद्यदेमं लोकमाप आगच्छन्त्यथेहान्नाद्यं जायते तदन्नाद्येनैवैनमेतत्समर्धयति - २.१.१.३

योषा वा आपः । वृषाग्निर्मिथुनेनैवैनमेतत्प्रजननेन समर्धयत्यद्भिर्वा इदं सर्वमाप्तमद्भिरेवैनमेतदाप्त्वाधत्ते तस्मादपः सम्भरति - २.१.१.४

अथ हिरण्यं सम्भरति । अग्निर्ह वा अपोऽभिदध्यौ मिथुन्याभिः स्यामिति ताः सम्बभूव तासु रेतः प्रासिञ्चत्तद्धिरण्यमभवत्तस्मादेतदग्निसंकाशमग्नेर्हि रेतस्तस्मादप्सु विन्दन्त्यप्सु हि प्रासिञ्चत्तस्मादेनेन न धावयति न किं चन करोत्यथ यशो देवरेतसं हि तद्यशसैवैनमेतत्समर्धयति सरेतसमेव कृत्स्नमग्निमाधत्ते तस्माद्धिरण्यं सम्भरति - २.१.१.५

अथोषान्त्सम्भरति । असौ ह वै द्यौरस्यै पृथिव्या एतान्पशून्प्रददौ तस्मात्पशव्यमूषरमित्याहुः पशवो ह्येवैते साक्षादेवतत्पशुभिरेवैनमेतत्समर्धयति तेऽमुत आगता अस्यां पृथिव्याम्प्रतिष्ठितास्तमनयोर्द्यावापृथिव्यो रसं मन्यन्ते तदनयोरेवैनमेतद्द्यावापृथिव्यो रसेन समर्धयति तस्मादूषान्त्सम्भरति - २.१.१.६

अथाखुकरीषं सम्भरति । आखवो ह वा अस्यै पृथिव्यै रसं विदुस्तस्मात्तेऽधोऽध इमां पृथिवीं चरन्तः पीविष्ठा अस्यै हि रसं विदुस्ते यत्र तेऽस्यै पृथिव्यै रसं विदुस्तत उत्किरन्ति तदस्या एवैनमेतत्पृथिव्यै रसेन समर्धयति तस्मादाखुकरीषं सम्भरति पुरीष्य[१] इति वै तमाहुर्यः श्रियं गच्छति समानं वै पुरीषं च करीषं च तदेतस्यैवावरुद्ध्यै तस्मादाखुकरीषं सम्भरति - २.१.१.७

अथ शर्कराः सम्भरति । देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे सा हेयम्पृथिव्यलेलायद्यथा पुष्करपर्णमेवं तां ह स्म वातः संवहति सोपैव देवाञ्जगामोपासुरान्त्सा यत्र देवानुपजगाम - २.१.१.८

तद्धोचुः । हन्तेमां प्रतिष्ठां दृंहामहै तस्यां ध्रुवायामशिथिलायामग्नी आदधामहै ततोऽस्यै सपत्नान्निर्भक्ष्याम इति - २.१.१.९

तद्यथा शङ्कुभिश्चर्म विहन्यात् । एवमिमां प्रतिष्ठां पर्यबृंहन्त सेयं ध्रुवाशिथिला प्रतिष्ठा तस्यां ध्रुवायामशिथिलायामग्नी आदधत ततोऽस्यै सपत्नान्निरभजन् - २.१.१.१०

तथो एवैष एतत् । इमां प्रतिष्ठां शर्कराभिः परिबृंहते तस्यां ध्रुवायामशिथिलायामग्नी आधत्ते ततोऽस्यै सपत्नान्निर्भजति तस्माच्छर्कराः सम्भरति- २.१.१.११

तान्वा एतान् । पञ्च सम्भारान्त्सम्भरति पाङ्क्तो यज्ञः पाङ्क्तः पशुः पञ्चर्तवः संवत्सरस्य - २.१.१.१२

तदाहुः । षडेवर्तवः संवत्सरस्येति न्यूनमु तर्हि मिथुनं प्रजननं क्रियते न्यूनाद्वा इमाः प्रजाः प्रजायन्ते तच्छ्वःश्रेयसमुत्तरावत्तस्मात्पञ्च भवन्ति यद्यु षडेवर्तवः संवत्सरस्येत्यग्निरेवैतेषां षष्ठस्तथो एवैतदन्यूनं भवति - २.१.१.१३

तदाहुः । नैवैकं चन सम्भारं सम्भरेदित्यस्यां वा एते सर्वे पृथिव्याम्भवन्ति स यदेवास्यामाधत्ते तत्सर्वान्सम्भारानाप्नोति तस्मान्नैवैकं चन सम्भारं सम्भरेदिति तदु समेव भरेद्यदहैवास्यामाधत्ते तत्सर्वान्त्सम्भारानाप्नोति यदु सम्भारैः सम्भृतैर्भवति तदु भवति तस्मादु समेव भरेत् - २.१.१.१४

  1. अयम् अग्निः पुरीष्यो रयिमान् पुष्टिवर्धनः । अग्ने पुरीष्याभि द्युम्नम् अभि सह ऽ आ यच्छस्व ॥वा.सं. ३.४०