सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् २/अध्यायः १

विकिस्रोतः तः

ब्राह्मण १

१ सम्भारब्राह्मणं, तत्र-संभारनामनिरुक्तिः, भूशुद्ध्याधायकं पञ्चभूसं- स्कारोपलक्षणकमुल्लेखनम्, उदकहिरण्योषाखुकरीषशर्कराणां पञ्चानां सम्भरणम्, पञ्चसंभाराणामर्थवादः, असम्भारपक्षमनूद्य सम्भारपक्षसमर्थनं चेत्यादि.

ब्राह्मण २

२ नक्षत्रब्राह्मणं, तत्र-कृत्तिकारोहिणी- मृगशीर्षेष्वग्न्याधेयविधानं, तत्र कृत्तिका- मृगशीर्षयोरनाधानपक्षमनूद्याधानपक्षसमर्थनम् त्रिकाण्डनक्षत्रोत्पत्तिश्च, रोहिण्यामग्न्याधेयस्य प्रजा- पशुकामनासंयोगः, पुनर्वस्वोः पुन- राधेयविधानम्, अर्जुन्यपरनामकपूर्वोत्तरफल्गुनीहस्तचित्रास्वग्न्याधेयविधानम, तत्र हस्तेऽग्न्याधेयस्य लाभकामनासंयोगः, चित्रानक्षत्राधानस्यार्थवादः, चित्रायामग्न्याधेयस्य क्षत्त्रियपरत्वकथनम्, नानानक्षत्रार्थवादहेतुकं सूर्यनक्षत्रात्मको दगयनकालस्यादित्यनामनिर्वचनम् उदगयनेऽपि सवितर्युदिते सत्यग्न्याधेयं प्रशस्तमिति कथनं चेति.

ब्राह्मण ३

३ ऋतुब्राह्मण, तत्र-वसन्ताद्यृतुत्रयमापूर्यमाणः पक्षोऽहः पूर्वाह्णश्च दैवः, शरदाद्यृतुत्रयमपक्षीयमाणः पक्षो रात्रिरपराह्णश्च पित्र्य इति ऋत्वादिकालानां दैवपित्र्यपरत्वेन द्वेधा विभागकथनम्, दैवपित्र्यर्त्वादिविदःफलार्थवादः, उदग्दक्षिणायनयो- रग्न्याधेयविधानम्, क्रमात्तयोर्दैव- पित्र्यसम्बन्धस्तत्फलं च, वर्णपरत्वेन वसन्ताद्यृतुषु आधानव्यवस्था सका- मस्याकामस्य च जात्या ब्राह्मणस्य ब्रह्मवर्चसकामयोः क्षत्रियविशोराधाने वसन्तर्तोर्नियमविधानम्, सकामस्याकामस्य जात्या क्षत्त्रियस्य श्रीयशस्कामयोर्ब्राह्मणवैश्ययोश्चाधाने ग्रीष्मर्तोर्नियमविधानम्, सकामस्याकामस्य जाया वैश्यस्य बहुप्रजापशुकामयोर्ब्राह्मणक्षत्रिययोश्चाधाने वर्षर्तोर्नियमविधानम्, सोमाधानं षडृतुष्वपि यस्मिन्कस्मिंश्चिद्दिनेऽपि विधेयं, न तत्र कालान्तरप्रतीक्षा कर्तव्येति कथनं चेत्यादि.


ब्राह्मण ४

४ उपवसथब्राह्मणं, तत्र-उपवसथशब्दनिरुक्तिः औपवसथे दिने यष्टुर्दिवानक्तं व्रत्याशननियमविचारः, पराजोपबन्धनमतं निरस्य स्वीयाजोपबन्धनविकल्पं चाभिधाय तस्याजस्य प्रातरग्नीधे दानविधानम, ब्रह्मौदनपचनविधिः, मतमतान्तरादिनिरास- पूर्वकं तस्य ब्रह्मौदनस्य प्राशने एव विनियोगकथनम्, तदङ्गमाश्वत्थीनां समिधामभ्याधानं च, रात्रौ यष्टा जागरणं कुर्यान्न वेति प्रतिपादनम्, अनुदितेऽग्निमन्थनं निषिध्य उदितेऽग्निमन्थनविधानम्, व्याहृतीनामाधानसाधनत्वविधानम्, व्याहृतीनां लोकत्रयवर्णत्रयोत्पत्ति- हेतुत्वेन स्वात्मप्रजापशुसर्जनहेतुत्वेन च प्रशंसनम्, गार्हपत्याधानम्, अग्निमथनसमये पुरस्तादश्वस्य धारण- विधायक इतिहासः, सविशेषहरणप्रकारकं सार्थवाद वैकल्पिकपक्षत्रयेणाहवनीस्याग्नेराधानमम् तत्रान्वारंभजपविधानम्, सार्पराज्ञीभिर्ऋग्भिरग्न्युपस्थानस्य वैकल्पिकं विधानं चेति.