शतपथब्राह्मणम्/काण्डम् २/अध्यायः १/ब्राह्मण २

विकिस्रोतः तः


२.१.२

कृत्तिकास्वग्नी आदधीत । एता वा अग्निनक्षत्रं यत्कृत्तिकास्तद्वै सलोम योऽग्निनक्षत्रेऽग्नी आदधातै तस्मात्कृत्तिकास्वादधीत - २.१.२.१

एकं द्वे त्रीणि । चत्वारीति वा अन्यानि नक्षत्राण्यथैता एव भूयिष्ठा यत्कृत्तिकास्तद्भूमानमेवैतदुपैति तस्मात्कृत्तिकास्वादधीत - २.१.२.२

एता ह वै प्राच्यै दिशो न च्यवन्ते । सर्वाणि ह वा अन्यानि नक्षत्राणि प्राच्यै दिशश्च्यवन्ते तत्प्राच्यामेवास्यैतद्दिश्याहितौ भवतस्तस्मात्कृत्तिकास्वादधीत - २.१.२.३

अथ यस्मान्न कृत्तिकास्वादधीत । ऋक्षाणां ह वा एता अग्रे पत्न्य आसुः सप्तर्षीनु ह स्म वै पुरर्क्षा इत्याचक्षते ता मिथुनेन व्यार्ध्यन्तामी ह्युत्तरा हि सप्तर्षय उद्यन्ति पुर एता अशमिव वै तद्यो मिथुनेन व्यृद्धः स नेन्मिथुनेन व्यृध्या इति तस्मान्न कृत्तिकास्वादधीत - २.१.२.४

तद्वैव दधीत । अग्निर्वा एतासां मिथुनमग्निनैता मिथुनेन समृद्धास्तस्मादैव दधीत - २.१.२.५

रोहिण्यामग्नी आदधीत । रोहिण्यां ह वै प्रजापतिः प्रजाकामोऽग्नी आदधे स प्रजा असृजत ता अस्य प्रजाः सृष्टा एकरूपा उपस्तब्धास्तस्थू रोहिण्य इवैव तद्वै रोहिण्यै
रोहिणीत्वं बहुर्हैव प्रजया पशुभिर्भवति य एवं विद्वान्रोहिण्यामाधत्ते - २.१.२.६

रोहिण्यामु ह वै पशवः । अग्नी आदधिरे मनुष्याणां कामं रोहेमेति ते मनुष्याणां काममरोहन्यमु हैव तत्पशवो मनुष्येषु काममरोहंस्तमु हैव पशुषु कामं रोहति य एवं विद्वान्रोहिण्यामाधत्ते - २.१.२.७

मृगशीर्षेऽग्नी आदधीत । एतद्वै प्रजापतेः शिरो यन्मृगशीर्षं श्रीर्वै शिरः श्रीर्हि वै शिरस्तस्माद्योऽर्धस्य श्रेष्ठो भवत्यसावमुष्यार्धस्य शिर इत्याहुः श्रियं ह गच्छति य एवं विद्वान्मृगशीर्ष आधत्ते - २.१.२.८

अथ यस्मान्ना मृगशीर्ष आदधीत । प्रजापतेर्वा एतच्छरीरं यत्र वा एनं तदावेध्यंस्तदिषुणा त्रिकाण्डेनेत्याहुः स एतच्छरीरमजहाद्वास्तु वै शरीरमयज्ञियं निर्वीर्यं तस्मान्न मृगशीर्ष आदधीत - २.१.२.९

तद्वैव दधीत । न वा एतस्य देवस्य वास्तु नायज्ञियं न शरीरमस्ति यत्प्रजापतेस्तस्मादैव दधीत पुनर्वस्वोः पुनराधेयमादधीतेति - २.१.२.१०

फल्गुनीष्वग्नी आदधीत । एता वा इन्द्रनक्षत्रं यत्फल्गुन्योऽप्यस्य प्रतिनाम्न्योऽर्जुनो ह वै नामेन्द्रो यदस्य गुह्यं नामार्जुन्यो वै नामैतास्ता एतत्परोऽक्षमाचक्षते फल्गुन्य इति को ह्येतस्यार्हति गुह्यं नाम ग्रहीतुमिन्द्रो वै यजमानस्तत्स्व एवैतन्नक्षत्रेऽग्नी आधत्त इन्द्रो यज्ञस्य देवतैतेनोहास्यैतत्सेन्द्रमग्न्याधेयं भवति पूर्वयोरादधीत पुरस्तात्क्रतुर्हैवास्मे भवत्युत्तरयोरादधीत श्वःश्रेयसं हैवास्मा उत्तरावद्भवति - २.१.२.११

हस्तेऽग्नीऽआदधीत । य इच्छेत्प्र मे दीयेतेति तद्वा अनुष्ठ्या यद्धस्तेन प्रदीयते प्र हैवास्मै दीयते - २.१.२.१२

चित्रायामग्नी आदधीत । देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे त उभय एवामुं लोकं समारुरुक्षां चक्रुर्दिवमेव ततोऽसुरा रौहिणमित्यग्निं चिक्यिरेऽनेनामुं लोकं समारोक्ष्याम इति - २.१.२.१३

इन्द्रो ह वा ईक्षां चक्रे । इमं चेद्वा इमे चिन्वते तत एव नोऽभिभवन्तीति स ब्राह्मणो ब्रुवाण एकेष्टकां प्रबध्येयाय - २.१.२.१४

स होवाच । हन्ताहमिमामप्युपदधा इति तथेति तामुपाधत्त तेषामल्पकादेवाग्निरसंचित आस - २.१.२.१५

अथ होवाच । अन्वा अहं तां दास्ये या ममेहेति तामभिपद्या बबर्ह तस्यामावृढायामग्निर्व्यवशशादाग्नेर्व्यवशादमन्वसुरा व्यवशेदुः स ता एवेष्टका वज्रान् कृत्वा ग्रीवाः प्रचिच्छेद - २.१.२.१६

ते ह देवाः समेत्योचुः । चित्रं वा अभूम य इयतः सपत्नानवधिष्मेति तद्वै चित्रायै चित्रात्वं चित्रं ह भवति हन्ति सपत्नान्हन्ति द्विषन्तं भ्रातृव्यं य एवं विद्वांश्चित्रायामाधत्ते तस्मादेतत्क्षत्रिय एव नक्षत्रमुपेर्त्सेज्जिघांसतीव ह्येष सपत्नान्वीव जिगीषते - २.१.२.१७

नाना ह वा एतान्यग्रे क्षत्राण्यासुः । यथैवासौ सूर्य एवं तेषामेष उद्यन्नेव वीर्यं क्षत्रमादत्त तस्मादादित्यो नाम यदेषां वीर्यं क्षत्रमादत्त - २.१.२.१८

ते ह देवा ऊचुः । यानि वै तानि क्षत्राण्यभूवन्न वै तानि क्षत्राण्यभूवन्निति तद्वै नक्षत्राणां नक्षत्रत्वं तस्मादु सूर्यनक्षत्र एव स्यादेष ह्येषां वीर्यं क्षत्रमादत्त यद्यु नक्षत्रकामः स्यादेतद्वा अनपराद्धं नक्षत्रं यत्सूर्यः स एतेनैव पुण्याहेन यदेतेषां नक्षत्राणां कामयेत तदुपेर्त्सेत्तस्मादु सूर्यनक्षत्र एव स्यात् - २.१.२.१९